Sukta 62
Mandala 9 · 30 rks
30 rks · free forever
Uses your saved HI voice · Narration settings
Rk 1
ए॒ते अ॑सृग्र॒मिन्द॑वस्ति॒रः प॒वित्र॑मा॒शवः॑ विश्वा॑न्य॒भि सौभ॑गा
Rk 2
वि॒घ्नन्तो॑ दुरि॒ता पु॒रु सु॒गा तो॒काय॑ वा॒जिनः॑ तना॑ कृ॒ण्वन्तो॒ अर्व॑ते
Rk 3
कृ॒ण्वन्तो॒ वरि॑वो॒ गवे॒ऽभ्य॑र्षन्ति सुष्टु॒तिम् इळा॑म॒स्मभ्यं॑ सं॒यत॑म्
Rk 4
असा॑व्यं॒शुर्मदा॑या॒प्सु दक्षो॑ गिरि॒ष्ठाः श्ये॒नो न योनि॒मास॑दत्
Rk 5
शु॒भ्रमन्धो॑ दे॒ववा॑तम॒प्सु धू॒तो नृभिः॑ सु॒तः स्वद॑न्ति॒ गावः॒ पयो॑भिः
Rk 6
आदी॒मश्वं॒ न हेता॒रोऽशू॑शुभन्न॒मृता॑य मध्वो॒ रसं॑ सध॒मादे॑
Rk 7
यास्ते॒ धारा॑ मधु॒श्चुतोऽसृ॑ग्रमिन्द ऊ॒तये॑ ताभिः॑ प॒वित्र॒मास॑दः
Rk 8
सो अ॒र्षेन्द्रा॑य पी॒तये॑ ति॒रो रोमा॑ण्य॒व्यया॑ सीद॒न्योना॒ वने॒ष्वा
Rk 9
त्वमि॑न्दो॒ परि॑ स्रव॒ स्वादि॑ष्ठो॒ अङ्गि॑रोभ्यः व॒रि॒वो॒विद्घृ॒तं पयः॑
Rk 10
अ॒यं विच॑र्षणिर्हि॒तः पव॑मानः॒ स चे॑तति हि॒न्वा॒न आप्यं॑ बृ॒हत्
Rk 11
ए॒ष वृषा॒ वृष॑व्रतः॒ पव॑मानो अशस्ति॒हा कर॒द्वसू॑नि दा॒शुषे॑
Rk 12
आ प॑वस्व सह॒स्रिणं॑ र॒यिं गोम॑न्तम॒श्विन॑म् पु॒रु॒श्च॒न्द्रं पु॑रु॒स्पृह॑म्
Rk 13
ए॒ष स्य परि॑ षिच्यते मर्मृ॒ज्यमा॑न आ॒युभिः॑ उ॒रु॒गा॒यः क॒विक्र॑तुः
Rk 14
स॒हस्रो॑तिः श॒ताम॑घो वि॒मानो॒ रज॑सः क॒विः इन्द्रा॑य पवते॒ मदः॑
Rk 15
गि॒रा जा॒त इ॒ह स्तु॒त इन्दु॒रिन्द्रा॑य धीयते विर्योना॑ वस॒तावि॑व
Rk 16
पव॑मानः सु॒तो नृभिः॒ सोमो॒ वाज॑मिवासरत् च॒मूषु॒ शक्म॑ना॒सद॑म्
Rk 17
तं त्रि॑पृ॒ष्ठे त्रि॑वन्धु॒रे रथे॑ युञ्जन्ति॒ यात॑वे ऋषी॑णां स॒प्त धी॒तिभिः॑
Rk 18
तं सो॑तारो धन॒स्पृत॑मा॒शुं वाजा॑य॒ यात॑वे हरिं॑ हिनोत वा॒जिन॑म्
Rk 19
आ॒वि॒शन्क॒लशं॑ सु॒तो विश्वा॒ अर्ष॑न्न॒भि श्रियः॑ शूरो॒ न गोषु॑ तिष्ठति
Rk 20
आ त॑ इन्दो॒ मदा॑य॒ कं पयो॑ दुहन्त्या॒यवः॑ दे॒वा दे॒वेभ्यो॒ मधु॑
Rk 21
आ नः॒ सोमं॑ प॒वित्र॒ आ सृ॒जता॒ मधु॑मत्तमम् दे॒वेभ्यो॑ देव॒श्रुत्त॑मम्
Rk 22
ए॒ते सोमा॑ असृक्षत गृणा॒नाः श्रव॑से म॒हे म॒दिन्त॑मस्य॒ धार॑या
Rk 23
अ॒भि गव्या॑नि वी॒तये॑ नृ॒म्णा पु॑ना॒नो अ॑र्षसि स॒नद्वा॑जः॒ परि॑ स्रव
Rk 24
उ॒त नो॒ गोम॑ती॒रिषो॒ विश्वा॑ अर्ष परि॒ष्टुभः॑ गृ॒णा॒नो ज॒मद॑ग्निना
Rk 25
पव॑स्व वा॒चो अ॑ग्रि॒यः सोम॑ चि॒त्राभि॑रू॒तिभिः॑ अ॒भि विश्वा॑नि॒ काव्या॑
Rk 26
त्वं स॑मु॒द्रिया॑ अ॒पो॑ऽग्रि॒यो वाच॑ ई॒रय॑न् पव॑स्व विश्वमेजय
Rk 27
तुभ्ये॒मा भुव॑ना कवे महि॒म्ने सो॑म तस्थिरे तुभ्य॑मर्षन्ति॒ सिन्ध॑वः
Rk 28
प्र ते॑ दि॒वो न वृ॒ष्टयो॒ धारा॑ यन्त्यस॒श्चतः॑ अ॒भि शु॒क्रामु॑प॒स्तिर॑म्
Rk 29
इन्द्रा॒येन्दुं॑ पुनीतनो॒ग्रं दक्षा॑य॒ साध॑नम् ई॒शा॒नं वी॒तिरा॑धसम्
Rk 30
पव॑मान ऋ॒तः क॒विः सोमः॑ प॒वित्र॒मास॑दत् दध॑त्स्तो॒त्रे सु॒वीर्य॑म्