Sukta 12
Mandala 9 · 9 rks
9 rks · free forever
Listen to this section
Uses your saved HI voice · Narration settings
Rk 1
सोमा॑ असृग्र॒मिन्द॑वः सु॒ता ऋ॒तस्य॒ साद॑ने इन्द्रा॑य॒ मधु॑मत्तमाः
Rk 2
अ॒भि विप्रा॑ अनूषत॒ गावो॑ व॒त्सं न मा॒तरः॑ इन्द्रं॒ सोम॑स्य पी॒तये॑
Rk 3
म॒द॒च्युत्क्षे॑ति॒ साद॑ने॒ सिन्धो॑रू॒र्मा वि॑प॒श्चित् सोमो॑ गौ॒री अधि॑ श्रि॒तः
Rk 4
दि॒वो नाभा॑ विचक्ष॒णोऽव्यो॒ वारे॑ महीयते सोमो॒ यः सु॒क्रतुः॑ क॒विः
Rk 5
यः सोमः॑ क॒लशे॒ष्वाँ अ॒न्तः प॒वित्र॒ आहि॑तः तमिन्दुः॒ परि॑ षस्वजे
Rk 6
प्र वाच॒मिन्दु॑रिष्यति समु॒द्रस्याधि॑ वि॒ष्टपि॑ जिन्व॒न्कोशं॑ मधु॒श्चुत॑म्
Rk 7
नित्य॑स्तोत्रो॒ वन॒स्पति॑र्धी॒नाम॒न्तः स॑ब॒र्दुघः॑ हि॒न्वा॒नो मानु॑षा यु॒गा
Rk 8
अ॒भि प्रि॒या दि॒वस्प॒दा सोमो॑ हिन्वा॒नो अ॑र्षति विप्र॑स्य॒ धार॑या क॒विः
Rk 9
आ प॑वमान धारय र॒यिं स॒हस्र॑वर्चसम् अ॒स्मे इ॑न्दो स्वा॒भुव॑म्