Sukta 13
Mandala 9 · 9 rks
9 rks · free forever
Listen to this section
Uses your saved HI voice · Narration settings
Rk 1
सोमः॑ पुना॒नो अ॑र्षति स॒हस्र॑धारो॒ अत्य॑विः वा॒योरिन्द्र॑स्य निष्कृ॒तम्
Rk 2
पव॑मानमवस्यवो॒ विप्र॑म॒भि प्र गा॑यत सु॒ष्वा॒णं दे॒ववी॑तये
Rk 3
पव॑न्ते॒ वाज॑सातये॒ सोमाः॑ स॒हस्र॑पाजसः गृ॒णा॒ना दे॒ववी॑तये
Rk 4
उ॒त नो॒ वाज॑सातये॒ पव॑स्व बृह॒तीरिषः॑ द्यु॒मदि॑न्दो सु॒वीर्य॑म्
Rk 5
ते नः॑ सह॒स्रिणं॑ र॒यिं पव॑न्ता॒मा सु॒वीर्य॑म् सु॒वा॒ना दे॒वास॒ इन्द॑वः
Rk 6
अत्या॑ हिया॒ना न हे॒तृभि॒रसृ॑ग्रं॒ वाज॑सातये वि वार॒मव्य॑मा॒शवः॑
Rk 7
वा॒श्रा अ॑र्ष॒न्तीन्द॑वो॒ऽभि व॒त्सं न धे॒नवः॑ द॒ध॒न्वि॒रे गभ॑स्त्योः
Rk 8
जुष्ट॒ इन्द्रा॑य मत्स॒रः पव॑मान॒ कनि॑क्रदत् विश्वा॒ अप॒ द्विषो॑ जहि
Rk 9
अ॒प॒घ्नन्तो॒ अरा॑व्णः॒ पव॑मानाः स्व॒र्दृशः॑ योना॑वृ॒तस्य॑ सीदत