Sukta 79
Mandala 8 · 9 rks
9 rks · free forever
Uses your saved HI voice · Narration settings
Rk 1
अ॒यं कृ॒त्नुरगृ॑भीतो विश्व॒जिदु॒द्भिदित्सोमः॑ ऋषि॒र्विप्रः॒ काव्ये॑न
Rk 2
अ॒भ्यू॑र्णोति॒ यन्न॒ग्नं भि॒षक्ति॒ विश्वं॒ यत्तु॒रम् प्रेम॒न्धः ख्य॒न्निः श्रो॒णो भू॑त्
Rk 3
त्वं सो॑म तनू॒कृद्भ्यो॒ द्वेषो॑भ्यो॒ऽन्यकृ॑तेभ्यः उ॒रु य॒न्तासि॒ वरू॑थम्
Rk 4
त्वं चि॒त्ती तव॒ दक्षै॑र्दि॒व आ पृ॑थि॒व्या ऋ॑जीषिन् यावी॑र॒घस्य॑ चि॒द्द्वेषः॑
Rk 5
अ॒र्थिनो॒ यन्ति॒ चेदर्थं॒ गच्छा॒निद्द॒दुषो॑ रा॒तिम् व॒वृ॒ज्युस्तृष्य॑तः॒ काम॑म्
Rk 6
वि॒दद्यत्पू॒र्व्यं न॒ष्टमुदी॑मृता॒युमी॑रयत् प्रेमायु॑स्तारी॒दती॑र्णम्
Rk 7
सु॒शेवो॑ नो मृळ॒याकु॒रदृ॑प्तक्रतुरवा॒तः भवा॑ नः सोम॒ शं हृ॒दे
Rk 8
मा नः॑ सोम॒ सं वी॑विजो॒ मा वि बी॑भिषथा राजन् मा नो॒ हार्दि॑ त्वि॒षा व॑धीः
Rk 9
अव॒ यत्स्वे स॒धस्थे॑ दे॒वानां॑ दुर्म॒तीरीक्षे॑ राज॒न्नप॒ द्विषः॑ सेध॒ मीढ्वो॒ अप॒ स्रिधः॑ सेध