Lipi
Sign in
Classic reading room ↗

Sukta 76

Mandala 8 · 12 rks

12 rks · free forever

Listen to this section

Uses your saved HI voice · Narration settings

  1. Rk 1

    इ॒मं नु मा॒यिनं॑ हुव॒ इन्द्र॒मीशा॑न॒मोज॑सा म॒रुत्व॑न्तं॒ न वृ॒ञ्जसे॑

  2. Rk 2

    अ॒यमिन्द्रो॑ म॒रुत्स॑खा॒ वि वृ॒त्रस्या॑भिन॒च्छिरः॑ वज्रे॑ण श॒तप॑र्वणा

  3. Rk 3

    वा॒वृ॒धा॒नो म॒रुत्स॒खेन्द्रो॒ वि वृ॒त्रमै॑रयत् सृ॒जन्त्स॑मु॒द्रिया॑ अ॒पः

  4. Rk 4

    अ॒यं ह॒ येन॒ वा इ॒दं स्व॑र्म॒रुत्व॑ता जि॒तम् इन्द्रे॑ण॒ सोम॑पीतये

  5. Rk 5

    म॒रुत्व॑न्तमृजी॒षिण॒मोज॑स्वन्तं विर॒प्शिन॑म् इन्द्रं॑ गी॒र्भिर्ह॑वामहे

  6. Rk 6

    इन्द्रं॑ प्र॒त्नेन॒ मन्म॑ना म॒रुत्व॑न्तं हवामहे अ॒स्य सोम॑स्य पी॒तये॑

  7. Rk 7

    म॒रुत्वाँ॑ इन्द्र मीढ्वः॒ पिबा॒ सोमं॑ शतक्रतो अ॒स्मिन्य॒ज्ञे पु॑रुष्टुत

  8. Rk 8

    तुभ्येदि॑न्द्र म॒रुत्व॑ते सु॒ताः सोमा॑सो अद्रिवः हृ॒दा हू॑यन्त उ॒क्थिनः॑

  9. Rk 9

    पिबेदि॑न्द्र म॒रुत्स॑खा सु॒तं सोमं॒ दिवि॑ष्टिषु वज्रं॒ शिशा॑न॒ ओज॑सा

  10. Rk 10

    उ॒त्तिष्ठ॒न्नोज॑सा स॒ह पी॒त्वी शिप्रे॑ अवेपयः सोम॑मिन्द्र च॒मू सु॒तम्

  11. Rk 11

    अनु॑ त्वा॒ रोद॑सी उ॒भे क्रक्ष॑माणमकृपेताम् इन्द्र॒ यद्द॑स्यु॒हाभ॑वः

  12. Rk 12

    वाच॑म॒ष्टाप॑दीम॒हं नव॑स्रक्तिमृत॒स्पृश॑म् इन्द्रा॒त्परि॑ त॒न्वं॑ ममे