Sukta 14
Mandala 8 · 15 rks
15 rks · free forever
Uses your saved HI voice · Narration settings
Rk 1
यदि॑न्द्रा॒हं यथा॒ त्वमीशी॑य॒ वस्व॒ एक॒ इत् स्तो॒ता मे॒ गोष॑खा स्यात्
Rk 2
शिक्षे॑यमस्मै॒ दित्से॑यं॒ शची॑पते मनी॒षिणे॑ यद॒हं गोप॑तिः॒ स्याम्
Rk 3
धे॒नुष्ट॑ इन्द्र सू॒नृता॒ यज॑मानाय सुन्व॒ते गामश्वं॑ पि॒प्युषी॑ दुहे
Rk 4
न ते॑ व॒र्तास्ति॒ राध॑स॒ इन्द्र॑ दे॒वो न मर्त्यः॑ यद्दित्स॑सि स्तु॒तो म॒घम्
Rk 5
य॒ज्ञ इन्द्र॑मवर्धय॒द्यद्भूमिं॒ व्यव॑र्तयत् च॒क्रा॒ण ओ॑प॒शं दि॒वि
Rk 6
वा॒वृ॒धा॒नस्य॑ ते व॒यं विश्वा॒ धना॑नि जि॒ग्युषः॑ ऊ॒तिमि॒न्द्रा वृ॑णीमहे
Rk 7
व्य१॒॑न्तरि॑क्षमतिर॒न्मदे॒ सोम॑स्य रोच॒ना इन्द्रो॒ यदभि॑नद्व॒लम्
Rk 8
उद्गा आ॑ज॒दङ्गि॑रोभ्य आ॒विष्कृ॒ण्वन्गुहा॑ स॒तीः अ॒र्वाञ्चं॑ नुनुदे व॒लम्
Rk 9
इन्द्रे॑ण रोच॒ना दि॒वो दृ॒ळ्हानि॑ दृंहि॒तानि॑ च स्थि॒राणि॒ न प॑रा॒णुदे॑
Rk 10
अ॒पामू॒र्मिर्मद॑न्निव॒ स्तोम॑ इन्द्राजिरायते वि ते॒ मदा॑ अराजिषुः
Rk 11
त्वं हि स्तो॑म॒वर्ध॑न॒ इन्द्रास्यु॑क्थ॒वर्ध॑नः स्तो॒तॄ॒णामु॒त भ॑द्र॒कृत्
Rk 12
इन्द्र॒मित्के॒शिना॒ हरी॑ सोम॒पेया॑य वक्षतः उप॑ य॒ज्ञं सु॒राध॑सम्
Rk 13
अ॒पां फेने॑न॒ नमु॑चेः॒ शिर॑ इ॒न्द्रोद॑वर्तयः विश्वा॒ यदज॑यः॒ स्पृधः॑
Rk 14
मा॒याभि॑रु॒त्सिसृ॑प्सत॒ इन्द्र॒ द्यामा॒रुरु॑क्षतः अव॒ दस्यूँ॑रधूनुथाः
Rk 15
अ॒सु॒न्वामि॑न्द्र सं॒सदं॒ विषू॑चीं॒ व्य॑नाशयः सो॒म॒पा उत्त॑रो॒ भव॑न्