Sukta 15
Mandala 8 · 13 rks
13 rks · free forever
Uses your saved HI voice · Narration settings
Rk 1
तम्व॒भि प्र गा॑यत पुरुहू॒तं पु॑रुष्टु॒तम् इन्द्रं॑ गी॒र्भिस्त॑वि॒षमा वि॑वासत
Rk 2
यस्य॑ द्वि॒बर्ह॑सो बृ॒हत्सहो॑ दा॒धार॒ रोद॑सी गि॒रीँरज्राँ॑ अ॒पः स्व॑र्वृषत्व॒ना
Rk 3
स रा॑जसि पुरुष्टुतँ॒ एको॑ वृ॒त्राणि॑ जिघ्नसे इन्द्र॒ जैत्रा॑ श्रव॒स्या॑ च॒ यन्त॑वे
Rk 4
तं ते॒ मदं॑ गृणीमसि॒ वृष॑णं पृ॒त्सु सा॑स॒हिम् उ॒ लो॒क॒कृ॒त्नुम॑द्रिवो हरि॒श्रिय॑म्
Rk 5
येन॒ ज्योतीं॑ष्या॒यवे॒ मन॑वे च वि॒वेदि॑थ म॒न्दा॒नो अ॒स्य ब॒र्हिषो॒ वि रा॑जसि
Rk 6
तद॒द्या चि॑त्त उ॒क्थिनोऽनु॑ ष्टुवन्ति पू॒र्वथा॑ वृष॑पत्नीर॒पो ज॑या दि॒वेदि॑वे
Rk 7
तव॒ त्यदि॑न्द्रि॒यं बृ॒हत्तव॒ शुष्म॑मु॒त क्रतु॑म् वज्रं॑ शिशाति धि॒षणा॒ वरे॑ण्यम्
Rk 8
तव॒ द्यौरि॑न्द्र॒ पौंस्यं॑ पृथि॒वी व॑र्धति॒ श्रवः॑ त्वामापः॒ पर्व॑तासश्च हिन्विरे
Rk 9
त्वां विष्णु॑र्बृ॒हन्क्षयो॑ मि॒त्रो गृ॑णाति॒ वरु॑णः त्वां शर्धो॑ मद॒त्यनु॒ मारु॑तम्
Rk 10
त्वं वृषा॒ जना॑नां॒ मंहि॑ष्ठ इन्द्र जज्ञिषे स॒त्रा विश्वा॑ स्वप॒त्यानि॑ दधिषे
Rk 11
स॒त्रा त्वं पु॑रुष्टुतँ॒ एको॑ वृ॒त्राणि॑ तोशसे नान्य इन्द्रा॒त्कर॑णं॒ भूय॑ इन्वति
Rk 12
यदि॑न्द्र मन्म॒शस्त्वा॒ नाना॒ हव॑न्त ऊ॒तये॑ अ॒स्माके॑भि॒र्नृभि॒रत्रा॒ स्व॑र्जय
Rk 13
अरं॒ क्षया॑य नो म॒हे विश्वा॑ रू॒पाण्या॑वि॒शन् इन्द्रं॒ जैत्रा॑य हर्षया॒ शची॒पति॑म्