Sukta 18
Mandala 1 · 9 rks
9 rks · free forever
Listen to this section
Uses your saved HI voice · Narration settings
Rk 1
सो॒मानं॒ स्वर॑णं कृणु॒हि ब्र॑ह्मणस्पते क॒क्षीव॑न्तं॒ य औ॑शि॒जः
Rk 2
यो रे॒वान्यो अ॑मीव॒हा व॑सु॒वित्पु॑ष्टि॒वर्ध॑नः स नः॑ सिषक्तु॒ यस्तु॒रः
Rk 3
मा नः॒ शंसो॒ अर॑रुषो धू॒र्तिः प्रण॒ङ्मर्त्य॑स्य रक्षा॑ णो ब्रह्मणस्पते
Rk 4
स घा॑ वी॒रो न रि॑ष्यति॒ यमिन्द्रो॒ ब्रह्म॑ण॒स्पतिः॑ सोमो॑ हि॒नोति॒ मर्त्य॑म्
Rk 5
त्वं तं ब्र॑ह्मणस्पते॒ सोम॒ इन्द्र॑श्च॒ मर्त्य॑म् दक्षि॑णा पा॒त्वंह॑सः
Rk 6
सद॑स॒स्पति॒मद्भु॑तं प्रि॒यमिन्द्र॑स्य॒ काम्य॑म् स॒निं मे॒धाम॑यासिषम्
Rk 7
यस्मा॑दृ॒ते न सिध्य॑ति य॒ज्ञो वि॑प॒श्चित॑श्च॒न स धी॒नां योग॑मिन्वति
Rk 8
आदृ॑ध्नोति ह॒विष्कृ॑तिं॒ प्राञ्चं॑ कृणोत्यध्व॒रम् होत्रा॑ दे॒वेषु॑ गच्छति
Rk 9
नरा॒शंसं॑ सु॒धृष्ट॑म॒मप॑श्यं स॒प्रथ॑स्तमम् दि॒वो न सद्म॑मखसम्