Sukta 16
Mandala 1 · 9 rks
9 rks · free forever
Listen to this section
Uses your saved HI voice · Narration settings
Rk 1
आ त्वा॑ वहन्तु॒ हर॑यो॒ वृष॑णं॒ सोम॑पीतये इन्द्र॑ त्वा॒ सूर॑चक्षसः
Rk 2
इ॒मा धा॒ना घृ॑त॒स्नुवो॒ हरी॑ इ॒होप॑ वक्षतः इन्द्रं॑ सु॒खत॑मे॒ रथे॑
Rk 3
इन्द्रं॑ प्रा॒तर्ह॑वामह॒ इन्द्रं॑ प्रय॒त्य॑ध्व॒रे इन्द्रं॒ सोम॑स्य पी॒तये॑
Rk 4
उप॑ नः सु॒तमा ग॑हि॒ हरि॑भिरिन्द्र के॒शिभिः॑ सु॒ते हि त्वा॒ हवा॑महे
Rk 5
सेमं नः॒ स्तोम॒मा ग॒ह्युपे॒दं सव॑नं सु॒तम् गौ॒रो न तृ॑षि॒तः पि॑ब
Rk 6
इ॒मे सोमा॑स॒ इन्द॑वः सु॒तासो॒ अधि॑ ब॒र्हिषि॑ ताँ इ॑न्द्र॒ सह॑से पिब
Rk 7
अ॒यं ते॒ स्तोमो॑ अग्रि॒यो हृ॑दि॒स्पृग॑स्तु॒ शंत॑मः अथा॒ सोमं॑ सु॒तं पि॑ब
Rk 8
विश्व॒मित्सव॑नं सु॒तमिन्द्रो॒ मदा॑य गच्छति वृ॒त्र॒हा सोम॑पीतये
Rk 9
सेमं नः॒ काम॒मा पृ॑ण॒ गोभि॒रश्वैः॑ शतक्रतो स्तवा॑म त्वा स्वा॒ध्यः॑