Lipi
Sign in
Classic reading room ↗

Sarga 87

Ayodhya Kanda

24 verses · free forever

Listen to this section

Uses your saved HI voice · Narration settings

  1. Verse 1

    '''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्ताशीतितमः सर्गः ॥२-८७॥''' गुहस्य वचनम् श्रुत्वा भरतो भृशम् अप्रियम् । ध्यानम् जगाम तत्र एव यत्र तत् श्रुतम् अप्रियम्

  2. Verse 2

    सुकुमारो महा सत्त्वः सिम्ह स्कन्धो महा भुजः । पुण्डरीक विशाल अक्षः तरुणः प्रिय दर्शनः

  3. Verse 3

    प्रत्याश्वस्य मुहूर्तम् तु कालम् परम दुर्मनाः । पपात सहसा तोत्रैर् हृदि विद्ध इव द्विपः

  4. Verse 4

    भरतम् मुर्च्Cइतम् द्रुष्ट्वा विवर्णवदनो गुहः । बभूव व्यथितस्तत्र भूमिकम्पे यथा द्रुमः

  5. Verse 5

    तद् अवस्थम् तु भरतम् शत्रुघ्नो अनन्तर स्थितः । परिष्वज्य रुरोद उच्चैर् विसम्ज्नः शोक कर्शितः

  6. Verse 6

    ततः सर्वाः समापेतुर् मातरो भरतस्य ताः । उपवास कृशा दीना भर्तृ व्यसन कर्शिताः

  7. Verse 7

    ताः च तम् पतितम् भूमौ रुदन्त्यः पर्यवारयन् । कौसल्या तु अनुसृत्य एनम् दुर्मनाः परिषस्वजे

  8. Verse 8

    वत्सला स्वम् यथा वत्सम् उपगूह्य तपस्विनी । परिपप्रग्च्Cअ भरतम् रुदन्ती शोक लालसा

  9. Verse 9

    पुत्र व्याधिर् न ते कच्चित् शरीरम् परिबाधते । अद्य राज कुलस्य अस्य त्वद् अधीनम् हि जीवितम्

  10. Verse 10

    त्वाम् दृष्ट्वा पुत्र जीवामि रामे सभ्रातृके गते । वृत्ते दशरथे राज्नि नाथ एकः त्वम् अद्य नः

  11. Verse 11

    कच्चिन् न लक्ष्मणे पुत्र श्रुतम् ते किम्चिद् अप्रियम् । पुत्र वा ह्य् एकपुत्रायाः सह भार्ये वनम् गते

  12. Verse 12

    स मुहूर्तम् समाश्वस्य रुदन्न् एव महा यशाः । कौसल्याम् परिसान्त्व्य इदम् गुहम् वचनम् अब्रवीत्

  13. Verse 13

    भ्राता मे क्व अवसद् रात्रिम् क्व सीता क्व च लक्ष्मणः । अस्वपत् शयने कस्मिन् किम् भुक्त्वा गुह शम्स मे

  14. Verse 14

    सो अब्रवीद् भरतम् पृष्टो निषाद अधिपतिर् गुहः । यद् विधम् प्रतिपेदे च रामे प्रिय हिते अतिथौ

  15. Verse 15

    अन्नम् उच्च अवचम् भक्ष्याः फलानि विविधानि च । रामाय अभ्यवहार अर्थम् बहु च उपहृतम् मया

  16. Verse 16

    तत् सर्वम् प्रत्यनुज्नासीद् रामः सत्य पराक्रमः । न हि तत् प्रत्यगृह्णात् स क्षत्र धर्मम् अनुस्मरन्

  17. Verse 17

    न ह्य् अस्माभिः प्रतिग्राह्यम् सखे देयम् तु सर्वदा । इति तेन वयम् राजन्न् अनुनीता महात्मना

  18. Verse 18

    लक्ष्मणेन समानीतम् पीत्वा वारि महा यशाः । औपवास्यम् तदा अकार्षीद् राघवः सह सीतया

  19. Verse 19

    ततः तु जल शेषेण लक्ष्मणो अप्य् अकरोत् तदा । वाग् यताः ते त्रयः सम्ध्याम् उपासत समाहिताः

  20. Verse 20

    सौमित्रिः तु ततः पश्चाद् अकरोत् स्वास्तरम् शुभम् । स्वयम् आनीय बर्हीम्षि क्षिप्रम् राघव कारणात्

  21. Verse 21

    तस्मिन् समाविशद् रामः स्वास्तरे सह सीतया । प्रक्षाल्य च तयोः पादाउ अपचक्राम लक्ष्मणः

  22. Verse 22

    एतत् तद् इन्गुदी मूलम् इदम् एव च तत् तृणम् । यस्मिन् रामः च सीता च रात्रिम् ताम् शयिताउ उभौ

  23. Verse 23

    नियम्य पृष्ठे तु तल अन्गुलित्रवान् । शरैः सुपूर्णाउ इषुधी परम् तपः । महद् धनुः सज्यम् उपोह्य लक्ष्मणो । निशाम् अतिष्ठत् परितो अस्य केवलम्

  24. Verse 24

    ततः तु अहम् च उत्तम बाण चापधृक् । स्थितो अभवम् तत्र स यत्र लक्ष्मणः । अतन्द्रिभिर् ज्नातिभिर् आत्त कार्मुकैर् । महा इन्द्र कल्पम् परिपालयमः तदा