Sarga 86
Ayodhya Kanda
25 verses · free forever
Uses your saved HI voice · Narration settings
Verse 1
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षडशीतितमः सर्गः ॥२-८६॥''' आचचक्षे अथ सद्भावम् लक्ष्मणस्य महात्मनः । भरताय अप्रमेयाय गुहो गहन गोचरः
Verse 2
तम् जाग्रतम् गुणैर् युक्तम् वर चाप इषु धारिणम् । भ्रातृ गुप्त्य् अर्थम् अत्यन्तम् अहम् लक्ष्मणम् अब्रवम्
Verse 3
इयम् तात सुखा शय्या त्वद् अर्थम् उपकल्पिता । प्रत्याश्वसिहि शेष्व अस्याम् सुखम् राघव नन्दन
Verse 4
उचितो अयम् जनः सर्वे दुह्खानाम् त्वम् सुख उचितः । धर्म आत्ममः तस्य गुप्त्य् अर्थम् जागरिष्यामहे वयम्
Verse 5
न हि रामात् प्रियतरो मम अस्ति भुवि कश्चन । मा उत्सुको भूर् ब्रवीम्य् एतद् अप्य् असत्यम् तव अग्रतः
Verse 6
अस्य प्रसादाद् आशम्से लोके अस्मिन् सुमहद् यशः । धर्म अवाप्तिम् च विपुलाम् अर्थ अवाप्तिम् च केवलाम्
Verse 7
सो अहम् प्रिय सखम् रामम् शयानम् सह सीतया । रक्षिष्यामि धनुष् पाणिः सर्वैः स्वैर् ज्नातिभिः सह
Verse 8
न हि मे अविदितम् किम्चिद् वने अस्मिमः चरतः सदा । चतुर् अन्गम् ह्य् अपि बलम् प्रसहेम वयम् युधि
Verse 9
एवम् अस्माभिर् उक्तेन लक्ष्मणेन महात्मना । अनुनीता वयम् सर्वे धर्मम् एव अनुपश्यता
Verse 10
कथम् दाशरथौ भूमौ शयाने सह सीतया । शक्या निद्रा मया लब्धुम् जीवितम् वा सुखानि वा
Verse 11
यो न देव असुरैः सर्वैः शक्यः प्रसहितुम् युधि । तम् पश्य गुह सम्विष्टम् तृणेषु सह सीतया
Verse 12
महता तपसा लब्धो विविधैः च परिश्रमैः । एको दशरथस्य एष पुत्रः सदृश लक्षणः
Verse 13
अस्मिन् प्रव्राजिते राजा न चिरम् वर्तयिष्यति । विधवा मेदिनी नूनम् क्षिप्रम् एव भविष्यति
Verse 14
विनद्य सुमहा नादम् श्रमेण उपरताः स्त्रियः । निर्घोष उपरतम् नूनम् अद्य राज निवेशनम्
Verse 15
कौसल्या चैव राजा च तथा एव जननी मम । न आशम्से यदि ते सर्वे जीवेयुः शर्वरीम् इमाम्
Verse 16
जीवेद् अपि हि मे माता शत्रुघ्नस्य अन्ववेक्षया । दुह्खिता या तु कौसल्या वीरसूर् विनशिष्यति
Verse 17
अतिक्रान्तम् अतिक्रान्तम् अनवाप्य मनो रथम् । राज्ये रामम् अनिक्षिप्य पिता मे विनशिष्यति
Verse 18
सिद्ध अर्थाः पितरम् वृत्तम् तस्मिन् काले ह्य् उपस्थिते । प्रेत कार्येषु सर्वेषु सम्स्करिष्यन्ति भूमिपम्
Verse 19
रम्य चत्वर सम्स्थानाम् सुविभक्त महा पथाम् । हर्म्य प्रासाद सम्पन्नाम् सर्व रत्न विभूषिताम्
Verse 20
गज अश्व रथ सम्बाधाम् तूर्य नाद विनादिताम् । सर्व कल्याण सम्पूर्णाम् हृष्ट पुष्ट जन आकुलाम्
Verse 21
आराम उद्यान सम्पूर्णाम् समाज उत्सव शालिनीम् । सुखिता विचरिष्यन्ति राज धानीम् पितुर् मम
Verse 22
अपि सत्य प्रतिज्नेन सार्धम् कुशलिना वयम् । निवृत्ते समये ह्य् अस्मिन् सुखिताः प्रविशेमहि
Verse 23
परिदेवयमानस्य तस्य एवम् सुमहात्मनः । तिष्ठतो राज पुत्रस्य शर्वरी सा अत्यवर्तत
Verse 24
प्रभाते विमले सूर्ये कारयित्वा जटा उभौ । अस्मिन् भागीरथी तीरे सुखम् सम्तारितौ मया
Verse 25
जटा धरौ तौ द्रुम चीर वाससौ । महा बलौ कुन्जर यूथप उपमौ । वर इषु चाप असि धरौ परम् तपौ । व्यवेक्षमाणौ सह सीतया गतौ