Lipi
Sign in
Classic reading room ↗

Sarga 88

Ayodhya Kanda

30 verses · free forever

Listen to this section

Uses your saved HI voice · Narration settings

  1. Verse 1

    '''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टाशीतितमः सर्गः ॥२-८८॥''' तत् श्रुत्वा निपुणम् सर्वम् भरतः सह मन्त्रिभिः । इन्गुदी मूलम् आगम्य राम शय्याम् अवेक्ष्य ताम्

  2. Verse 2

    अब्रवीद् जननीः सर्वा इह तेन महात्मना । शर्वरी शयिता भूमाउ इदम् अस्य विमर्दितम्

  3. Verse 3

    महा भाग कुलीनेन महा भागेन धीमता । जातो दशरथेन ऊर्व्याम् न रामः स्वप्तुम् अर्हति

  4. Verse 4

    अजिन उत्तर सम्स्तीर्णे वर आस्तरण सम्चये । शयित्वा पुरुष व्याघ्रः कथम् शेते मही तले

  5. Verse 5

    प्रासाद अग्र विमानेषु वलभीषु च सर्वदा । हैम राजत भौमेषु वर आस्त्ररण शालिषु

  6. Verse 6

    पुष्प सम्चय चित्रेषु चन्दन अगरु गन्धिषु । पाण्डुर अभ्र प्रकाशेषु शुक सम्घ रुतेषु च

  7. Verse 7

    प्रासादवरवर्येषु शीतवत्सु सुगन्धिषु । उषित्वा मेरुकल्पेषु कृतकाम्चनभित्तिषु

  8. Verse 8

    गीत वादित्र निर्घोषैर् वर आभरण निह्स्वनैः । मृदन्ग वर शब्दैः च सततम् प्रतिबोधितः

  9. Verse 9

    बन्दिभिर् वन्दितः काले बहुभिः सूत मागधैः । गाथाभिर् अनुरूपाभिः स्तुतिभिः च परम्तपः

  10. Verse 10

    अश्रद्धेयम् इदम् लोके न सत्यम् प्रतिभाति मा । मुह्यते खलु मे भावः स्वप्नो अयम् इति मे मतिः

  11. Verse 11

    न नूनम् दैवतम् किम्चित् कालेन बलवत्तरम् । यत्र दाशरथी रामो भूमाउ एवम् शयीत सः

  12. Verse 12

    विदेह राजस्य सुता सीता च प्रिय दर्शना । दयिता शयिता भूमौ स्नुषा दशरथस्य च

  13. Verse 13

    इयम् शय्या मम भ्रातुर् इदम् हि परिवर्तितम् । स्थण्डिले कठिने सर्वम् गात्रैर् विमृदितम् तृणम्

  14. Verse 14

    मन्ये साभरणा सुप्ता सीता अस्मिन् शयने तदा । तत्र तत्र हि दृश्यन्ते सक्ताः कनक बिन्दवः

  15. Verse 15

    उत्तरीयम् इह आसक्तम् सुव्यक्तम् सीतया तदा । तथा ह्य् एते प्रकाशन्ते सक्ताः कौशेय तन्तवः

  16. Verse 16

    मन्ये भर्तुः सुखा शय्या येन बाला तपस्विनी । सुकुमारी सती दुह्खम् न विजानाति मैथिली

  17. Verse 17

    हा हन्तास्मि नृशम्सोऽहम् यत्सभार्यः कृतेमम । ईदृशीं राघवः शय्यामधिशेते ह्यानाथवत्

  18. Verse 18

    सार्वभौम कुले जातः सर्व लोक सुख आवहः । सर्व लोक प्रियः त्यक्त्वा राज्यम् प्रियम् अनुत्तमम्

  19. Verse 19

    कथम् इन्दीवर श्यामो रक्त अक्षः प्रिय दर्शनः । सुख भागी च दुह्ख अर्हः शयितो भुवि राघवः

  20. Verse 20

    धन्यः खलु महाभागो लक्ष्मणः शुभलक्षमणः । भ्रातरम् विषमे काले यो राममनुवर्तते

  21. Verse 21

    सिद्ध अर्था खलु वैदेही पतिम् या अनुगता वनम् । वयम् सम्शयिताः सर्वे हीनाः तेन महात्मना

  22. Verse 22

    अकर्ण धारा पृथिवी शून्या इव प्रतिभाति मा । गते दशरथे स्वर्गे रामे च अरण्यम् आश्रिते

  23. Verse 23

    न च प्रार्थयते कश्चिन् मनसा अपि वसुम्धराम् । वने अपि वसतः तस्य बाहु वीर्य अभिरक्षिताम्

  24. Verse 24

    शून्य सम्वरणा रक्षाम् अयन्त्रित हय द्विपाम् । अपावृत पुर द्वाराम् राज धानीम् अरक्षिताम्

  25. Verse 25

    अप्रहृष्ट बलाम् न्यूनाम् विषमस्थाम् अनावृताम् । शत्रवो न अभिमन्यन्ते भक्ष्यान् विष कृतान् इव

  26. Verse 26

    अद्य प्रभृति भूमौ तु शयिष्ये अहम् तृणेषु वा । फल मूल अशनो नित्यम् जटा चीराणि धारयन्

  27. Verse 27

    तस्य अर्थम् उत्तरम् कालम् निवत्स्यामि सुखम् वने । तम् प्रतिश्रवम् आमुच्य न अस्य मिथ्या भविष्यति

  28. Verse 28

    वसन्तम् भ्रातुर् अर्थाय शत्रुघ्नो मा अनुवत्स्यति । लक्ष्मणेन सह तु आर्यो अयोध्याम् पालयिष्यति

  29. Verse 29

    अभिषेक्ष्यन्ति काकुत्स्थम् अयोध्यायाम् द्विजातयः । अपि मे देवताः कुर्युर् इमम् सत्यम् मनो रथम् । प्रसाद्यमानः शिरसा मया स्वयम् । बहु प्रकारम् यदि न प्रपत्स्यते

  30. Verse 30

    ततोन्रुवत्सयामि चिराय राघवम् । वनेचरम् नह्रुति माम्रुपेक्षित्रुम्