Lipi
Sign in
Classic reading room ↗

Sarga 85

Ayodhya Kanda

22 verses · free forever

Listen to this section

Uses your saved HI voice · Narration settings

  1. Verse 1

    '''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चाशीतितमः सर्गः ॥२-८५॥''' एवम् उक्तः तु भरतः निषाद अधिपतिम् गुहम् । प्रत्युवाच महा प्राज्ञो वाक्यम् हेतु अर्थ सम्हितम्

  2. Verse 2

    ऊर्जितः खलु ते कामः कृतः मम गुरोह् सखे । यो मे त्वम् ईदृशीम् सेनाम् एको अभ्यर्चितुम् इच्चसि

  3. Verse 3

    इति उक्त्वा तु महा तेजा गुहम् वचनम् उत्तमम् । अब्रवीद् भरतः श्रीमान् निषाद अधिपतिम् पुनः

  4. Verse 4

    कतरेण गमिष्यामि भरद्वाज आश्रमम् गुह । गहनो अयम् भृशम् देशो गन्गा अनूपो दुरत्ययः

  5. Verse 5

    तस्य तत् वचनम् श्रुत्वा राज पुत्रस्य धीमतः । अब्रवीत् प्रान्जलिर् वाक्यम् गुहो गहन गोचरः

  6. Verse 6

    दाशाः तु अनुगमिष्यन्ति धन्विनः सुसमाहिताः । अहम् च अनुगमिष्यामि राज पुत्र महा यशः

  7. Verse 7

    कच्चिन् न दुष्टः व्रजसि रामस्य अक्लिष्ट कर्मणः । इयम् ते महती सेना शन्काम् जनयति इव मे

  8. Verse 8

    तम् एवम् अभिभाषन्तम् आकाशैव निर्मलः । भरतः श्लक्ष्णया वाचा गुहम् वचनम् अब्रवीत्

  9. Verse 9

    मा भूत् स कालो यत् कष्टम् न माम् शन्कितुम् अर्हसि । राघवः स हि मे भ्राता ज्येष्ठः पितृ समः मम

  10. Verse 10

    तम् निवर्तयितुम् यामि काकुत्स्थम् वन वासिनम् । बुद्धिर् अन्या न ते कार्या गुह सत्यम् ब्रवीमि ते

  11. Verse 11

    स तु सम्हृष्ट वदनः श्रुत्वा भरत भाषितम् । पुनर् एव अब्रवीद् वाक्यम् भरतम् प्रति हर्षितः

  12. Verse 12

    धन्यः त्वम् न त्वया तुल्यम् पश्यामि जगती तले । अयत्नात् आगतम् राज्यम् यः त्वम् त्यक्तुम् इह इच्चसि

  13. Verse 13

    शाश्वती खलु ते कीर्तिर् लोकान् अनुचरिष्यति । यः त्वम् कृच्च्र गतम् रामम् प्रत्यानयितुम् इच्चसि

  14. Verse 14

    एवम् सम्भाषमाणस्य गुहस्य भरतम् तदा । बभौ नष्ट प्रभः सूर्यो रजनी च अभ्यवर्तत

  15. Verse 15

    सम्निवेश्य स ताम् सेनाम् गुहेन परितोषितः । शत्रुघ्नेन सह श्रीमान् शयनम् पुनर् आगमत्

  16. Verse 16

    राम चिन्तामयः शोको भरतस्य महात्मनः । उपस्थितः हि अनर्हस्य धर्म प्रेक्षस्य तादृशः

  17. Verse 17

    अन्तर् दाहेन दहनः सम्तापयति राघवम् । वन दाह अभिसम्तप्तम् गूढो अग्निर् इव पादपम्

  18. Verse 18

    प्रस्रुतः सर्व गात्रेभ्यः स्वेदः शोक अग्नि सम्भवः । यथा सूर्य अम्शु सम्तप्तः हिमवान् प्रस्रुतः हिमम्

  19. Verse 19

    ध्यान निर्दर शैलेन विनिह्श्वसित धातुना । दैन्य पादप सम्घेन शोक आयास अधिशृन्गिणा

  20. Verse 20

    प्रमोह अनन्त सत्त्वेन सम्ताप ओषधि वेणुना । आक्रान्तः दुह्ख शैलेन महता कैकयी सुतः

  21. Verse 21

    विनिश्श्वसन्वै भृशदुर्मनास्ततः । प्रमूढसम्ज्ञः परमापदम् गतः । शमम् न लेभे हृदयज्वरार्दितो । नरर्षभो यूथहतो यथर्षभः

  22. Verse 22

    गुहेन सार्धम् भरतः समागतः । महा अनुभावः सजनः समाहितः । सुदुर्मनाः तम् भरतम् तदा पुनर् । गुहः समाश्वासयद् अग्रजम् प्रति