Sarga 83
Ayodhya Kanda
26 verses · free forever
Uses your saved HI voice · Narration settings
Verse 1
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्र्यशीतितमः सर्गः ॥२-८३॥''' ततः समुत्थितः काल्यम् आस्थाय स्यन्दन उत्तमम् । प्रययौ भरतः शीघ्रम् राम दर्शन कान्क्षया
Verse 2
अग्रतः प्रययुस् तस्य सर्वे मन्त्रि पुरोधसः । अधिरुह्य हयैः युक्तान् रथान् सूर्य रथ उपमान्
Verse 3
नव नाग सहस्राणि कल्पितानि यथा विधि । अन्वयुर् भरतम् यान्तम् इक्ष्वाकु कुल नन्दनम्
Verse 4
षष्ठी रथ सहस्राणि धन्विनो विविध आयुधाः । अन्वयुर् भरतम् यान्तम् राज पुत्रम् यशस्विनम्
Verse 5
शतम् सहस्राणि अश्वानाम् समारूढानि राघवम् । अन्वयुर् भरतम् यान्तम् राज पुत्रम् यशस्विनम्
Verse 6
कैकेयी च सुमित्रा च कौसल्या च यशस्विनी । राम आनयन सम्हृष्टा ययुर् यानेन भास्वता
Verse 7
प्रयाताः च आर्य सम्घाता रामम् द्रष्टुम् सलक्ष्मणम् । तस्य एव च कथाः चित्राः कुर्वाणा हृष्ट मानसाः
Verse 8
मेघ श्यामम् महा बाहुम् स्थिर सत्त्वम् दृढ व्रतम् । कदा द्रक्ष्यामहे रामम् जगतः शोक नाशनम्
Verse 9
दृष्टएव हि नः शोकम् अपनेष्यति राघवः । तमः सर्वस्य लोकस्य समुद्यन्न् इव भास्करः
Verse 10
इति एवम् कथयन्तः ते सम्प्रहृष्टाः कथाः शुभाः । परिष्वजानाः च अन्योन्यम् ययुर् नागरिकाः तदा
Verse 11
ये च तत्र अपरे सर्वे सम्मता ये च नैगमाः । रामम् प्रति ययुर् हृष्टाः सर्वाः प्रकृतयः तदा
Verse 12
मणि काराः च ये केचित् कुम्भ काराः च शोभनाः । सूत्र कर्म कृतः चैव ये च शस्त्र उपजीविनः
Verse 13
मायूरकाः क्राकचिका रोचका वेधकाः तथा । दन्त काराः सुधा काराः तथा गन्ध उपजीविनः
Verse 14
सुवर्ण काराः प्रख्याताः तथा कम्बल धावकाः । स्नापक आच्चादका वैद्या धूपकाः शौण्डिकाः तथा
Verse 15
रजकाः तुन्न वायाः च ग्राम घोष महत्तराः । शैलूषाः च सह स्त्रीभिर् यान्ति कैवर्तकाः तथा
Verse 16
समाहिता वेदविदो ब्राह्मणा वृत्त सम्मताः । गो रथैः भरतम् यान्तम् अनुजग्मुः सहस्रशः
Verse 17
सुवेषाः शुद्ध वसनाः ताम्र मृष्ट अनुलेपनाः । सर्वे ते विविधैः यानैः शनैः भरतम् अन्वयुः
Verse 18
प्रहृष्ट मुदिता सेना सान्वयात् कैकयी सुतम् । भ्रातुरानयने यान्तम् भरतम् भ्रातृवत्सलम्
Verse 19
ते गत्वा दूरमध्वानम् रथम् यानाश्वकुञ्जरैः । समासेदुस्ततो गङ्गाम् शृङ्गिबेरपुरम् प्रति
Verse 20
यत्र रामसखो वीरो गुहो ज्ञातिगणैर्वृतः । निवसत्यप्रमादेन देशम् तम् परिपालयन्
Verse 21
उपेत्य तीरम् गङ्गायाश्चक्रमाकैरलङ्कतम् । व्यवतिष्ठत सा सेना भरतस्य अनुयायिनी
Verse 22
निरीक्ष्य अनुगताम् सेनाम् ताम् च गन्गाम् शिव उदकाम् । भरतः सचिवान् सर्वान् अब्रवीद् वाक्य कोविदः
Verse 23
निवेशयत मे सैन्यम् अभिप्रायेण सर्वशः । विश्रान्तः प्रतरिष्यामः श्वैदानीम् महा नदीम्
Verse 24
दातुम् च तावद् इच्चामि स्वर् गतस्य मही पतेः । और्ध्वदेह निमित्त अर्थम् अवतीर्य उदकम् नदीम्
Verse 25
तस्य एवम् ब्रुवतः अमात्याः तथा इति उक्त्वा समाहिताः । न्यवेशयम्स् तामः चन्देन स्वेन स्वेन पृथक् पृथक्
Verse 26
निवेश्य गन्गाम् अनु ताम् महा नदीम् । चमूम् विधानैः परिबर्ह शोभिनीम् । उवास रामस्य तदा महात्मनो । विचिन्तयानो भरतः निवर्तनम्