Lipi
Sign in
Classic reading room ↗

Sarga 82

Ayodhya Kanda

32 verses · free forever

Listen to this section

Uses your saved HI voice · Narration settings

  1. Verse 1

    '''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्व्यशीतितमः सर्गः ॥२-८२॥''' ताम् आर्य गण सम्पूर्णाम् भरतः प्रग्रहाम् सभाम् । ददर्श बुद्धि सम्पन्नः पूर्ण चन्द्राम् निशाम् इव

  2. Verse 2

    आसनानि यथा न्यायम् आर्याणाम् विशताम् तदा । अदृश्यत घन अपाये पूर्ण चन्द्रा इव शर्वरी

  3. Verse 3

    सा विद्वज्जनसम्पूर्णा सभा सुरुचिरा तदा । अदृश्यत घनापाये पूर्णचन्द्रेव शर्वरी

  4. Verse 4

    राज्ञः तु प्रकृतीः सर्वाः समग्राः प्रेक्ष्य धर्मवित् । इदम् पुरोहितः वाक्यम् भरतम् मृदु च अब्रवीत्

  5. Verse 5

    तात राजा दशरथः स्वर् गतः धर्मम् आचरन् । धन धान्यवतीम् स्फीताम् प्रदाय पृथिवीम् तव

  6. Verse 6

    रामः तथा सत्य धृतिः सताम् धर्मम् अनुस्मरन् । न अजहात् पितुर् आदेशम् शशी ज्योत्स्नाम् इव उदितः

  7. Verse 7

    पित्रा भ्रात्रा च ते दत्तम् राज्यम् निहत कण्टकम् । तत् भुन्क्ष्व मुदित अमात्यः क्षिप्रम् एव अभिषेचय

  8. Verse 8

    उदीच्याः च प्रतीच्याः च दाक्षिणात्याः च केवलाः । कोट्या अपर अन्ताः सामुद्रा रत्नानि अभिहरन्तु ते

  9. Verse 9

    तत् श्रुत्वा भरतः वाक्यम् शोकेन अभिपरिप्लुतः । जगाम मनसा रामम् धर्मज्ञो धर्म कान्क्षया

  10. Verse 10

    स बाष्प कलया वाचा कल हम्स स्वरः युवा । विललाप सभा मध्ये जगर्हे च पुरोहितम्

  11. Verse 11

    चरित ब्रह्मचर्यस्य विद्या स्नातस्य धीमतः । धर्मे प्रयतमानस्य को राज्यम् मद्विधो हरेत्

  12. Verse 12

    कथम् दशरथाज् जातः भवेद् राज्य अपहारकः । राज्यम् च अहम् च रामस्य धर्मम् वक्तुम् इह अर्हसि

  13. Verse 13

    ज्येष्ठः श्रेष्ठः च धर्म आत्मा दिलीप नहुष उपमः । लब्धुम् अर्हति काकुत्स्थो राज्यम् दशरथो यथा

  14. Verse 14

    अनार्य जुष्टम् अस्वर्ग्यम् कुर्याम् पापम् अहम् यदि । इक्ष्वाकूणाम् अहम् लोके भवेयम् कुल पाम्सनः

  15. Verse 15

    यद्द् हि मात्रा कृतम् पापम् न अहम् तत् अभिरोचये । इहस्थो वन दुर्गस्थम् नमस्यामि कृत अन्जलिः

  16. Verse 16

    रामम् एव अनुगच्चामि स राजा द्विपदाम् वरः । त्रयाणाम् अपि लोकानाम् राघवो राज्यम् अर्हति

  17. Verse 17

    तत् वाक्यम् धर्म सम्युक्तम् श्रुत्वा सर्वे सभासदः । हर्षान् मुमुचुर् अश्रूणि रामे निहित चेतसः

  18. Verse 18

    यदि तु आर्यम् न शक्ष्यामि विनिवर्तयितुम् वनात् । वने तत्र एव वत्स्यामि यथा आर्यो लक्ष्मणः तथा

  19. Verse 19

    सर्व उपायम् तु वर्तिष्ये विनिवर्तयितुम् बलात् । समक्षम् आर्य मिश्राणाम् साधूनाम् गुण वर्तिनाम्

  20. Verse 20

    विष्टिकर्मान्तिकाः सर्वे मार्गशोधनरक्षकाः । प्रस्थापिता मया पूर्वम् यात्रापि मम रोचते

  21. Verse 21

    एवम् उक्त्वा तु धर्म आत्मा भरतः भ्रातृ वत्सलः । समीपस्थम् उवाच इदम् सुमन्त्रम् मन्त्र कोविदम्

  22. Verse 22

    तूर्णम् उत्थाय गच्च त्वम् सुमन्त्र मम शासनात् । यात्राम् आज्ञापय क्षिप्रम् बलम् चैव समानय

  23. Verse 23

    एवम् उक्तः सुमन्त्रः तु भरतेन महात्मना । हृष्टः सो अदिशत् सर्वम् यथा सम्दिष्टम् इष्टवत्

  24. Verse 24

    ताः प्रहृष्टाः प्रकृतयो बल अध्यक्षा बलस्य च । श्रुत्वा यात्राम् समाज्ञप्ताम् राघवस्य निवर्तने

  25. Verse 25

    ततः योध अन्गनाः सर्वा भर्तृऋन् सर्वान् गृहे गृहे । यात्रा गमनम् आज्ञाय त्वरयन्ति स्म हर्षिताः

  26. Verse 26

    ते हयैः गो रथैः शीघ्रैः स्यन्दनैः च मनो जवैः । सह योधैः बल अध्यक्षा बलम् सर्वम् अचोदयन्

  27. Verse 27

    सज्जम् तु तत् बलम् दृष्ट्वा भरतः गुरु सम्निधौ । रथम् मे त्वरयस्व इति सुमन्त्रम् पार्श्वतः अब्रवीत्

  28. Verse 28

    भरतस्य तु तस्य आज्ञाम् प्रतिगृह्य प्रहर्षितः । रथम् गृहीत्वा प्रययौ युक्तम् परम वाजिभिः

  29. Verse 29

    स राघवः सत्य धृतिः प्रतापवान् । ब्रुवन् सुयुक्तम् दृढ सत्य विक्रमः । गुरुम् महा अरण्य गतम् यशस्विनम् । प्रसादयिष्यन् भरतः अब्रवीत् तदा

  30. Verse 30

    तूण समुत्थाय सुमन्त्र गच्च । बलस्य योगाय बल प्रधानान् । आनेतुम् इच्चामि हि तम् वनस्थम् । प्रसाद्य रामम् जगतः हिताय

  31. Verse 31

    स सूत पुत्रः भरतेन सम्यग् । आज्ञापितः सम्परिपूर्ण कामः । शशास सर्वान् प्रकृति प्रधानान् । बलस्य मुख्यामः च सुहृज् जनम् च

  32. Verse 32

    ततः समुत्थाय कुले कुले ते । राजन्य वैश्या वृषलाः च विप्राः । अयूयुजन्न् उष्ट्र रथान् खरामः च। नागान् हयामः चैव कुल प्रसूतान्