Lipi
Sign in
Classic reading room ↗

Sarga 81

Ayodhya Kanda

16 verses · free forever

Listen to this section

Uses your saved HI voice · Narration settings

  1. Verse 1

    '''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकाशीतितमः सर्गः ॥२-८१॥''' ततः नान्दी मुखीम् रात्रिम् भरतम् सूत मागधाः । तुष्टुवुर् वाग् विशेषज्ञाः स्तवैः मन्गल सम्हितैः

  2. Verse 2

    सुवर्ण कोण अभिहतः प्राणदद् याम दुन्दुभिः । दध्मुः शन्खामः च शतशो वाद्यामः च उच्च अवच स्वरान्

  3. Verse 3

    स तूर्य घोषः सुमहान् दिवम् आपूरयन्न् इव । भरतम् शोक सम्तप्तम् भूयः शोकैः अरन्ध्रयत्

  4. Verse 4

    ततः प्रबुद्धो भरतः तम् घोषम् सम्निवर्त्य च । न अहम् राजा इति च अपि उक्त्वा शत्रुघ्नम् इदम् अब्रवीत्

  5. Verse 5

    पश्य शत्रुघ्न कैकेय्या लोकस्य अपकृतम् महत् । विसृज्य मयि दुह्खानि राजा दशरथो गतः

  6. Verse 6

    तस्य एषा धर्म राजस्य धर्म मूला महात्मनः । परिभ्रमति राज श्रीर् नौर् इव अकर्णिका जले

  7. Verse 7

    यो हि नः सुमहान्नाथः सोऽपि प्रव्राजितो वनम् । अनया धर्ममुत्सृज्य मात्रा मे राघवः स्वयम्

  8. Verse 8

    इति एवम् भरतम् प्रेक्ष्य विलपन्तम् विचेतनम् । कृपणम् रुरुदुः सर्वाः सस्वरम् योषितः तदा

  9. Verse 9

    तथा तस्मिन् विलपति वसिष्ठो राज धर्मवित् । सभाम् इक्ष्वाकु नाथस्य प्रविवेश महा यशाः

  10. Verse 10

    शात कुम्भमयीम् रम्याम् मणि रत्न समाकुलाम् । सुधर्माम् इव धर्म आत्मा सगणः प्रत्यपद्यत

  11. Verse 11

    स कान्चनमयम् पीठम् पर अर्ध्य आस्तरण आवृतम् । अध्यास्त सर्व वेदज्ञो दूतान् अनुशशास च

  12. Verse 12

    ब्राह्मणान् क्षत्रियान् योधान् अमात्यान् गण बल्लभान् । क्षिप्रम् आनयत अव्यग्राः कृत्यम् आत्ययिकम् हि नः

  13. Verse 13

    सराजभृत्यम् शत्रुघ्नम् भरतम् च यश्स्विनम् । युधाजितम् सुमन्त्रम् च ये च तत्र हिता जनाः

  14. Verse 14

    ततः हलहला शब्दो महान् समुदपद्यत । रथैः अश्वैः गजैः च अपि जनानाम् उपगच्चताम्

  15. Verse 15

    ततः भरतम् आयान्तम् शत क्रतुम् इव अमराः । प्रत्यनन्दन् प्रकृतयो यथा दशरथम् तथा

  16. Verse 16

    ह्रदैव तिमि नाग सम्वृतः । स्तिमित जलो मणि शन्ख शर्करः । दशरथ सुत शोभिता सभा । सदशरथा इव बभौ यथा पुरा