Lipi
Sign in
Classic reading room ↗

Sarga 77

Ayodhya Kanda

26 verses · free forever

Listen to this section

Uses your saved HI voice · Narration settings

  1. Verse 1

    '''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्तसप्ततितमः सर्गः ॥२-७७॥''' ततः दश अहे अतिगते कृत शौचो नृप आत्मजः । द्वादशे अहनि सम्प्राप्ते श्राद्ध कर्माणि अकारयत्

  2. Verse 2

    ब्राह्मणेभ्यो ददौ रत्नम् धनम् अन्नम् च पुष्कलम् । वासाम्सि च महार्हाणि रत्नानि विविधानि च

  3. Verse 3

    बास्तिकम् बहु शुक्लम् च गाः च अपि शतशः तथा । दासी दासम् च यानम् च वेश्मानि सुमहान्ति च

  4. Verse 4

    ब्राह्मणेभ्यो ददौ पुत्रः राज्ञः तस्य और्ध्वदैहिकम् । ततः प्रभात समये दिवसे अथ त्रयोदशे

  5. Verse 5

    विललाप महा बाहुर् भरतः शोक मूर्चितः । शब्द अपिहित कण्ठः च शोधन अर्थम् उपागतः

  6. Verse 6

    चिता मूले पितुर् वाक्यम् इदम् आह सुदुह्खितः । तात यस्मिन् निषृष्टः अहम् त्वया भ्रातरि राघवे

  7. Verse 7

    तस्मिन् वनम् प्रव्रजिते शून्ये त्यक्तः अस्म्य् अहम् त्वया । यथा गतिर् अनाथायाः पुत्रः प्रव्राजितः वनम्

  8. Verse 8

    ताम् अम्बाम् तात कौसल्याम् त्यक्त्वा त्वम् क्व गतः नृप । दृष्ट्वा भस्म अरुणम् तच् च दग्ध अस्थि स्थान मण्डलम्

  9. Verse 9

    पितुः शरीर निर्वाणम् निष्टनन् विषसाद ह । स तु दृष्ट्वा रुदन् दीनः पपात धरणी तले

  10. Verse 10

    उत्थाप्यमानः शक्रस्य यन्त्र ध्वजैव च्युतः । अभिपेतुस् ततः सर्वे तस्य अमात्याः शुचि व्रतम्

  11. Verse 11

    अन्त काले निपतितम् ययातिम् ऋषयो यथा । शत्रुघ्नः च अपि भरतम् दृष्ट्वा शोक परिप्लुतम्

  12. Verse 12

    विसम्ज्ञो न्यपतत् भूमौ भूमि पालम् अनुस्मरन् । उन्मत्तैव निश्चेता विललाप सुदुह्खितः

  13. Verse 13

    स्मृत्वा पितुर् गुण अन्गानि तनि तानि तदा तदा । मन्थरा प्रभवः तीव्रः कैकेयी ग्राह सम्कुलः

  14. Verse 14

    वर दानमयो अक्षोभ्यो अमज्जयत् शोक सागरः । सुकुमारम् च बालम् च सततम् लालितम् त्वया

  15. Verse 15

    क्व तात भरतम् हित्वा विलपन्तम् गतः भवान् । ननु भोज्येषु पानेषु वस्त्रेष्व् आभरणेषु च

  16. Verse 16

    प्रवारयसि नः सर्वाम्स् तन् नः को अद्य करिष्यति । अवदारण काले तु पृथिवी न अवदीर्यते

  17. Verse 17

    विहीना या त्वया राज्ञा धर्मज्ञेन महात्मना । पितरि स्वर्गम् आपन्ने रामे च अरण्यम् आश्रिते

  18. Verse 18

    किम् मे जीवित सामर्थ्यम् प्रवेक्ष्यामि हुत अशनम् । हीनो भ्रात्रा च पित्रा च शून्याम् इक्ष्वाकु पालिताम्

  19. Verse 19

    अयोध्याम् न प्रवेक्ष्यामि प्रवेक्ष्यामि तपो वनम् । तयोः विलपितम् श्रुत्वा व्यसनम् च अन्ववेक्ष्य तत्

  20. Verse 20

    भृशम् आर्ततरा भूयः सर्वएव अनुगामिनः । ततः विषण्णौ श्रान्तौ च शत्रुघ्न भरताव् उभौ

  21. Verse 21

    धरण्याम् सम्व्यचेष्टेताम् भग्न शृन्गाव् इव ऋषभौ । ततः प्रकृतिमान् वैद्यः पितुर् एषाम् पुरोहितः

  22. Verse 22

    वसिष्ठो भरतम् वाक्यम् उत्थाप्य तम् उवाच ह । त्रयोदशोऽयम् दिवसः पितुर्वृत्तस्य ते विभो

  23. Verse 23

    सावशेषास्थिनिचये किमिह त्वम् विलम्बसे । त्रीणि द्वन्द्वानि भूतेषु प्रवृत्तानि अविशेषतः

  24. Verse 24

    तेषु च अपरिहार्येषु न एवम् भवितुम् अर्हति । सुमन्त्रः च अपि शत्रुघ्नम् उत्थाप्य अभिप्रसाद्य च

  25. Verse 25

    श्रावयाम् आस तत्त्वज्ञः सर्व भूत भव अभवौ । उत्थितौ तौ नर व्याघ्रौ प्रकाशेते यशस्विनौ

  26. Verse 26

    वर्ष आतप परिक्लिन्नौ पृथग् इन्द्र ध्वजाव् इव । अश्रूणि परिमृद्नन्तौ रक्त अक्षौ दीन भाषिणौ