Lipi
Sign in
Classic reading room ↗

Sarga 76

Ayodhya Kanda

23 verses · free forever

Listen to this section

Uses your saved HI voice · Narration settings

  1. Verse 1

    '''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षट्सप्ततितमः सर्गः ॥२-७६॥''' तम् एवम् शोक सम्तप्तम् भरतम् केकयी सुतम् । उवाच वदताम् श्रेष्ठो वसिष्ठः श्रेष्ठ वाग् ऋषिः

  2. Verse 2

    अलम् शोकेन भद्रम् ते राज पुत्र महा यशः । प्राप्त कालम् नर पतेः कुरु सम्यानम् उत्तरम्

  3. Verse 3

    वसिष्ठस्य वचः श्रुत्वा भरतः धारणाम् गतः । प्रेत कार्याणि सर्वाणि कारयाम् आस धर्मवित्

  4. Verse 4

    उद्धृतम् तैल सम्क्लेदात् स तु भूमौ निवेशितम् । आपीत वर्ण वदनम् प्रसुप्तम् इव भूमिपम्

  5. Verse 5

    सम्वेश्य शयने च अग्र्ये नाना रत्न परिष्कृते । ततः दशरथम् पुत्रः विललाप सुदुह्खितः

  6. Verse 6

    किम् ते व्यवसितम् राजन् प्रोषिते मय्य् अनागते । विवास्य रामम् धर्मज्ञम् लक्ष्मणम् च महा बलम्

  7. Verse 7

    क्व यास्यसि महा राज हित्वा इमम् दुह्खितम् जनम् । हीनम् पुरुष सिम्हेन रामेण अक्लिष्ट कर्मणा

  8. Verse 8

    योग क्षेमम् तु ते राजन् को अस्मिन् कल्पयिता पुरे । त्वयि प्रयाते स्वः तात रामे च वनम् आश्रिते

  9. Verse 9

    विधवा पृथिवी राजम्स् त्वया हीना न राजते । हीन चन्द्रा इव रजनी नगरी प्रतिभाति माम्

  10. Verse 10

    एवम् विलपमानम् तम् भरतम् दीन मानसम् । अब्रवीद् वचनम् भूयो वसिष्ठः तु महान् ऋषिः

  11. Verse 11

    प्रेत कार्याणि यानि अस्य कर्तव्यानि विशाम्पतेः । तानि अव्यग्रम् महा बाहो क्रियताम् अविचारितम्

  12. Verse 12

    तथा इति भरतः वाक्यम् वसिष्ठस्य अभिपूज्य तत् । ऋत्विक् पुरोहित आचार्याम्स् त्वरयाम् आस सर्वशः

  13. Verse 13

    ये तु अग्रतः नर इन्द्रस्याग्नि अगारात् बहिष् कृताः । ऋत्विग्भिर् याजकैः चैव ते ह्रियन्ते यथा विधि

  14. Verse 14

    शिबिलायाम् अथ आरोप्य राजानम् गत चेतनम् । बाष्प कण्ठा विमनसः तम् ऊहुः परिचारकाः

  15. Verse 15

    हिरण्यम् च सुवर्णम् च वासाम्सि विविधानि च । प्रकिरन्तः जना मार्गम् नृपतेर् अग्रतः ययुः

  16. Verse 16

    चन्दन अगुरु निर्यासान् सरलम् पद्मकम् तथा । देव दारूणि च आहृत्य चिताम् चक्रुस् तथा अपरे

  17. Verse 17

    गन्धान् उच्च अवचामः च अन्याम्स् तत्र दत्त्वा अथ भूमिपम् । ततः सम्वेशयाम् आसुः चिता मध्ये तम् ऋत्विजः

  18. Verse 18

    तथा हुत अशनम् हुत्वा जेपुस् तस्य तदा ऋत्विजः । जगुः च ते यथा शास्त्रम् तत्र सामानि सामगाः

  19. Verse 19

    शिबिकाभिः च यानैः च यथा अर्हम् तस्य योषितः । नगरान् निर्ययुस् तत्र वृद्धैः परिवृताः तदा

  20. Verse 20

    प्रसव्यम् च अपि तम् चक्रुर् ऋत्विजो अग्नि चितम् नृपम् । स्त्रियः च शोक सम्तप्ताः कौसल्या प्रमुखाः तदा

  21. Verse 21

    क्रौन्चीनाम् इव नारीणाम् निनादः तत्र शुश्रुवे । आर्तानाम् करुणम् काले क्रोशन्तीनाम् सहस्रशः

  22. Verse 22

    ततः रुदन्त्यो विवशा विलप्य च पुनः पुनः । यानेभ्यः सरयू तीरम् अवतेरुर् वर अन्गनाः

  23. Verse 23

    कृत उदकम् ते भरतेन सार्धम् । नृप अन्गना मन्त्रि पुरोहिताः च । पुरम् प्रविश्य अश्रु परीत नेत्रा । भूमौ दश अहम् व्यनयन्त दुह्खम्