Sarga 73
Ayodhya Kanda
28 verses · free forever
Uses your saved HI voice · Narration settings
Verse 1
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्रिसप्ततितमः सर्गः ॥२-७३॥''' श्रुत्वा तु पितरम् वृत्तम् भ्रातरु च विवासितौ । भरतः दुह्ख सम्तप्तैदम् वचनम् अब्रवीत्
Verse 2
किम् नुण्कार्यम् हतस्य इह मम राज्येन शोचतः । विहीनस्य अथ पित्रा च भ्रात्रा पितृ समेन च
Verse 3
दुह्खे मे दुह्खम् अकरोर् व्रणे क्षारम् इव आदधाः । राजानम् प्रेत भावस्थम् कृत्वा रामम् च तापसम्
Verse 4
कुलस्य त्वम् अभावाय काल रात्रिर् इव आगता । अन्गारम् उपगूह्य स्म पिता मे न अवबुद्धवान्
Verse 5
मृत्युमापादितो राजा त्वया मे पापदर्शिनि । सुखम् परिहृतम् मोहात्कुलेऽस्मिन् कुलपाम्सनि
Verse 6
त्वाम् प्राप्य हि पिता मे.द्य सत्यसन्धो महायशाः । तीव्रदुःखाभिसम्तप्तो वृत्तो दशरथो नृपः
Verse 7
विनाशितो महाराजः पिता मे धर्मवत्सलः । कस्मात्प्रव्राजितो रामः कस्मादेव वनम् गतः
Verse 8
कौसल्या च सुमित्रा च पुत्र शोक अभिपीडिते । दुष्करम् यदि जीवेताम् प्राप्य त्वाम् जननीम् मम
Verse 9
ननु तु आर्यो अपि धर्म आत्मा त्वयि वृत्तिम् अनुत्तमाम् । वर्तते गुरु वृत्तिज्ञो यथा मातरि वर्तते
Verse 10
तथा ज्येष्ठा हि मे माता कौसल्या दीर्घ दर्शिनी । त्वयि धर्मम् समास्थाय भगिन्याम् इव वर्तते
Verse 11
तस्याः पुत्रम् कृत आत्मानम् चीर वल्कल वाससम् । प्रस्थाप्य वन वासाय कथम् पापे न शोचसि
Verse 12
अपाप दर्शिनम् शूरम् कृत आत्मानम् यशस्विनम् । प्रव्राज्य चीर वसनम् किम् नु पश्यसि कारणम्
Verse 13
लुब्धाया विदितः मन्ये न ते अहम् राघवम् प्रति । तथा हि अनर्थो राज्य अर्थम् त्वया नीतः महान् अयम्
Verse 14
अहम् हि पुरुष व्याघ्राव् अपश्यन् राम लक्ष्मणौ । केन शक्ति प्रभावेन राज्यम् रक्षितुम् उत्सहे
Verse 15
तम् हि नित्यम् महा राजो बलवन्तम् महा बलः । उअपाश्रितः अभूद् धर्म आत्मा मेरुर् मेरु वनम् यथा
Verse 16
सो अहम् कथम् इमम् भारम् महा धुर्य समुद्यतम् । दम्यो धुरम् इव आसाद्य सहेयम् केन च ओजसा
Verse 17
अथ वा मे भवेत् शक्तिर् योगैः बुद्धि बलेन वा । सकामाम् न करिष्यामि त्वाम् अहम् पुत्र गर्धिनीम्
Verse 18
न मे विकाङ्खा जायेत त्यक्तुम् त्वाम् पापनिश्चयाम् । यदि रामस्य नावेक्षा त्वयि स्यान्मातृवत्सदा
Verse 19
उत्पन्ना तु कथम् बुद्धिस्तवेयम् पापदर्शिनि । साधुचारित्रविभ्राष्टे पूर्वेषाम् नो विगर्हिता
Verse 20
अस्मिन् कुले हि सर्वेषाम् ज्येष्ठो राज्येऽभिषिच्यते । अपरे भ्रातरस्तस्मिन् प्रवर्तन्ते समाहिताः
Verse 21
न हि मन्ये नृशसे त्वम् राजधर्ममवेक्षसे । गतिम् वा न विजानासि राजवृत्तस्य शाश्वतीम्
Verse 22
सततम् राजवृत्ते हि ज्येष्ठो राज्येऽभिषिच्यते । राज्ञामेतत्समम् तत्स्यादिक्ष्वाकूणाम् विशेषतः
Verse 23
तेषाम् धर्मैकरक्षाणाम् कुलचारित्रयोगिनाम् । अत्र चारित्रशौण्डीर्यम् त्वाम् प्राप्य विनिवर्ततम्
Verse 24
तवापि सुमहाभागा जनेन्द्राः कुलपूर्वगाः । बुद्धेर्मोहः कथमयम् सम्भूतस्त्वयि गर्हितः
Verse 25
न तु कामम् करिष्यामि तवाऽह्म् पापनिश्चये । त्वया व्यसनमारब्धम् जीवितान्तकरम् मम
Verse 26
एष त्विदानीमेवाहमप्रियार्थम् तवनघम् । निवर्तयिष्यामि वनात् भ्रातरम् स्वजन प्रियम्
Verse 27
निवर्तयित्वा रामम् च तस्याहम् दीप्ततेजनः । दासभूतो भविष्यामि सुस्थिरेणान्तरात्मना
Verse 28
इति एवम् उक्त्वा भरतः महात्मा । प्रिय इतरैः वाक्य गणैअः तुदम्स् ताम् । शोक आतुरः च अपि ननाद भूयः । सिम्हो यथा पर्वत गह्वरस्थः