Lipi
Sign in
Classic reading room ↗

Sarga 72

Ayodhya Kanda

54 verses · free forever

Listen to this section

Uses your saved HI voice · Narration settings

Narration reads the opening of this section. Longer passages are split to keep playback responsive.

  1. Verse 1

    '''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्विसप्ततितमः सर्गः ॥२-७२॥''' अपश्यम्स् तु ततः तत्र पितरम् पितुर् आलये । जगाम भरतः द्रष्टुम् मातरम् मातुर् आलये

  2. Verse 2

    अनुप्राप्तम् तु तम् दृष्ट्वा कैकेयी प्रोषितम् सुतम् । उत्पपात तदा हृष्टा त्यक्त्वा सौवर्ण मानसम्

  3. Verse 3

    स प्रविश्य एव धर्म आत्मा स्व गृहम् श्री विवर्जितम् । भरतः प्रेक्ष्य जग्राह जनन्याः चरणौ शुभौ

  4. Verse 4

    सा तम् मूर्ध्नि समुपाघ्राय परिष्वज्य यशस्विनम् । अङ्के भरतम् आरोप्य प्रष्टुम् समुपचक्रमे

  5. Verse 5

    अद्य ते कतिचित् रात्र्यः च्युतस्य आर्यक वेश्मनः । अपि न अध्व श्रमः शीघ्रम् रथेन आपततः तव

  6. Verse 6

    आर्यकः ते सुकुशलो युधा जिन् मातुलः तव । प्रवासाच् च सुखम् पुत्र सर्वम् मे वक्तुम् अर्हसि

  7. Verse 7

    एवम् पृष्ठः तु कैकेय्या प्रियम् पार्थिव नन्दनः । आचष्ट भरतः सर्वम् मात्रे राजीव लोचनः

  8. Verse 8

    अद्य मे सप्तमी रात्रिः च्युतस्य आर्यक वेश्मनः । अम्बायाः कुशली तातः युधाजिन् मातुलः च मे

  9. Verse 9

    यन् मे धनम् च रत्नम् च ददौ राजा परम् तपः । परिश्रान्तम् पथि अभवत् ततः अहम् पूर्वम् आगतः

  10. Verse 10

    राज वाल्य हरैः दूतैअः त्वर्यमाणो अहम् आगतः । यद् अहम् प्रष्टुम् इच्चामि तत् अम्बा वक्तुम् अर्हसि

  11. Verse 11

    शून्यो अयम् शयनीयः ते पर्यन्को हेम भूषितः । न च अयम् इक्ष्वाकु जनः प्रहृष्टः प्रतिभाति मे

  12. Verse 12

    राजा भवति भूयिष्ठ्गम् इह अम्बाया निवेशने । तम् अहम् न अद्य पश्यामि द्रष्टुम् इच्चन्न् इह आगतः

  13. Verse 13

    पितुर् ग्रहीष्ये चरणौ तम् मम आख्याहि पृच्चतः । आहोस्विद् अम्ब ज्येष्ठायाः कौसल्याया निवेशने

  14. Verse 14

    तम् प्रत्युवाच कैकेयी प्रियवद् घोरम् अप्रियम् । अजानन्तम् प्रजानन्ती राज्य लोभेन मोहिता

  15. Verse 15

    या गतिः सर्व भूतानाम् ताम् गतिम् ते पिता गतः । राजा महात्मा तेजस्वी यायजूकः सताम् गतिः

  16. Verse 16

    तत् श्रुत्वा भरतः वाक्यम् धर्म अभिजनवान् शुचिः । पपात सहसा भूमौ पितृ शोक बल अर्दितः

  17. Verse 17

    हा हातोऽस्मीति कृपणाम् दीनाम् वाचमुदीरयन् । निपपात महाबाहुर्बाहु विक्षिप्य वीर्यवान्

  18. Verse 18

    ततः शोकेन सम्वीतः पितुर् मरण दुह्खितः । विललाप महा तेजा भ्रान्त आकुलित चेतनः

  19. Verse 19

    एतत् सुरुचिरम् भाति पितुर् मे शयनम् पुरा । शशिनेवामलम् रात्रौ गगनम् तोयदात्यये

  20. Verse 20

    तत् इदम् न विभाति अद्य विहीनम् तेन धीमता । व्योमेव श्शिना हीनमप्भुष्क इव सागरः

  21. Verse 21

    बाष्पमुत्सृज्य कण्ठे स्वात्मना परिपीडितः । आच्चाद्य वदनम् श्रीमद्वस्त्रेण जयताम् वरः

  22. Verse 22

    तम् आर्तम् देव सम्काशम् समीक्ष्य पतितम् भुवि । निकृत्तमिव सालस्य स्कन्धम् परशुना वने

  23. Verse 23

    मत्तमातङ्गसम्काशम् चन्द्रार्कसदृशम् भुवः । उत्थापयित्वा शोक आर्तम् वचनम् च इदम् अब्रवीत्

  24. Verse 24

    उत्तिष्ठ उत्तिष्ठ किम् शेषे राज पुत्र महा यशः । त्वद् विधा न हि शोचन्ति सन्तः सदसि सम्मताः

  25. Verse 25

    दानयज्ञाधिकारा हि शीलश्रुतिवचोनुगा । बुद्धिस्ते बुद्धिसम्पन्न प्रभेवार्कस्य मन्दिरे

  26. Verse 26

    स रुदत्या चिरम् कालम् भूमौ विपरिवृत्य च । जननीम् प्रत्युवाच इदम् शोकैः बहुभिर् आवृतः

  27. Verse 27

    अभिषेक्ष्यति रामम् तु राजा यज्ञम् नु यक्ष्यति । इति अहम् कृत सम्कल्पो हृष्टः यात्राम् अयासिषम्

  28. Verse 28

    तत् इदम् हि अन्यथा भूतम् व्यवदीर्णम् मनो मम । पितरम् यो न पश्यामि नित्यम् प्रिय हिते रतम्

  29. Verse 29

    अम्ब केन अत्यगात् राजा व्याधिना मय्य् अनागते । धन्या राम आदयः सर्वे यैः पिता सम्स्कृतः स्वयम्

  30. Verse 30

    न नूनम् माम् महा राजः प्राप्तम् जानाति कीर्तिमान् । उपजिघ्रेद्द् हि माम् मूर्ध्नि तातः सम्नम्य सत्वरम्

  31. Verse 31

    क्व स पाणिः सुख स्पर्शः तातस्य अक्लिष्ट कर्मणः । येन माम् रजसा ध्वस्तम् अभीक्ष्णम् परिमार्जति

  32. Verse 32

    यो मे भ्राता पिता बन्धुर् यस्य दासो अस्मि धीमतः । तस्य माम् शीघ्रम् आख्याहि रामस्य अक्लिष्ट कर्मणः

  33. Verse 33

    पिता हि भवति ज्येष्ठो धर्मम् आर्यस्य जानतः । तस्य पादौ ग्रहीष्यामि स हि इदानीम् गतिर् मम

  34. Verse 34

    धर्मविद्धर्मनित्यश्च सत्यसन्धो दृढव्रतः । आर्ये किम् अब्रवीद् राजा पिता मे सत्य विक्रमः

  35. Verse 35

    पश्चिमम् साधु सम्देशम् इच्चामि श्रोतुम् आत्मनः । इति पृष्टा यथा तत्त्वम् कैकेयी वाक्यम् अब्रवीत्

  36. Verse 36

    राम इति राजा विलपन् हा सीते लक्ष्मण इति च । स महात्मा परम् लोकम् गतः गतिमताम् वरः

  37. Verse 37

    इमाम् तु पश्चिमाम् वाचम् व्याजहार पिता तव । काल धर्म परिक्षिप्तः पाशैः इव महा गजः

  38. Verse 38

    सिद्ध अर्थाः तु नरा रामम् आगतम् सीतया सह । लक्ष्मणम् च महा बाहुम् द्रक्ष्यन्ति पुनर् आगतम्

  39. Verse 39

    तत् श्रुत्वा विषसाद एव द्वितीया प्रिय शम्सनात् । विषण्ण वदनो भूत्वा भूयः पप्रच्च मातरम्

  40. Verse 40

    क्व च इदानीम् स धर्म आत्मा कौसल्य आनन्द वर्धनः । लक्ष्मणेन सह भ्रात्रा सीतया च समम् गतः

  41. Verse 41

    तथा पृष्टा यथा तत्त्वम् आख्यातुम् उपचक्रमे । माता अस्य युगपद् वाक्यम् विप्रियम् प्रिय शन्कया

  42. Verse 42

    स हि राज सुतः पुत्र चीर वासा महा वनम् । दण्डकान् सह वैदेह्या लक्ष्मण अनुचरः गतः

  43. Verse 43

    तत् श्रुत्वा भरतः त्रस्तः भ्रातुः चारित्र शन्कया । स्वस्य वम्शस्य माहात्म्यात् प्रष्टुम् समुपचक्रमे

  44. Verse 44

    कच्चिन् न ब्राह्मण वधम् हृतम् रामेण कस्यचित् । कच्चिन् न आढ्यो दरिद्रः वा तेन अपापो विहिम्सितः

  45. Verse 45

    कच्चिन् न पर दारान् वा राज पुत्रः अभिमन्यते । कस्मात् स दण्डक अरण्ये भ्रूणहा इव विवासितः

  46. Verse 46

    अथ अस्य चपला माता तत् स्व कर्म यथा तथम् । तेन एव स्त्री स्वभावेन व्याहर्तुम् उपचक्रमे

  47. Verse 47

    एवमुक्ता तु कैकेयी भरतेन महात्मना । उवाच वचनम् हृष्टा मूढा पण्डितमानिनी

  48. Verse 48

    न ब्राह्मण धनम् किम्चिद्द् हृतम् रामेण कस्यचित् । कश्चिन् न आढ्यो दरिद्रः वा तेन अपापो विहिम्सितः

  49. Verse 49

    न रामः पर दारामः च चक्षुर्भ्याम् अपि पश्यति । मया तु पुत्र श्रुत्वा एव रामस्य एव अभिषेचनम्

  50. Verse 50

    याचितः ते पिता राज्यम् रामस्य च विवासनम् । स स्व वृत्तिम् समास्थाय पिता ते तत् तथा अकरोत्

  51. Verse 51

    रामः च सह सौमित्रिः प्रेषितः सह सीतया । तम् अपश्यन् प्रियम् पुत्रम् मही पालो महा यशाः

  52. Verse 52

    पुत्र शोक परिद्यूनः पन्चत्वम् उपपेदिवान् । त्वया तु इदानीम् धर्मज्ञ राजत्वम् अवलम्ब्यताम्

  53. Verse 53

    त्वत् कृते हि मया सर्वम् इदम् एवम् विधम् कृतम् । मा शोकम् मा च सम्तापम् धैर्यमाश्रय पुत्रक

  54. Verse 54

    त्वदधीना हि नगरी राज्यम् चैतदनामयम् । तत् पुत्र शीघ्रम् विधिना विधिज्ञैः । वसिष्ठ मुख्यैः सहितः द्विज इन्द्रैः । सम्काल्य राजानम् अदीन सत्त्वम् । आत्मानम् उर्व्याम् अभिषेचयस्व