Sarga 71
Ayodhya Kanda
47 verses · free forever
Uses your saved HI voice · Narration settings
Narration reads the opening of this section. Longer passages are split to keep playback responsive.
Verse 1
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकसप्ततितमः सर्गः ॥२-७१॥''' स प्रान् मुखो राज गृहात् अभिनिर्याय वीर्यवान् । ततः सुदामाम् द्युतिमान् सम्तीर्वावेक्ष्य ताम् नदीम्
Verse 2
ह्लादिनीम् दूर पाराम् च प्रत्यक् स्रोतः तरन्गिणीम् । शतद्रूम् अतरत् श्रीमान् नदीम् इक्ष्वाकु नन्दनः
Verse 3
एल धाने नदीम् तीर्त्वा प्राप्य च अपर पर्पटान् । शिलाम् आकुर्वतीम् तीर्त्वाआग्नेयम् शल्य कर्तनम्
Verse 4
सत्य सम्धः शुचिः श्रीमान् प्रेक्षमाणः शिला वहाम् । अत्ययात् स महा शैलान् वनम् चैत्र रथम् प्रति
Verse 5
सरस्वतीम् च गङ्गाम् च उग्मेन प्रतिपद्य च । उत्तरम् वीरमत्स्यानाम् भारुण्डम् प्राविशद्वनम्
Verse 6
वेगिनीम् च कुलिन्ग आख्याम् ह्रादिनीम् पर्वत आवृताम् । यमुनाम् प्राप्य सम्तीर्णो बलम् आश्वासयत् तदा
Verse 7
शीतीकृत्य तु गात्राणि क्लान्तान् आश्वास्य वाजिनः । तत्र स्नात्वा च पीत्वा च प्रायात् आदाय च उदकम्
Verse 8
राज पुत्रः महा अरण्यम् अनभीक्ष्ण उपसेवितम् । भद्रः भद्रेण यानेन मारुतः खम् इव अत्ययात्
Verse 9
भागीरथीम् दुष्प्रतरामम्शुधाने महानदीम् । उपायाद्राघवस्तूर्णम् प्राग्वटे विश्रुते पुरे
Verse 10
स गङ्गाम् प्राग्वट्E तीर्त्वे समायात्कुटिकोष्ठिकाम् । सबलस्ताम् स तीर्त्वाथ समायाद्धर्मवर्धनम्
Verse 11
तोरणम् दक्षिण अर्धेन जम्बू प्रस्थम् उपागमत् । वरूथम् च ययौ रम्यम् ग्रामम् दशरथ आत्मजः
Verse 12
तत्र रम्ये वने वासम् कृत्वा असौ प्रान् मुखो ययौ । उद्यानम् उज्जिहानायाः प्रियका यत्र पादपाः
Verse 13
सालाम्स् तु प्रियकान् प्राप्य शीघ्रान् आस्थाय वाजिनः । अनुज्ञाप्य अथ भरतः वाहिनीम् त्वरितः ययौ
Verse 14
वासम् कृत्वा सर्व तीर्थे तीर्त्वा च उत्तानकाम् नदीम् । अन्या नदीः च विविधाः पार्वतीयैअः तुरम् गमैः
Verse 15
हस्ति पृष्ठकम् आसाद्य कुटिकाम् अत्यवर्तत । ततार च नर व्याघ्रः लौहित्ये स कपीवतीम्
Verse 16
एक साले स्थाणुमतीम् विनते गोमतीम् नदीम् । कलिन्ग नगरे च अपि प्राप्य साल वनम् तदा
Verse 17
भरतः क्षिप्रम् आगच्चत् सुपरिश्रान्त वाहनः । वनम् च समतीत्य आशु शर्वर्याम् अरुण उदये
Verse 18
अयोध्याम् मनुना राज्ञा निर्मिताम् स ददर्श ह । ताम् पुरीम् पुरुष व्याघ्रः सप्त रात्र उषिटः पथि
Verse 19
अयोध्याम् अग्रतः दृष्ट्वा रथे सारथिम् अब्रवीत् । एषा न अतिप्रतीता मे पुण्य उद्याना यशस्विनी
Verse 20
अयोध्या दृश्यते दूरात् सारथे पाण्डु मृत्तिका । यज्वभिर् गुण सम्पन्नैः ब्राह्मणैः वेद पारगैः
Verse 21
भूयिष्ठम् ऋषैः आकीर्णा राज ऋषि वर पालिता । अयोध्यायाम् पुरा शब्दः श्रूयते तुमुलो महान्
Verse 22
समन्तान् नर नारीणाम् तम् अद्य न शृणोम्य् अहम् । उद्यानानि हि साय अह्ने क्रीडित्वा उपरतैः नरैः
Verse 23
समन्तात् विप्रधावद्भिः प्रकाशन्ते मम अन्यदा । तानि अद्य अनुरुदन्ति इव परित्यक्तानि कामिभिः
Verse 24
अरण्य भूता इव पुरी सारथे प्रतिभाति मे । न हि अत्र यानैः दृश्यन्ते न गजैः न च वाजिभिः
Verse 25
निर्यान्तः वा अभियान्तः वा नर मुख्या यथा पुरम् । उद्यानानि पुरा भान्ति मत्तप्रमुदितानि च
Verse 26
जनानाम् रतिसम्योगेष्वत्यन्तगुणवन्ति च । तान्येतान्यद्य वश्यामि निरानन्दानि सर्वशः
Verse 27
स्रस्तपर्णैरनुपथम् विक्रोशद्भिरिव द्रुमैः । नाद्यापि श्रूयते शब्दो मत्तानाम् मृगपक्षिणाम्
Verse 28
सम्रक्ताम् मधुराम् वाणीम् कलम् व्याहरताम् बहु । चन्दनागुरुसम्पृक्तो धूपसम्मूर्चितोऽतुलः
Verse 29
प्रवाति पवनः श्रीमान् किम् नु नाद्य यथापुरम् । भेरीमृदङ्गवीणानाम् कोणसम्घट्टितः पुनः
Verse 30
किमद्य शब्दो विरतः सदाऽदीनगतिः पुरा । अनिष्टानि च पापानि पश्यामि विविधानि च
Verse 31
निमित्तानि अमनोज्ञानि तेन सीदति ते मनः । सर्वथा कुशलम् सूत दुर्लभम् मम बन्धुषु
Verse 32
तथा ह्यसति सम्मोहे हृदयम् सीदतीव मे । विषण्णः शान्तहृदयस्त्रस्तः सुलुलितेन्द्रियः
Verse 33
भरतः प्रविवेशाशु पुरीमिक्ष्वाकुपालिताम् । द्वारेण वैजयन्तेन प्राविशत् श्रान्त वाहनः
Verse 34
द्वाह्स्थैः उत्थाय विजयम् पृष्टः तैः सहितः ययौ । स तु अनेक अग्र हृदयो द्वाह्स्थम् प्रत्यर्च्य तम् जनम्
Verse 35
सूतम् अश्व पतेः क्लान्तम् अब्रवीत् तत्र राघवः । किमहम् त्वरयानीतः कारणेन विनानघ
Verse 36
अशुभाशङ्कि हृदयम् शीलम् च पततीव मे । श्रुता नो यादृशाः पूर्वम् नृपतीनाम् विनाशने
Verse 37
आकाराः तान् अहम् सर्वान् इह पश्यामि सारथे । सम्मार्जनविहीनानि परुषाण्युपलक्षये
Verse 38
असम्यतकवाटानि श्रीविहीनानि सर्वशः । बलिकर्मविहीनानि धूपसम्मेदनेन च
Verse 39
अनाशितकुटुम्बानि प्रभाहीनजनानि च । अलक्स्मीकानि पश्यामि कुटुम्बिभवनान्यहम्
Verse 40
अपेतमाल्यशोभानि असम्मृष्टाजिराणि च । देवागाराणि शून्यानि न चाभान्ति यथापुरम्
Verse 41
देवतार्चाः प्रविद्धाश्च यज्ञ्गोष्ठ्यस्तथाविधाः । माल्यापणेषु राजन्ते नाद्य पण्यानि वा तथा
Verse 42
दृश्यन्ते वणिजोऽप्यद्य न यथापूर्वमत्रवै । ध्यानसम्विग्नहृदयाः नष्टव्यापारयन्त्रिताः
Verse 43
देवायतनचैत्येषुदीनाः पक्षिगणास्तथा
Verse 44
मलिनम् च अश्रु पूर्ण अक्षम् दीनम् ध्यान परम् कृशम् । सस्त्री पुम्सम् च पश्यामि जनम् उत्कण्ठितम् पुरे
Verse 45
इति एवम् उक्त्वा भरतः सूतम् तम् दीन मानसः । तानि अनिष्टानि अयोध्यायाम् प्रेक्ष्य राज गृहम् ययौ
Verse 46
ताम् शून्य शृन्ग अटक वेश्म रथ्याम् । रजो अरुण द्वार कपाट यन्त्राम् । दृष्ट्वा पुरीम् इन्द्र पुरी प्रकाशाम् । दुह्खेन सम्पूर्णतरः बभूव
Verse 47
बहूनि पश्यन् मनसो अप्रियाणि । यानि अन्न्यदा न अस्य पुरे बभूवुः । अवाक् शिरा दीन मना नहृष्टः । पितुर् महात्मा प्रविवेश वेश्म