Sarga 64
Ayodhya Kanda
79 verses · free forever
Uses your saved HI voice · Narration settings
Narration reads the opening of this section. Longer passages are split to keep playback responsive.
Verse 1
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुःषष्ठितमः सर्गः ॥२-६४॥''' वधमप्रतिरूपम् तु महर्षेस्तस्य राघवः । विलपन्ने व धर्मात्मा कौसल्याम् पुन रब्रवीत्
Verse 2
तत् अज्ञानान् महत् पापम् कृत्वा सम्कुलित इन्द्रियः । एकः तु अचिन्तयम् बुद्ध्या कथम् नु सुकृतम् भवेत्
Verse 3
ततः तम् घटम् आदय पूर्णम् परम वारिणा । आश्रमम् तम् अहम् प्राप्य यथा आख्यात पथम् गतः
Verse 4
तत्र अहम् दुर्बलाव् अन्धौ वृद्धाव् अपरिणायकौ । अपश्यम् तस्य पितरौ लून पक्षाव् इव द्विजौ
Verse 5
तन् निमित्ताभिर् आसीनौ कथाभिर् अपरिक्रमौ । ताम् आशाम् मत् कृते हीनाव् उदासीनाव् अनाथवत्
Verse 6
शोकोपहतचित्तश्च भयसम्त्रस्तचेतनः । तच्चाश्रमपदम् गत्वा भूयः शोकमहम् गतः
Verse 7
पद शब्दम् तु मे श्रुत्वा मुनिर् वाक्यम् अभाषत । किम् चिरायसि मे पुत्र पानीयम् क्षिप्रम् आनय
Verse 8
यन् निमित्तम् इदम् तात सलिले क्रीडितम् त्वया । उत्कण्ठिता ते माता इयम् प्रविश क्षिप्रम् आश्रमम्
Verse 9
यद् व्यलीकम् कृतम् पुत्र मात्रा ते यदि वा मया । न तन् मनसि कर्तव्यम् त्वया तात तपस्विना
Verse 10
त्वम् गतिस् तु अगतीनाम् च चक्षुस् त्वम् हीन चक्षुषाम् । समासक्ताः त्वयि प्राणाः किम्चिन् नौ न अभिभाषसे
Verse 11
मुनिम् अव्यक्तया वाचा तम् अहम् सज्जमानया । हीन व्यन्जनया प्रेक्ष्य भीतः भीतैव अब्रुवम्
Verse 12
मनसः कर्म चेष्टाभिर् अभिसम्स्तभ्य वाग् बलम् । आचचक्षे तु अहम् तस्मै पुत्र व्यसनजम् भयम्
Verse 13
क्षत्रियो अहम् दशरथो न अहम् पुत्रः महात्मनः । सज्जन अवमतम् दुह्खम् इदम् प्राप्तम् स्व कर्मजम्
Verse 14
भगवमः च अपहस्तः अहम् सरयू तीरम् आगतः । जिघाम्सुः श्वा पदम् किम्चिन् निपाने वा आगतम् गजम्
Verse 15
ततः श्रुतः मया शब्दो जले कुम्भस्य पूर्यतः । द्विपो अयम् इति मत्वा हि बाणेन अभिहतः मया
Verse 16
गत्वा नद्याः ततः तीरम् अपश्यम् इषुणा हृदि । विनिर्भिन्नम् गत प्राणम् शयानम् भुवि तापसम्
Verse 17
भगवन् शब्दम् आलक्ष्य मया गज जिघाम्सुना । विसृष्टः अम्भसि नाराचः तेन ते निहतः सुतः
Verse 18
ततस्तस्यैव वचनादुपेत्य परितप्यतः । स मया सहसा बण उद्धृतो मर्मतस्तदा
Verse 19
स च उद्धृतेन बाणेन तत्र एव स्वर्गम् आस्थितः । भगवन्ताव् उभौ शोचन्न् अन्धाव् इति विलप्य च
Verse 20
अज्ञानात् भवतः पुत्रः सहसा अभिहतः मया । शेषम् एवम् गते यत् स्यात् तत् प्रसीदतु मे मुनिः
Verse 21
स तत् श्रुत्वा वचः क्रूरम् निह्श्वसन् शोक कर्शितः । नाशकत्तीव्रमायासमकर्तुम् भगवानृषिः
Verse 22
सबाष्पपूर्णवदनो निःश्वसन् शोककर्शितः । माम् उवाच महा तेजाः कृत अन्जलिम् उपस्थितम्
Verse 23
यद्य् एतत् अशुभम् कर्म न स्म मे कथयेः स्वयम् । फलेन् मूर्धा स्म ते राजन् सद्यः शत सहस्रधा
Verse 24
क्षत्रियेण वधो राजन् वानप्रस्थे विशेषतः । ज्ञान पूर्वम् कृतः स्थानाच् च्यावयेद् अपि वज्रिणम्
Verse 25
सप्तधा तु फलेन्मूर्धा मुनौ तपसि तिष्ठति । ज्ञानाद्विसृजतः शस्त्रम् तादृशे ब्रह्मचारिणि
Verse 26
अज्ञानाद्द् हि कृतम् यस्मात् इदम् तेन एव जीवसि । अपि हि अद्य कुलम् नस्यात् राघवाणाम् कुतः भवान्
Verse 27
नय नौ नृप तम् देशम् इति माम् च अभ्यभाषत । अद्य तम् द्रष्टुम् इच्चावः पुत्रम् पश्चिम दर्शनम्
Verse 28
रुधिरेण अवसित अन्गम् प्रकीर्ण अजिन वाससम् । शयानम् भुवि निह्सम्ज्ञम् धर्म राज वशम् गतम्
Verse 29
अथ अहम् एकः तम् देशम् नीत्वा तौ भृश दुह्खितौ । अस्पर्शयम् अहम् पुत्रम् तम् मुनिम् सह भार्यया
Verse 30
तौ पुत्रम् आत्मनः स्पृष्ट्वा तम् आसाद्य तपस्विनौ । निपेततुः शरीरे अस्य पिता च अस्य इदम् अब्रवीत्
Verse 31
न न्व् अहम् ते प्रियः पुत्र मातरम् पश्य धार्मिक । किम् नु न आलिन्गसे पुत्र सुकुमार वचो वद
Verse 32
न त्वहम् ते प्रियः पुत्र मातरम् पस्य धार्मिक । किम् नु नालिङ्गसे पुत्र सुकुमार वचो वद
Verse 33
कस्य वा अपर रात्रे अहम् श्रोष्यामि हृदयम् गमम् । अधीयानस्य मधुरम् शास्त्रम् वा अन्यद् विशेषतः
Verse 34
को माम् सम्ध्याम् उपास्य एव स्नात्वा हुत हुत अशनः । श्लाघयिष्यति उपासीनः पुत्र शोक भय अर्दितम्
Verse 35
कन्द मूल फलम् हृत्वा को माम् प्रियम् इव अतिथिम् । भोजयिष्यति अकर्मण्यम् अप्रग्रहम् अनायकम्
Verse 36
इमाम् अन्धाम् च वृद्धाम् च मातरम् ते तपस्विनीम् । कथम् पुत्र भरिष्यामि कृपणाम् पुत्र गर्धिनीम्
Verse 37
तिष्ठ मा मा गमः पुत्र यमस्य सदनम् प्रति । श्वो मया सह गन्ता असि जनन्या च समेधितः
Verse 38
उभाव् अपि च शोक आर्ताव् अनाथौ कृपणौ वने । क्षिप्रम् एव गमिष्यावः त्वया हीनौ यम क्षयम्
Verse 39
ततः वैवस्वतम् दृष्ट्वा तम् प्रवक्ष्यामि भारतीम् । क्षमताम् धर्म राजो मे बिभृयात् पितराव् अयम्
Verse 40
दातुमर्हति धर्मात्मा लोकपालो महायशाः । ईदृषस्य ममाक्षय्या मेकामभयदक्षिणाम्
Verse 41
अपापो असि यथा पुत्र निहतः पाप कर्मणा । तेन सत्येन गच्च आशु ये लोकाः शस्त्र योधिनाम्
Verse 42
यान्ति शूरा गतिम् याम् च सम्ग्रामेष्व् अनिवर्तिनः । हताः तु अभिमुखाः पुत्र गतिम् ताम् परमाम् व्रज
Verse 43
याम् गतिम् सगरः शैब्यो दिलीपो जनमेजयः । नहुषो धुन्धुमारः च प्राप्ताः ताम् गच्च पुत्रक
Verse 44
या गतिः सर्व साधूनाम् स्वाध्यायात् पतसः च या । भूमिदस्य आहित अग्नेः चएक पत्नी व्रतस्य च
Verse 45
गो सहस्र प्रदातृऋणाम् या या गुरुभृताम् अपि । देह न्यास कृताम् या च ताम् गतिम् गच्च पुत्रक
Verse 46
न हि तु अस्मिन् कुले जातः गच्चति अकुशलाम् गतिम् । स तु यास्यति येन त्वम् निहतो मम बान्धवः
Verse 47
एवम् स कृपणम् तत्र पर्यदेवयत असकृत् । ततः अस्मै कर्तुम् उदकम् प्रवृत्तः सह भार्यया
Verse 48
स तु दिव्येन रूपेण मुनि पुत्रः स्व कर्मभिः । स्वर्गमाध्यारुहत् ख्षिप्रम् शक्रेण सह खर्मवित्
Verse 49
आबभाषे च वृद्धौ तौ सह शक्रेण तापसः । आश्वास्य च मुहूर्तम् तु पितरौ वाक्यम् अब्रवीत्
Verse 50
स्थानम् अस्मि महत् प्राप्तः भवतोह् परिचारणात् । भवन्ताव् अपि च क्षिप्रम् मम मूलम् उपैष्यतः
Verse 51
एवम् उक्त्वा तु दिव्येन विमानेन वपुष्मता । आरुरोह दिवम् क्षिप्रम् मुनि पुत्रः जित इन्द्रियः
Verse 52
स कृत्वा तु उदकम् तूर्णम् तापसः सह भार्यया । माम् उवाच महा तेजाः कृत अन्जलिम् उपस्थितम्
Verse 53
अद्य एव जहि माम् राजन् मरणे न अस्ति मे व्यथा । यत् शरेण एक पुत्रम् माम् त्वम् अकार्षीर् अपुत्रकम्
Verse 54
त्वया तु यद् अविज्ञानान् निहतः मे सुतः शुचिः । तेन त्वाम् अभिशप्स्यामि सुदुह्खम् अतिदारुणम्
Verse 55
पुत्र व्यसनजम् दुह्खम् यद् एतन् मम साम्प्रतम् । एवम् त्वम् पुत्र शोकेन राजन् कालम् करिष्यसि
Verse 56
अज्ञानात्तु हतो यस्मात् क्षत्रियेण त्वया मुनिः । तस्मात्त्वाम् नाविशत्याशु ब्रह्महत्या नराधिप
Verse 57
त्वामप्येतादृशो भावः क्षिप्रमेव गमिष्यति । जीवितान्तकरो घोरो दातारमिव दक्षिणा
Verse 58
एवम् शापम् मयि न्यस्य विलप्य करुणम् बहु । चितामारोप्य देहम् तन्मिथुनम् स्वर्गमभ्ययात्
Verse 59
तदेतच्चिन्तयानेन स्मऋतम् पापम् मया स्वयम् । तदा बाल्यात्कृतम् देवि शब्दवेध्यनुकर्षिणा
Verse 60
तस्यायम् कर्मणो देवि विपाकः समुपस्थितः । अपथ्यैः सह सम्भुक्ते व्याधिरन्नरसे यथा
Verse 61
तस्मान् माम् आगतम् भद्रे तस्य उदारस्य तत् वचः । यद् अहम् पुत्र शोकेन सम्त्यक्ष्याम्य् अद्य जीवितम्
Verse 62
चक्षुर्भ्याम् त्वाम् न पश्यामि कौसल्ये साधु माम्स्फृश । इत्युक्त्वा स रुदम्स्त्रस्तो भार्यामाह च भूमिपः
Verse 63
एतन्मे सदृशम् देवि यन्मया राघवे कृतम् । सदृशम् तत्तु तस्यैव यदनेन कृतम् मयि
Verse 64
दुर्वृत्तमपि कः पुत्रम् त्यजेद्भुवि विचक्षणः । कश्च प्रव्राज्यमानो वा नासूयेत्पितरम् सुतः
Verse 65
यदि माम् सम्स्पृशेद् रामः सकृदद्य लभेत वा । यमक्षयमनुप्राप्ता द्रक्ष्यन्ति न हि मानवाः
Verse 66
चक्षुषा त्वाम् न पश्यामि स्मृतिर् मम विलुप्यते । दूता वैवस्वतस्य एते कौसल्ये त्वरयन्ति माम्
Verse 67
अतः तु किम् दुह्खतरम् यद् अहम् जीवित क्षये । न हि पश्यामि धर्मज्ञम् रामम् सत्य पराक्यमम्
Verse 68
तस्यादर्शनजः शोकः सुतस्याप्रतिकर्मणः । उच्चोषयति मे प्राणान्वारि स्तोकमिवातवः
Verse 69
न ते मनुष्या देवाः ते ये चारु शुभ कुण्डलम् । मुखम् द्रक्ष्यन्ति रामस्य वर्षे पन्च दशे पुनः
Verse 70
पद्म पत्र ईक्षणम् सुभ्रु सुदम्ष्ट्रम् चारु नासिकम् । धन्या द्रक्ष्यन्ति रामस्य तारा अधिप निभम् मुखम्
Verse 71
सदृशम् शारदस्य इन्दोह् फुल्लस्य कमलस्य च । सुगन्धि मम नाथस्य धन्या द्रक्ष्यन्ति तन् मुखम्
Verse 72
निवृत्त वन वासम् तम् अयोध्याम् पुनर् आगतम् । द्रक्ष्यन्ति सुखिनो रामम् शुक्रम् मार्ग गतम् यथा
Verse 73
कौसल्ये चित्त मोहेन हृदयम् सीदतीव मे । वेदये न च समुक्तान् शब्दस्पर्शरसानहम्
Verse 74
चित्तनाशाद्विपद्यन्ते सर्वाण्येवेन्द्रियाणि मे । क्षिणस्नेहस्य दीपस्य सम्सक्ता रश्मयो यथा
Verse 75
अयम् आत्म भवः शोको माम् अनाथम् अचेतनम् । सम्सादयति वेगेन यथा कूलम् नदी रयः
Verse 76
हा राघव महा बाहो हा मम आयास नाशन । हा पितृप्रिय मे नाथ हाद्य क्वासि गतः सुत
Verse 77
हा कौसल्ये नशिष्यामि हा सुमित्रे तपस्विनि । हा नृशम्से ममामित्रे कैकेयि कुलपाम्सनि
Verse 78
इति रामस्य मातुश्च सुमित्रायाश्च सन्निधौ । राजा दशरथः शोचन् जीवित अन्तम् उपागमत्
Verse 79
यथा तु दीनम् कथयन् नर अधिपः । प्रियस्य पुत्रस्य विवासन आतुरः । गते अर्ध रात्रे भृश दुह्ख पीडितः । तदा जहौ प्राणम् उदार दर्शनः