Lipi
Sign in
Classic reading room ↗

Sarga 63

Ayodhya Kanda

56 verses · free forever

Listen to this section

Uses your saved HI voice · Narration settings

Narration reads the opening of this section. Longer passages are split to keep playback responsive.

  1. Verse 1

    '''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्रिषष्ठितमः सर्गः ॥२-६३॥''' प्रतिबुद्धो मुहुर् तेन शोक उपहत चेतनः । अथ राजा दशरथः स चिन्ताम् अभ्यपद्यत

  2. Verse 2

    राम लक्ष्मणयोः चैव विवासात् वासव उपमम् । आविवेश उपसर्गः तम् तमः सूर्यम् इव आसुरम्

  3. Verse 3

    सभार्ये निर्गते रामे कौसल्याम् कोसलेश्वरः । विवक्षुरसितापाङ्गाम् स्मृवा दुष्कृतमात्मनः

  4. Verse 4

    स राजा रजनीम् षष्ठीम् रामे प्रव्रजिते वनम् । अर्ध रात्रे दशरथः सम्स्मरन् दुष्कृतम् कृतम्

  5. Verse 5

    स राजा पुत्रशोकार्तः स्मरन् दुष्कृतमात्मनः । कौसल्याम् पुत्र शोक आर्ताम् इदम् वचनम् अब्रवीत्

  6. Verse 6

    यद् आचरति कल्याणि शुभम् वा यदि वा अशुभम् । तत् एव लभते भद्रे कर्ता कर्मजम् आत्मनः

  7. Verse 7

    गुरु लाघवम् अर्थानाम् आरम्भे कर्मणाम् फलम् । दोषम् वा यो न जानाति स बालैति ह उच्यते

  8. Verse 8

    कश्चित् आम्र वणम् चित्त्वा पलाशामः च निषिन्चति । पुष्पम् दृष्ट्वा फले गृध्नुः स शोचति फल आगमे

  9. Verse 9

    अविज्ञाय फलम् यो हि कर्म त्वेवानुधावति । स शोचेत्फलवेLआयाम् यथा किम्शुकसेचकः

  10. Verse 10

    सो अहम् आम्र वणम् चित्त्वा पलाशामः च न्यषेचयम् । रामम् फल आगमे त्यक्त्वा पश्चात् शोचामि दुर्मतिः

  11. Verse 11

    लब्ध शब्देन कौसल्ये कुमारेण धनुष्मता । कुमारः शब्द वेधी इति मया पापम् इदम् कृतम्

  12. Verse 12

    तत् इदम् मे अनुसम्प्राप्तम् देवि दुह्खम् स्वयम् कृतम् । सम्मोहात् इह बालेन यथा स्यात् भक्षितम् विषम्

  13. Verse 13

    यथान्यः पुरुषः कश्चित्पलाशैर्मोओहितो भवेत् । एवम् मम अपि अविज्ञातम् शब्द वेध्यमयम् फलम्

  14. Verse 14

    देव्य् अनूढा त्वम् अभवो युव राजो भवाम्य् अहम् । ततः प्रावृड् अनुप्राप्ता मद काम विवर्धिनी

  15. Verse 15

    उपास्यहि रसान् भौमाम्स् तप्त्वा च जगद् अम्शुभिः । परेत आचरिताम् भीमाम् रविर् आविशते दिशम्

  16. Verse 16

    उष्णम् अन्तर् दधे सद्यः स्निग्धा ददृशिरे घनाः । ततः जहृषिरे सर्वे भेक सारन्ग बर्हिणः

  17. Verse 17

    क्लिन्नपक्षोत्तराः स्नाताः कृच्च्रादिव वतत्रिणः । वृष्टिवातावधूताग्रान् पादपानभिपेदिरे

  18. Verse 18

    पतितेन अम्भसा चन्नः पतमानेन च असकृत् । आबभौ मत्त सारन्गः तोय राशिर् इव अचलः

  19. Verse 19

    पाण्डुरारुणवर्णानि स्रोओताम्सि विमलान्यपि । सुस्रुवुर्गिरिधातुभ्यः सभस्मानि भुजङ्गवत्

  20. Verse 20

    आकुलारुणतोयानि स्रोओताम्सि विमलान्यपि । उन्मार्गजलवाहीनि बभूवुर्जलदागमे

  21. Verse 21

    तस्मिन्न् अतिसुखे काले धनुष्मान् इषुमान् रथी । व्यायाम कृत सम्कल्पः सरयूम् अन्वगाम् नदीम्

  22. Verse 22

    निपाने महिषम् रात्रौ गजम् वा अभ्यागतम् नदीम् । अन्यम् वा श्वा पदम् कम्चिज् जिघाम्सुर् अजित इन्द्रियः

  23. Verse 23

    तस्मिम्स्तत्राहमेकान्ते रात्रौ विवृतकार्मुकः । तत्राहम् सम्वृतम् वन्यम् हतवाम्स्तीरमागतम्

  24. Verse 24

    अन्यम् चापि मृगम् हिम्स्रम् शब्दम् श्रुत्वाभु पागतम् । अथ अन्ध कारे तु अश्रौषम् जले कुम्भस्य पर्यतः

  25. Verse 25

    अचक्षुर् विषये घोषम् वारणस्य इव नर्दतः । ततः अहम् शरम् उद्धृत्य दीप्तम् आशी विष उपमम्

  26. Verse 26

    शब्दम् प्रति गजप्रेप्सुरभिलक्ष्य त्वपातयम् । अमुन्चम् निशितम् बाणम् अहम् आशी विष उपमम्

  27. Verse 27

    तत्र वाग् उषसि व्यक्ता प्रादुर् आसीद् वन ओकसः । हा हा इति पततः तोये बाणाभिहतमर्मणः

  28. Verse 28

    तस्मिन्निपतिते बाणे वागभूत्तत्र मानुषी । कथम् अस्मद् विधे शस्त्रम् निपतेत् तु तपस्विनि

  29. Verse 29

    प्रविविक्ताम् नदीम् रात्राव् उदाहारः अहम् आगतः । इषुणा अभिहतः केन कस्य वा किम् कृतम् मया

  30. Verse 30

    ऋषेर् हि न्यस्त दण्डस्य वने वन्येन जीवतः । कथम् नु शस्त्रेण वधो मद् विधस्य विधीयते

  31. Verse 31

    जटा भार धरस्य एव वल्कल अजिन वाससः । को वधेन मम अर्थी स्यात् किम् वा अस्य अपकृतम् मया

  32. Verse 32

    एवम् निष्फलम् आरब्धम् केवल अनर्थ सम्हितम् । न कश्चित् साधु मन्येत यथैव गुरु तल्पगम्

  33. Verse 33

    नहम् तथा अनुशोचामि जीवित क्षयम् आत्मनः । मातरम् पितरम् च उभाव् अनुशोचामि मद् विधे

  34. Verse 34

    तत् एतान् मिथुनम् वृद्धम् चिर कालभृतम् मया । मयि पन्चत्वम् आपन्ने काम् वृत्तिम् वर्तयिष्यति

  35. Verse 35

    वृद्धौ च माता पितराव् अहम् च एक इषुणा हतः । केन स्म निहताः सर्वे सुबालेन अकृत आत्मना

  36. Verse 36

    तम् गिरम् करुणाम् श्रुत्वा मम धर्म अनुकान्क्षिणः । कराभ्याम् सशरम् चापम् व्यथितस्य अपतत् भुवि

  37. Verse 37

    तस्याहम् करुणम् श्रुत्वा निशि लालपतो बहु । सम्भ्रानतः शोकवेगेन भृशमास विचेतनः

  38. Verse 38

    तम् देशम् अहम् आगम्य दीन सत्त्वः सुदुर्मनाः । अपश्यम् इषुणा तीरे सरय्वाः तापसम् हतम्

  39. Verse 39

    अवकीर्णजटाभारम् प्रविद्धकलशोदकम् । पासुशोणितदिग्धाङ्गम् शयानम् शल्यपीडितम्

  40. Verse 40

    स माम् उद्वीक्ष्य नेत्राभ्याम् त्रस्तम् अस्वस्थ चेतसम् । इति उवाच वचः क्रूरम् दिधक्षन्न् इव तेजसा

  41. Verse 41

    किम् तव अपकृतम् राजन् वने निवसता मया । जिहीर्षिउर् अम्भो गुर्व् अर्थम् यद् अहम् ताडितः त्वया

  42. Verse 42

    एकेन खलु बाणेन मर्मणि अभिहते मयि । द्वाव् अन्धौ निहतौ वृद्धौ माता जनयिता च मे

  43. Verse 43

    तौ नूनम् दुर्बलाव् अन्धौ मत् प्रतीक्षौ पिपासितौ । चिरम् आशा कृताम् तृष्णाम् कष्टाम् सम्धारयिष्यतः

  44. Verse 44

    न नूनम् तपसो वा अस्ति फल योगः श्रुतस्य वा । पिता यन् माम् न जानाति शयानम् पतितम् भुवि

  45. Verse 45

    जानन्न् अपि च किम् कुर्यात् अशक्तिर् अपरिक्रमः । चिद्यमानम् इव अशक्तः त्रातुम् अन्यो नगो नगम्

  46. Verse 46

    पितुस् त्वम् एव मे गत्वा शीघ्रम् आचक्ष्व राघव । न त्वाम् अनुदहेत् क्रुद्धो वनम् वह्निर् इव एधितः

  47. Verse 47

    इयम् एक पदी राजन् यतः मे पितुर् आश्रमः । तम् प्रसादय गत्वा त्वम् न त्वाम् स कुपितः शपेत्

  48. Verse 48

    विशल्यम् कुरु माम् राजन् मर्म मे निशितः शरः । रुणद्धि मृदु स उत्सेधम् तीरम् अम्बु रयो यथा

  49. Verse 49

    सशल्यः क्लिश्यते प्राणैर्विशल्यो विनशिष्यति । इति मामविशच्चिन्ता तस्य शल्यापकर्षणे

  50. Verse 50

    दुःखितस्य च दीनस्य मम शोकातुरस्य च । लक्ष्यामास हृदये चिन्ताम् मुनिसुत स्तदा

  51. Verse 51

    ताम्यमानः स माम् दुःखादुवाच परमार्तवत् । सीदमानो विवृत्ताङ्गो वेष्टमानो गतः क्षयम्

  52. Verse 52

    सम्स्तभ्य धैर्येण स्थिरचित्तो भवाम्यहम् । ब्रह्महत्याकृतम् पापम् हृदयादपनीयताम्

  53. Verse 53

    न द्विजातिर् अहम् राजन् मा भूत् ते मनसो व्यथा । शूद्रायाम् अस्मि वैश्येन जातः जन पद अधिप

  54. Verse 54

    इति इव वदतः कृच्च्रात् बाण अभिहत मर्मणः । विघूर्णतो विचेष्टस्य वेपमाचस्य भूतले

  55. Verse 55

    तस्य तु आनम्यमानस्य तम् बाणम् अहम् उद्धरम् । तस्य त्वानम्यमानस्य तम् बाणामहमुद्धरम्

  56. Verse 56

    जल आर्द्र गात्रम् तु विलप्य कृच्चान् । मर्म व्रणम् सम्ततम् उच्चसन्तम् । ततः सरय्वाम् तम् अहम् शयानम् । समीक्ष्य भद्रे सुभृशम् विषण्णः