Lipi
Sign in
Classic reading room ↗

Sarga 62

Ayodhya Kanda

21 verses · free forever

Listen to this section

Uses your saved HI voice · Narration settings

  1. Verse 1

    '''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्विषष्ठितमः सर्गः ॥२-६२॥''' एवम् तु क्रुद्धया राजा राम मात्रा सशोकया । श्रावितः परुषम् वाक्यम् चिन्तयाम् आस दुह्खितः

  2. Verse 2

    चिन्तयित्वा स च नृपो मुमोह व्याकुलेन्द्रियः । अथ दीर्घेण कालेन सम्ज्ञामाप परतपः

  3. Verse 3

    स सम्ज्ञाअमुपलब्यैव दीर्घमुष्णम् च निःससन् । कौसल्याम् पार्श्वतो दृष्ट्वा ततश्चिन्तामुपागमत्

  4. Verse 4

    तस्य चिन्तयमानस्य प्रत्यभात् कर्म दुष्कृतम् । यद् अनेन कृतम् पूर्वम् अज्ञानात् शब्द वेधिना

  5. Verse 5

    अमनाः तेन शोकेन राम शोकेन च प्रभुः । द्वाभ्यामपि महाराजः शोकाब्यामभितप्यतो

  6. Verse 6

    दह्यमानः तु शोकाभ्याम् कौसल्याम् आह भू पतिः । वेपमानोऽञ्जलिम् कृत्वा प्रसादर्तमवाङ्मुखः

  7. Verse 7

    प्रसादये त्वाम् कौसल्ये रचितः अयम् मया अन्जलिः । वत्सला च आनृशम्सा च त्वम् हि नित्यम् परेष्व् अपि

  8. Verse 8

    भर्ता तु खलु नारीणाम् गुणवान् निर्गुणो अपि वा । धर्मम् विमृशमानानाम् प्रत्यक्षम् देवि दैवतम्

  9. Verse 9

    सा त्वम् धर्म परा नित्यम् दृष्ट लोक पर अवर । न अर्हसे विप्रियम् वक्तुम् दुह्खिता अपि सुदुह्खितम्

  10. Verse 10

    तत् वाक्यम् करुणम् राज्ञः श्रुत्वा दीनस्य भाषितम् । कौसल्या व्यसृजद् बाष्पम् प्रणाली इव नव उदकम्

  11. Verse 11

    स मूद्र्ह्नि बद्ध्वा रुदती राज्ञः पद्मम् इव अन्जलिम् । सम्भ्रमात् अब्रवीत् त्रस्ता त्वरमाण अक्षरम् वचः

  12. Verse 12

    प्रसीद शिरसा याचे भूमौ निततिता अस्मि ते । याचिता अस्मि हता देव हन्तव्या अहम् न हि त्वया

  13. Verse 13

    न एषा हि सा स्त्री भवति श्लाघनीयेन धीमता । उभयोः लोकयोः वीर पत्या या सम्प्रसाद्यते

  14. Verse 14

    जानामि धर्मम् धर्मज्ञ त्वाम् जाने सत्यवादिनम् । पुत्र शोक आर्तया तत् तु मया किम् अपि भाषितम्

  15. Verse 15

    शोको नाशयते धैर्यम् शोको नाशयते श्रुतम् । शोको नाशयते सर्वम् न अस्ति शोक समः रिपुः

  16. Verse 16

    शक्यम् आपतितः सोढुम् प्रहरः रिपु हस्ततः । सोढुम् आपतितः शोकः सुसूक्ष्मः अपि न शक्यते

  17. Verse 17

    दर्मज्ञाः श्रुतिमन्तोऽपि चिन्नधर्मार्थसम्शयाः । यतयो वीर मुह्यन्ति शोकसम्मूढचेतसः

  18. Verse 18

    वन वासाय रामस्य पन्च रात्रः अद्य गण्यते । यः शोक हत हर्षायाः पन्च वर्ष उपमः मम

  19. Verse 19

    तम् हि चिन्तयमानायाः शोको अयम् हृदि वर्धते । अदीनाम् इव वेगेन समुद्र सलिलम् महत्

  20. Verse 20

    एवम् हि कथयन्त्याः तु कौसल्यायाः शुभम् वचः । मन्द रश्मिर् अभूत् सुर्यो रजनी च अभ्यवर्तत

  21. Verse 21

    तथ प्रह्लादितः वाक्यैः देव्या कौसल्यया नृपः । शोकेन च समाक्रान्तः निद्राया वशम् एयिवान्