Lipi
Sign in
Classic reading room ↗

Sarga 61

Ayodhya Kanda

27 verses · free forever

Listen to this section

Uses your saved HI voice · Narration settings

  1. Verse 1

    '''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकषष्ठितमः सर्गः ॥२-६१॥''' वनम् गते धर्म परे रामे रमयताम् वरे । कौसल्या रुदती स्वार्ता भर्तारम् इदम् अब्रवीत्

  2. Verse 2

    यद्यपि त्रिषु लोकेषु प्रथितम् ते मयद् यशः । सानुक्रोशो वदान्यः च प्रिय वादी च राघवः

  3. Verse 3

    कथम् नर वर श्रेष्ठ पुत्रौ तौ सह सीतया । दुह्खितौ सुख सम्वृद्धौ वने दुह्खम् सहिष्यतः

  4. Verse 4

    सा नूनम् तरुणी श्यामा सुकुमारी सुख उचिता । कथम् उष्णम् च शीतम् च मैथिली प्रसहिष्यते

  5. Verse 5

    भुक्त्वा अशनम् विशाल अक्षी सूप दम्श अन्वितम् शुभम् । वन्यम् नैवारम् आहारम् कथम् सीता उपभोक्ष्यते

  6. Verse 6

    गीत वादित्र निर्घोषम् श्रुत्वा शुभम् अनिन्दिता । कथम् क्रव्य अद सिम्हानाम् शब्दम् श्रोष्यति अशोभनम्

  7. Verse 7

    महा इन्द्र ध्वज सम्काशः क्व नु शेते महा भुजः । भुजम् परिघ सम्काशम् उपधाय महा बलः

  8. Verse 8

    पद्म वर्णम् सुकेश अन्तम् पद्म निह्श्वासम् उत्तमम् । कदा द्रक्ष्यामि रामस्य वदनम् पुष्कर ईक्षणम्

  9. Verse 9

    वज्र सारमयम् नूनम् हृदयम् मे न सम्शयः । अपश्यन्त्या न तम् यद् वै फलति इदम् सहस्रधा

  10. Verse 10

    यत्त्वया करुणम् कर्म व्यपोह्य मम बान्धवाः । निरस्ता परिधावन्ति सुखार्हः कृपणा वने

  11. Verse 11

    यदि पञ्चदशे वर्षे राघवः पुनरेष्यति । जह्याद्राज्यम् च कोशम् च भरतो नोपल्स्ख्यते

  12. Verse 12

    भोजयन्ति किल श्राद्धे केचित्स्वनेव बान्धवान् । ततः पश्चात्समीक्षन्ते कृतकार्या द्विजर्षभान्

  13. Verse 13

    तत्र ये गुणवन्तश्च विद्वाम्सश्च द्विजातयः । न पश्चात्तेऽभिमन्यन्ते सुधामपि सुरोपमाः

  14. Verse 14

    ब्राह्मणेष्वपि तृप्तेषु पश्चाद्भोक्तुम् द्विजर्षभाः । नाभ्युपैतुमलम् प्राज्ञाः शृङ्गच्चेदमिवर्ष्भाः

  15. Verse 15

    एवम् कनीयसा भ्रात्रा भुक्तम् राज्यम् विशाम् पते । भ्राता ज्येष्ठा वरिष्ठाः च किम् अर्थम् न अवमम्स्यते

  16. Verse 16

    न परेण आहृतम् भक्ष्यम् व्याघ्रः खादितुम् इच्चति । एवम् एव नर व्याघ्रः पर लीढम् न मम्स्यते

  17. Verse 17

    हविर् आज्यम् पुरोडाशाः कुशा यूपाः च खादिराः । न एतानि यात यामानि कुर्वन्ति पुनर् अध्वरे

  18. Verse 18

    तथा हि आत्तम् इदम् राज्यम् हृत साराम् सुराम् इव । न अभिमन्तुम् अलम् रामः नष्ट सोमम् इव अध्वरम्

  19. Verse 19

    न एवम् विधम् असत्कारम् राघवो मर्षयिष्यति । बलवान् इव शार्दूलो बालधेर् अभिमर्शनम्

  20. Verse 20

    नैतस्य सहिता लोका भयम् कुर्युर्महामृधे । अधर्मम् त्विह धर्मात्मा लोकम् धर्मेण योजयेत्

  21. Verse 21

    नन्वसौ काञ्चनैर्बाणैर्महावीर्यो महाभुजः । युगान्त इव भूतानि सागरानपि निर्दहेत्

  22. Verse 22

    स तादृशः सिम्ह बलो वृषभ अक्षो नर ऋषभः । स्वयम् एव हतः पित्रा जलजेन आत्मजो यथा

  23. Verse 23

    द्विजाति चरितः धर्मः शास्त्र दृष्टः सनातनः । यदि ते धर्म निरते त्वया पुत्रे विवासिते

  24. Verse 24

    गतिर् एवाक् पतिर् नार्या द्वितीया गतिर् आत्मजः । तृतीया ज्ञातयो राजमः चतुर्थी न इह विद्यते

  25. Verse 25

    तत्र त्वम् चैव मे न अस्ति रामः च वनम् आश्रितः । न वनम् गन्तुम् इच्चामि सर्वथा हि हता त्वया

  26. Verse 26

    हतम् त्वया राज्यम् इदम् सराष्ट्रम् । हतः तथा आत्मा सह मन्त्रिभिः च । हता सपुत्रा अस्मि हताः च पौराः । सुतः च भार्या च तव प्रहृष्टौ

  27. Verse 27

    इमाम् गिरम् दारुण शब्द सम्श्रिताम् । निशम्य राजा अपि मुमोह दुह्खितः । ततः स शोकम् प्रविवेश पार्थिवः । स्वदुष्कृतम् च अपि पुनः तदा अस्मरत्