Lipi
Sign in
Classic reading room ↗

Sarga 58

Ayodhya Kanda

37 verses · free forever

Listen to this section

Uses your saved HI voice · Narration settings

  1. Verse 1

    '''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टपञ्चाशः सर्गः ॥२-५८॥''' प्रत्याश्वस्तः यदा राजा मोहात् प्रत्यागतः पुनः । थाजुहाव तम् सूतम् राम वृत्त अन्त कारणात्

  2. Verse 2

    तदा सूतो महाराज कृताञ्जलिरुपस्थितः। राममेव अनुशोचन्तं दुःखशोकसमन्वितम्

  3. Verse 3

    वृद्धम् परम सम्तप्तम् नव ग्रहम् इव द्विपम् । विनिःश्वसन्तम् ध्यायन्तम् अस्वस्थम् इव कुन्जरम्

  4. Verse 4

    राजा तु रजसा सूतम् ध्वस्त अङ्गम् समुपस्थितम् । अश्रु पूर्ण मुखम् दीनम् उवाच परम आर्तवत्

  5. Verse 5

    क्व नु वत्स्यति धर्म आत्मा वृक्ष मूलम् उपाश्रितः । सो अत्यन्त सुखितः सूत किम् अशिष्यति राघवः

  6. Verse 6

    दुःखस्यानुचितो दुःखम् सुमन्त्र शयनोचितः । भूमि पाल आत्मजो भूमौ शेते कथम् अनाथवत्

  7. Verse 7

    यम् यान्तम् अनुयान्ति स्म पदाति रथ कुण्Jजराः । स वत्स्यति कथम् रामः विजनम् वनम् आश्रितः

  8. Verse 8

    व्याLऐः मृगैः आचरितम् कृष्ण सर्प निषेवितम् । कथम् कुमारौ वैदेह्या सार्धम् वनम् उपस्थितौ

  9. Verse 9

    सुकुमार्या तपस्विन्या सुमन्त्र सह सीतया । राज पुत्रौ कथम् पादैः अवरुह्य रथात् गतौ

  10. Verse 10

    सिद्ध अर्थः खलु सूत त्वम् येन दृष्टौ मम आत्मजौ । वन अन्तम् प्रविशन्तौ ताव् अश्विनाव् इव मन्दरम्

  11. Verse 11

    किम् उवाच वचो रामः किम् उवाच च लक्ष्मणः । सुमन्त्र वनम् आसाद्य किम् उवाच च मैथिली

  12. Verse 12

    आसितम् शयितम् भुक्तम् सूत रामस्य कीर्तय । जीविष्याम्यहमेतेन ययातिरिव साधुषु

  13. Verse 13

    इति सूतः नर इन्द्रेण चोदितः सज्जमानया । उवाच वाचा राजानम् स बाष्प परिर्बद्धया

  14. Verse 14

    अब्रवीन् माम् महा राज धर्मम् एव अनुपालयन् । अन्जलिम् राघवः कृत्वा शिरसा अभिप्रणम्य च

  15. Verse 15

    सूत मद्वचनात् तस्य तातस्य विदित आत्मनः । शिरसा वन्दनीयस्य वन्द्यौ पादौ महात्मनः

  16. Verse 16

    सर्वम् अन्तः पुरम् वाच्यम् सूत मद्वचनात्त्वया । आरोग्यम् अविशेषेण यथा अर्हम् च अभिवादनम्

  17. Verse 17

    माता च मम कौसल्या कुशलम् च अभिवादनम् । अप्रमादम् च वक्तव्या ब्रूयाश्चैमिदम् वचः

  18. Verse 18

    धर्मनित्या यथाकालमग्न्यगारपरा भव । देवि देवस्य पादौ च देववत् परिपालय

  19. Verse 19

    अभिमानम् च मानम् च त्यक्त्वा वर्तस्व मातृषु । अनु राजान मार्याम् च कैकेयीमम्ब कारय

  20. Verse 20

    कुमारे भरते वृत्तिर्वर्तितव्याच राजवत् । अर्थज्येष्ठा हि राजानो राजधर्ममनुस्मर

  21. Verse 21

    भरतः कुशलम् वाच्यो वाच्यो मद् वचनेन च । सर्वास्व एव यथा न्यायम् वृत्तिम् वर्तस्व मातृषु

  22. Verse 22

    वक्तव्यः च महा बाहुर् इक्ष्वाकु कुल नन्दनः । पितरम् यौवराज्यस्थो राज्यस्थम् अनुपालय

  23. Verse 23

    अतिक्रान्तवया राजा मास्मैनम् व्यवरोरुधः । कुमारराज्ये जीव त्वम् तस्यैवाज्ञ्प्रवर्तनाम्

  24. Verse 24

    अब्रवीच्चापि माम् भूयो भृशमश्रूणि वर्तयन् । मातेव मम माता ते द्रष्टव्या पुत्रगर्धिनी

  25. Verse 25

    इति एवम् माम् महाराज बृवन्न् एव महा यशाः । रामः राजीव ताम्र अक्षो भृशम् अश्रूणि अवर्तयत्

  26. Verse 26

    लक्ष्मणः तु सुसम्क्रुद्धो निह्श्वसन् वाक्यम् अब्रवीत् । केन अयम् अपराधेन राज पुत्रः विवासितः

  27. Verse 27

    राज्ञा तु खलु कैकेय्या लघु त्वाश्रित्य शासनम् । कृतम् कार्यमकार्यम् वा वयम् येनाभिपीडिताः

  28. Verse 28

    यदि प्रव्राजितः रामः लोभ कारण कारितम् । वर दान निमित्तम् वा सर्वथा दुष्कृतम् कृतम्

  29. Verse 29

    इदम् तावद्यथाकाममीश्वरस्य कृते कृतम् । रामस्य तु परित्यागे न हेतुम् उपलक्षये

  30. Verse 30

    असमीक्ष्य समारब्धम् विरुद्धम् बुद्धि लाघवात् । जनयिष्यति सम्क्रोशम् राघवस्य विवासनम्

  31. Verse 31

    अहम् तावन् महा राजे पितृत्वम् न उपलक्षये । भ्राता भर्ता च बन्धुः च पिता च मम राघवः

  32. Verse 32

    सर्व लोक प्रियम् त्यक्त्वा सर्व लोक हिते रतम् । सर्व लोको अनुरज्येत कथम् त्वा अनेन कर्मणा

  33. Verse 33

    सर्वप्रजाभिरामम् हि रामम् प्रव्राज्य धार्मिकम् । सर्वलोकम् विरुध्येमम् कथम् राजा भविष्यसि

  34. Verse 34

    जानकी तु महा राज निःश्वसन्ती तपस्विनी । भूत उपहत चित्ता इव विष्ठिता वृष्मृता स्थिता

  35. Verse 35

    अदृष्ट पूर्व व्यसना राज पुत्री यशस्विनी । तेन दुह्खेन रुदती न एव माम् किम्चित् अब्रवीत्

  36. Verse 36

    उद्वीक्षमाणा भर्तारम् मुखेन परिशुष्यता । मुमोच सहसा बाष्पम् माम् प्रयान्तम् उदीक्ष्य सा

  37. Verse 37

    तथैव रामः अश्रु मुखः कृत अन्जलिः । स्थितः अभवल् लक्ष्मण बाहु पालितः स्थितः । तथैव सीता रुदती तपस्विनी । निरीक्षते राज रथम् तथैव माम्