Lipi
Sign in
Classic reading room ↗

Sarga 52

Ayodhya Kanda

102 verses · free forever

Listen to this section

Uses your saved HI voice · Narration settings

Narration reads the opening of this section. Longer passages are split to keep playback responsive.

  1. Verse 1

    '''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्विपञ्चाशः सर्गः ॥२-५२॥''' प्रभातायाम् तु शर्वर्याम् पृथु वृक्षा महा यशाः । उवाच रामः सौमित्रिम् लक्ष्मणम् शुभ लक्षणम्

  2. Verse 2

    भास्कर उदय कालो अयम् गता भगवती निशा । असौ सुकृष्णो विहगः कोकिलः तात कूजति

  3. Verse 3

    बर्हिणानाम् च निर्घोषः श्रूयते नदताम् वने । तराम जाह्नवीम् सौम्य शीघ्रगाम् सागरम् गमाम्

  4. Verse 4

    विज्ञाय रामस्य वचः सौमित्रिर् मित्र नन्दनः । गुहम् आमन्त्र्य सूतम् च सो अतिष्ठद् भ्रातुर् अग्रतः

  5. Verse 5

    स तु रामस्य वचनम् निशम्य प्रतिगृह्य च । स्थपतिस्तूर्णमाहुय सचिवानिदमब्रवीत्

  6. Verse 6

    अस्य वाहनसम्युक्ताम् कर्णग्राहवतीम् शुभाम् । सुप्रताराम् दृढाम् तीर्खे शीग्रम् नावमुपाहर

  7. Verse 7

    तम् निशम्य समादेशम् गुहामात्यगणो महान् । उपोह्य रुचिराम् नावम् गुहाय प्रत्यवेदयत्

  8. Verse 8

    ततः सप्राञ्जलिर्भूत्वा गुहो राघवमब्रवीत् । उपस्थितेयम् नौर्देव भूयः किम् करवाणि ते

  9. Verse 9

    तवामरसुतप्रख्य तर्तुम् सागरगाम् नदीम् । नौरियम् पुरुषव्याग्र! ताम् त्वमारोह सुव्रत!

  10. Verse 10

    अथोवाच महातेजा रामो गुहमिदम् वचः । कृतकामोऽस्मि भवता शीघ्रमारोप्यतामिति

  11. Verse 11

    ततः कलापान् सम्नह्य खड्गौ बद्ध्वा च धन्विनौ । जग्मतुर् येन तौ गन्गाम् सीतया सह राघवौ

  12. Verse 12

    रामम् एव तु धर्मज्ञम् उपगम्य विनीतवत् । किम् अहम् करवाणि इति सूतः प्रान्जलिर् अब्रवीत्

  13. Verse 13

    ततोऽब्रवीद्दाशरथिः सुमन्त्रम् । स्पृशन् करेणोत्तमदक्षिणेन । सुमन्त्र शीघ्रम् पुनरेव याहि । राज्ञः सकाशे भवचाप्रमत्तः

  14. Verse 14

    निवर्तस्व इति उवाच एनम् एतावद्द् हि कृतम् मम । रथम् विहाय पद्भ्याम् तु गमिष्यामि महावनम्

  15. Verse 15

    आत्मानम् तु अभ्यनुज्ञातम् अवेक्ष्य आर्तः स सारथिः । सुमन्त्रः पुरुष व्याघ्रम् ऐक्ष्वाकम् इदम् अब्रवीत्

  16. Verse 16

    न अतिक्रान्तम् इदम् लोके पुरुषेण इह केनचित् । तव सभ्रातृ भार्यस्य वासः प्राकृतवद् वने

  17. Verse 17

    न मन्ये ब्रह्म चर्ये अस्ति स्वधीते वा फल उदयः । मार्दव आर्जवयोः वा अपि त्वाम् चेद् व्यसनम् आगतम्

  18. Verse 18

    सह राघव वैदेह्या भ्रात्रा चैव वने वसन् । त्वम् गतिम् प्राप्स्यसे वीर त्रीम्ल् लोकाम्स् तु जयन्न् इव

  19. Verse 19

    वयम् खलु हता राम ये तया अपि उपवन्चिताः । कैकेय्या वशम् एष्यामः पापाया दुह्ख भागिनः

  20. Verse 20

    इति ब्रुवन्न् आत्म समम् सुमन्त्रः सारथिस् तदा । दृष्ट्वा दुर गतम् रामम् दुह्ख आर्तः रुरुदे चिरम्

  21. Verse 21

    ततः तु विगते बाष्पे सूतम् स्पृष्ट उदकम् शुचिम् । रामः तु मधुरम् वाक्यम् पुनः पुनर् उवाच तम्

  22. Verse 22

    इक्ष्वाकूणाम् त्वया तुल्यम् सुहृदम् न उपलक्षये । यथा दशरथो राजा माम् न शोचेत् तथा कुरु

  23. Verse 23

    शोक उपहत चेताः च वृद्धः च जगती पतिः । काम भार अवसन्नः च तस्मात् एतत् ब्रवीमि ते

  24. Verse 24

    यद् यद् आज्ञापयेत् किम्चित् स महात्मा मही पतिः । कैकेय्याः प्रिय काम अर्थम् कार्यम् तत् अविकान्क्षया

  25. Verse 25

    एतत् अर्थम् हि राज्यानि प्रशासति नर ईश्वराः । यद् एषाम् सर्व कृत्येषु मनो न प्रतिहन्यते

  26. Verse 26

    यद्यथा स महा राजो न अलीकम् अधिगच्चति । न च ताम्यति दुह्खेन सुमन्त्र कुरु तत् तथा

  27. Verse 27

    अदृष्ट दुह्खम् राजानम् वृद्धम् आर्यम् जित इन्द्रियम् । ब्रूयाः त्वम् अभिवाद्य एव मम हेतोर् इदम् वचः

  28. Verse 28

    न एव अहम् अनुशोचामि लक्ष्मणो न च मैथिली । अयोध्यायाः च्युताः च इति वने वत्स्यामह इति वा (महेति!)

  29. Verse 29

    चतुर् दशसु वर्षेषु निवृत्तेषु पुनः पुनः । लक्ष्मणम् माम् च सीताम् च द्रक्ष्यसि क्षिप्रम् आगतान्

  30. Verse 30

    एवम् उक्त्वा तु राजानम् मातरम् च सुमन्त्र मे । अन्याः च देवीः सहिताः कैकेयीम् च पुनः पुनः

  31. Verse 31

    आरोग्यम् ब्रूहि कौसल्याम् अथ पाद अभिवन्दनम् । सीताया मम च आर्यस्य वचनाल् लक्ष्मणस्य च

  32. Verse 32

    ब्रूयाः च हि महा राजम् भरतम् क्षिप्रम् आनय । आगतः च अपि भरतः स्थाप्यो नृप मते पदे

  33. Verse 33

    भरतम् च परिष्वज्य यौवराज्ये अभिषिच्य च । अस्मत् सम्तापजम् दुह्खम् न त्वाम् अभिभविष्यति

  34. Verse 34

    भरतः च अपि वक्तव्यो यथा राजनि वर्तसे । तथा मातृषु वर्तेथाः सर्वास्व् एव अविशेषतः

  35. Verse 35

    यथा च तव कैकेयी सुमित्रा च अविशेषतः । तथैव देवी कौसल्या मम माता विशेषतः

  36. Verse 36

    तातस्य प्रियकामेन यौवराज्यमपेक्षता । लोकयोरुभयोः शक्यम् त्वया यत्सुखमेधितुम्

  37. Verse 37

    निवर्त्यमानो रामेण सुमन्त्रः शोक कर्शितः । तत् सर्वम् वचनम् श्रुत्वा स्नेहात् काकुत्स्थम् अब्रवीत्

  38. Verse 38

    यद् अहम् न उपचारेण ब्रूयाम् स्नेहात् अविक्लवः । भक्तिमान् इति तत् तावद् वाक्यम् त्वम् क्षन्तुम् अर्हसि

  39. Verse 39

    कथम् हि त्वद् विहीनो अहम् प्रतियास्यामि ताम् पुरीम् । तव तात वियोगेन पुत्र शोक आकुलाम् इव

  40. Verse 40

    सरामम् अपि तावन् मे रथम् दृष्ट्वा तदा जनः । विना रामम् रथम् दृष्ट्वा विदीर्येत अपि सा पुरी

  41. Verse 41

    दैन्यम् हि नगरी गच्चेद् दृष्ट्वा शून्यम् इमम् रथम् । सूत अवशेषम् स्वम् सैन्यम् हत वीरम् इव आहवे

  42. Verse 42

    दूरे अपि निवसन्तम् त्वाम् मानसेन अग्रतः स्थितम् । चिन्तयन्त्यो अद्य नूनम् त्वाम् निराहाराः कृताः प्रजाः

  43. Verse 43

    दृष्टं तद्धि त्वया राम! यादृशम् त्वत्प्रवासने । प्रजानाम् सम्कुलम् वृत्तम् त्वच्छोकक्लान्तचेतसाम्

  44. Verse 44

    आर्त नादो हि यः पौरैः मुक्तः तत् विप्रवासने । रथस्थम् माम् निशाम्य एव कुर्युः शत गुणम् ततः

  45. Verse 45

    अहम् किम् च अपि वक्ष्यामि देवीम् तव सुतः मया । नीतः असौ मातुल कुलम् सम्तापम् मा कृथाइति

  46. Verse 46

    असत्यम् अपि न एव अहम् ब्रूयाम् वचनम् ईदृशम् । कथम् अप्रियम् एव अहम् ब्रूयाम् सत्यम् इदम् वचः

  47. Verse 47

    मम तावन् नियोगस्थाः त्वद् बन्धु जन वाहिनः । कथम् रथम् त्वया हीनम् प्रवक्ष्यन्ति हय उत्तमाः

  48. Verse 48

    तन्न शक्ष्याम्यहम् गन्तुमयोध्याम् त्वदृतेऽनघ । वनवासानुयानाय मामनुज्ञातुमर्हसि

  49. Verse 49

    यदि मे याचमानस्य त्यागम् एव करिष्यसि । सरथो अग्निम् प्रवेक्ष्यामि त्यक्त मात्रैह त्वया

  50. Verse 50

    भविष्यन्ति वने यानि तपो विघ्न कराणि ते । रथेन प्रतिबाधिष्ये तानि सत्त्वानि राघव

  51. Verse 51

    तत् कृतेन मया प्राप्तम् रथ चर्या कृतम् सुखम् । आशम्से त्वत् कृतेन अहम् वन वास कृतम् सुखम्

  52. Verse 52

    प्रसीद इच्चामि ते अरण्ये भवितुम् प्रत्यनन्तरः । प्रीत्या अभिहितम् इच्चामि भव मे पत्यनन्तरः

  53. Verse 53

    इमे चापि हया वीर यदि ते वनवासिनः । परिचर्याम् करिष्यन्ति प्राप्स्यन्ति परमाम् गतिम्

  54. Verse 54

    तव शुश्रूषणम् मूर्ध्ना करिष्यामि वने वसन् । अयोध्याम् देव लोकम् वा सर्वथा प्रजहाम्य् अहम्

  55. Verse 55

    न हि शक्या प्रवेष्टुम् सा मया अयोध्या त्वया विना । राज धानी महा इन्द्रस्य यथा दुष्कृत कर्मणा

  56. Verse 56

    वन वासे क्षयम् प्राप्ते मम एष हि मनो रथः । यद् अनेन रथेन एव त्वाम् वहेयम् पुरीम् पुनः

  57. Verse 57

    चतुर् दश हि वर्षाणि सहितस्य त्वया वने । क्षण भूतानि यास्यन्ति शतशः तु ततः अन्यथा

  58. Verse 58

    भृत्य वत्सल तिष्ठन्तम् भर्तृ पुत्र गते पथि । भक्तम् भृत्यम् स्थितम् स्थित्याम् त्वम् न माम् हातुम् अर्हसि

  59. Verse 59

    एवम् बहु विधम् दीनम् याचमानम् पुनः पुनः । रामः भृत्य अनुकम्पी तु सुमन्त्रम् इदम् अब्रवीत्

  60. Verse 60

    जानामि परमाम् भक्तिम् मयि ते भर्तृ वत्सल । शृणु च अपि यद् अर्थम् त्वाम् प्रेषयामि पुरीम् इतः

  61. Verse 61

    नगरीम् त्वाम् गतम् दृष्ट्वा जननी मे यवीयसी । कैकेयी प्रत्ययम् गच्चेद् इति रामः वनम् गतः

  62. Verse 62

    परितुष्टा हि सा देवि वन वासम् गते मयि । राजानम् न अतिशन्केत मिथ्या वादी इति धार्मिकम्

  63. Verse 63

    एष मे प्रथमः कल्पो यद् अम्बा मे यवीयसी । भरत आरक्षितम् स्फीतम् पुत्र राज्यम् अवाप्नुयात्

  64. Verse 64

    मम प्रिय अर्थम् राज्ञः च सरथः त्वम् पुरीम् व्रज । सम्दिष्टः च असि या अनर्थाम्स् ताम्स् तान् ब्रूयाः तथा तथा

  65. Verse 65

    इति उक्त्वा वचनम् सूतम् सान्त्वयित्वा पुनः पुनः । गुहम् वचनम् अक्लीबम् रामः हेतुमद् अब्रवीत्

  66. Verse 66

    नेदानीम् गुह योग्योऽयम् वसो मे सजने वने । अवश्यम् ह्याश्रमे वासह् कर्तव्यस्तद्गतो विधिः

  67. Verse 67

    सोऽहम् गृहीत्वा नियमम् तपस्विजनभूषणम् । हितकामः पितुर्भूयः सीताया लक्ष्मणस्य च

  68. Verse 68

    जटाः कृत्वा गमिष्यामि न्यग्रोध क्षीरम् आनय । तत् क्षीरम् राज पुत्राय गुहः क्षिप्रम् उपाहरत्

  69. Verse 69

    लक्ष्मणस्य आत्मनः चैव रामः तेन अकरोज् जटाः । दीर्घबाहुर्नरव्याघ्रो जटिलत्व मधारयत्

  70. Verse 70

    तौ तदा चीर वसनौ जटा मण्डल धारिणौ । अशोभेताम् ऋषि समौ भ्रातरौ राम रक्ष्मणौ

  71. Verse 71

    ततः वैखानसम् मार्गम् आस्थितः सह लक्ष्मणः । व्रतम् आदिष्टवान् रामः सहायम् गुहम् अब्रवीत्

  72. Verse 72

    अप्रमत्तः बले कोशे दुर्गे जन पदे तथा । भवेथा गुह राज्यम् हि दुरारक्षतमम् मतम्

  73. Verse 73

    ततः तम् समनुज्ञाय गुहम् इक्ष्वाकु नन्दनः । जगाम तूर्णम् अव्यग्रः सभार्यः सह लक्ष्मणः

  74. Verse 74

    स तु दृष्ट्वा नदी तीरे नावम् इक्ष्वाकु नन्दनः । तितीर्षुः शीघ्रगाम् गन्गाम् इदम् लक्ष्मणम् अब्रवीत्

  75. Verse 75

    आरोह त्वम् नर व्याघ्र स्थिताम् नावम् इमाम् शनैः । सीताम् च आरोपय अन्वक्षम् परिगृह्य मनस्विनीम्

  76. Verse 76

    स भ्रातुः शासनम् श्रुत्वा सर्वम् अप्रतिकूलयन् । आरोप्य मैथिलीम् पूर्वम् आरुरोह आत्मवाम्स् ततः

  77. Verse 77

    अथ आरुरोह तेजस्वी स्वयम् लक्ष्मण पूर्वजः । ततः निषाद अधिपतिर् गुहो ज्ञातीन् अचोदयत्

  78. Verse 78

    राघवोऽपि महातेजा नावमारुह्य ताम् ततः । ब्रह्मवत् क्षत्रवच्चैव जजाप हितमात्मनः

  79. Verse 79

    आचम्य च यथाशास्त्रम् नदीम् ताम् सह सीतया । प्राणमत्प्रीतिसम्हृष्टो लक्ष्मणश्चामितप्रभः

  80. Verse 80

    अनुज्ञाय सुमन्त्रम् च सबलम् चैव तम् गुहम् । आस्थाय नावम् रामः तु चोदयाम् आस नाविकान्

  81. Verse 81

    ततः तैः चोदिता सा नौः कर्ण धार समाहिता । शुभ स्फ्य वेग अभिहता शीघ्रम् सलिलम् अत्यगात्

  82. Verse 82

    मध्यम् तु समनुप्राप्य भागीरथ्याः तु अनिन्दिता । वैदेही प्रान्जलिर् भूत्वा ताम् नदीम् इदम् अब्रवीत्

  83. Verse 83

    पुत्रः दशरथस्य अयम् महा राजस्य धीमतः । निदेशम् पालयतु एनम् गन्गे त्वद् अभिरक्षितः

  84. Verse 84

    चतुर् दश हि वर्षाणि समग्राणि उष्य कानने । भ्रात्रा सह मया चैव पुनः प्रत्यागमिष्यति

  85. Verse 85

    ततः त्वाम् देवि सुभगे क्षेमेण पुनर् आगता । यक्ष्ये प्रमुदिता गन्गे सर्व काम समृद्धये

  86. Verse 86

    त्वम् हि त्रिपथगा देवि ब्रह्म लोकम् समीक्षसे । भार्या च उदधि राजस्य लोके अस्मिन् सम्प्रदृश्यसे

  87. Verse 87

    सा त्वाम् देवि नमस्यामि प्रशम्सामि च शोभने । प्राप्त राज्ये नर व्याघ्र शिवेन पुनर् आगते

  88. Verse 88

    गवाम् शत सहस्राणि वस्त्राणि अन्नम् च पेशलम् । ब्राह्मणेभ्यः प्रदास्यामि तव प्रिय चिकीर्षया

  89. Verse 89

    सुराघटसहस्रेण माम्सभूतोदनेन च । यक्ष्ये त्वाम् प्रयता देवि पुरीम् पुनरुपागता

  90. Verse 90

    यानि त्वत्तीरवासीनि दैवतानि च सन्ति हि । तानि सर्वाणि यक्ष्यामि तीर्थान्यायतनानि च

  91. Verse 91

    पुनरेव महाबाउर्मया भ्रात्रा च सम्गतः । अयोध्याम् वनवासात्तु प्रविशत्वनघोऽनघे

  92. Verse 92

    तथा सम्भाषमाणा सा सीता गन्गाम् अनिन्दिता । दक्षिणा दक्षिणम् तीरम् क्षिप्रम् एव अभ्युपागमत्

  93. Verse 93

    तीरम् तु समनुप्राप्य नावम् हित्वा नर ऋषभः । प्रातिष्ठत सह भ्रात्रा वैदेह्या च परम् तपः

  94. Verse 94

    अथ अब्रवीन् महा बाहुः सुमित्र आनन्द वर्धनम् । भव सम्रक्षणार्थाय सजने विजनेऽपि वा

  95. Verse 95

    अवश्यम् रक्षणम् कार्यमदृष्टे विजने वने । अग्रतः गच्च सौमित्रे सीता त्वाम् अनुगच्चतु

  96. Verse 96

    पृष्ठतः अहम् गमिष्यामि त्वाम् च सीताम् च पालयन् । अद्य दुह्खम् तु वैदेही वन वासस्य वेत्स्यति

  97. Verse 97

    न हि तावदतिक्रान्ता सुकरा काचन क्रिया । अद्य दुःखम् तु वैदेही वनवासस्य वेत्स्यति

  98. Verse 98

    प्रणष्टजनसम्बाधम् क्षेत्रारामविवर्बितम् । विषमम् च प्रपातम् च वनमद्य प्रवेक्ष्यति

  99. Verse 99

    श्रुत्वा रामस्य वचनम् प्रतिस्थे लक्ष्मण्Oऽग्रतः । अनन्तरम् च सीताया राघवो रघनन्धनः

  100. Verse 100

    गतम् तु गन्गा पर पारम् आशु । रामम् सुमन्त्रः प्रततम् निरीक्ष्य । अध्व प्रकर्षात् विनिवृत्त दृष्टिर् । र्मुमोच बाष्पम् व्यथितः तपस्वी

  101. Verse 101

    स लोकपालप्रतिमप्रभाववाम् । स्तीर्त्वा महात्मा वरदो महानदीम् । ततः समृद्धान् शुभसस्यमालिनः । क्रमेण वत्सान् मुदितानुपागमत्

  102. Verse 102

    तौ तत्र हत्वा चतुरः महा मृगान् । वराहम् ऋश्यम् पृषतम् महा रुरुम् । आदाय मेध्यम् त्वरितम् बुभुक्षितौ। वासाय काले ययतुर् वनः पतिम्