Lipi
Sign in
Classic reading room ↗

Sarga 51

Ayodhya Kanda

27 verses · free forever

Listen to this section

Uses your saved HI voice · Narration settings

  1. Verse 1

    '''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकपञ्चाशः सर्गः ॥२-५१॥''' तम् जाग्रतम् अदम्भेन भ्रातुर् अर्थाय लक्ष्मणम् । गुहः सम्ताप सम्तप्तः राघवम् वाक्यम् अब्रवीत्

  2. Verse 2

    इयम् तात सुखा शय्या त्वद् अर्थम् उपकल्पिता । प्रत्याश्वसिहि साध्व् अस्याम् राज पुत्र यथा सुखम्

  3. Verse 3

    उचितः अयम् जनः सर्वः क्लेशानाम् त्वम् सुख उचितः । गुप्ति अर्थम् जागरिष्यामः काकुत्स्थस्य वयम् निशाम्

  4. Verse 4

    न हि रामात् प्रियतरः मम अस्ति भुवि कश्चन । ब्रवीम्य् एतत् अहम् सत्यम् सत्येन एव च ते शपे

  5. Verse 5

    अस्य प्रसादात् आशम्से लोके अस्मिन् सुमहद् यशः । धर्म अवाप्तिम् च विपुलाम् अर्थ अवाप्तिम् च केवलाम्

  6. Verse 6

    सो अहम् प्रिय सखम् रामम् शयानम् सह सीतया । रक्षिष्यामि धनुष् पाणिः सर्वतः ज्ञातिभिः सह

  7. Verse 7

    न हि मे अविदितम् किम्चित् वने अस्मिमः चरतः सदा । चतुर् अन्गम् हि अपि बलम् सुमहत् प्रसहेमहि

  8. Verse 8

    लक्ष्मणः तम् तदा उवाच रक्ष्यमाणाः त्वया अनघ । न अत्र भीता वयम् सर्वे धर्मम् एव अनुपश्यता

  9. Verse 9

    कथम् दाशरथौ भूमौ शयाने सह सीतया । शक्या निद्रा मया लब्धुम् जीवितम् वा सुखानि वा

  10. Verse 10

    यो न देव असुरैः सर्वैः शक्यः प्रसहितुम् युधि । तम् पश्य सुख सम्विष्टम् तृणेषु सह सीतया

  11. Verse 11

    यो मन्त्र तपसा लब्धो विविधैः च परिश्रमैः । एको दशरथस्य एष पुत्रः सदृश लक्षणः

  12. Verse 12

    अस्मिन् प्रव्रजितः राजा न चिरम् वर्तयिष्यति । विधवा मेदिनी नूनम् क्षिप्रम् एव भविष्यति

  13. Verse 13

    विनद्य सुमहा नादम् श्रमेण उपरताः स्त्रियः । निर्घोष उपरतम् तात मन्ये राज निवेशनम्

  14. Verse 14

    कौसल्या चैव राजा च तथैव जननी मम । न आशम्से यदि जीवन्ति सर्वे ते शर्वरीम् इमाम्

  15. Verse 15

    जीवेद् अपि हि मे माता शत्रुघ्नस्य अन्ववेक्षया । तत् दुह्खम् यत् तु कौसल्या वीरसूर् विनशिष्यति

  16. Verse 16

    अनुरक्त जन आकीर्णा सुख आलोक प्रिय आवहा । राज व्यसन सम्सृष्टा सा पुरी विनशिष्यति

  17. Verse 17

    कथम् पुत्रम् महात्मानम् ज्येष्ठम् प्रियमपस्यतः । शरीरम् धारयुष्यान्ति प्राणा राज्ञो महात्मनः

  18. Verse 18

    विनष्टे नृपतौ पश्चात्कौसल्या विनशिष्यति । अनन्तरम् च माताऽपि मम नाशमुपैष्यति

  19. Verse 19

    अतिक्रान्तम् अतिक्रान्तम् अनवाप्य मनोरथम् । राज्ये रामम् अनिक्षिप्य पिता मे विनशिष्यति

  20. Verse 20

    सिद्ध अर्थाः पितरम् वृत्तम् तस्मिन् काले हि उपस्थिते । प्रेत कार्येषु सर्वेषु सम्स्करिष्यन्ति भूमिपम्

  21. Verse 21

    रम्य चत्वर सम्स्थानाम् सुविभक्त महा पथाम् । हर्म्य प्रसाद सम्पन्नाम् गणिका वर शोभिताम्

  22. Verse 22

    रथ अश्व गज सम्बाधाम् तूर्य नाद विनादिताम् । सर्व कल्याण सम्पूर्णाम् हृष्ट पुष्ट जन आकुलाम्

  23. Verse 23

    आराम उद्यान सम्पन्नाम् समाज उत्सव शालिनीम् । सुखिता विचरिष्यन्ति राज धानीम् पितुर् मम

  24. Verse 24

    अपि जीवेद्धशरथो वनवासात्पुनर्वयम् । प्रत्यागम्य महात्मानमपि पश्येम सुव्रतम्

  25. Verse 25

    अपि सत्य प्रतिज्ञेन सार्धम् कुशलिना वयम् । निवृत्ते वन वासे अस्मिन्न् अयोध्याम् प्रविशेमहि

  26. Verse 26

    परिदेवयमानस्य दुह्ख आर्तस्य महात्मनः । तिष्ठतः राज पुत्रस्य शर्वरी सा अत्यवर्तत

  27. Verse 27

    तथा हि सत्यम् ब्रुवति प्रजा हिते । नर इन्द्र पुत्रे गुरु सौहृदात् गुहः । मुमोच बाष्पम् व्यसन अभिपीडितः । ज्वरा आतुरः नागैव व्यथा आतुरः