Lipi
Sign in
Classic reading room ↗

Sarga 49

Ayodhya Kanda

18 verses · free forever

Listen to this section

Uses your saved HI voice · Narration settings

  1. Verse 1

    ]] रामः अपि रात्रि शेषेण तेन एव महद् अन्तरम् । जगाम पुरुष व्याघ्रः पितुर् आज्ञाम् अनुस्मरन्

  2. Verse 2

    तथैव गच्चतः तस्य व्यपायात् रजनी शिवा । उपास्य स शिवाम् सम्ध्याम् विषय अन्तम् व्यगाहत

  3. Verse 3

    ग्रामान् विकृष्ट सीमान् तान् पुष्पितानि वनानि च । पश्यन्न् अतिययौ शीघ्रम् शरैः इव हय उत्तमैः

  4. Verse 4

    शृण्वन् वाचो मनुष्याणाम् ग्राम सम्वास वासिनाम् । राजानम् धिग् दशरथम् कामस्य वशम् आगतम्

  5. Verse 5

    हा नृशम्स अद्य कैकेयी पापा पाप अनुबन्धिनी । तीक्ष्णा सम्भिन्न मर्यादा तीक्ष्णे कर्मणि वर्तते

  6. Verse 6

    या पुत्रम् ईदृशम् राज्ञः प्रवासयति धार्मिकम् । वन वासे महा प्राज्ञम् सानुक्रोशम् अतन्द्रितम्

  7. Verse 7

    कथम् नाम महाभागा सीता जनकनन्दिनी । सदा सुखेष्वभिरता दुःखान्यनुभविष्यति

  8. Verse 8

    अहो दशरथो राजा निस्नेहः स्वसुत प्रियम् । प्रजानामनघम् रामम् परित्यक्तुमिहेच्छति

  9. Verse 9

    एता वाचो मनुष्याणाम् ग्राम सम्वास वासिनाम् । शृण्वन्न् अति ययौ वीरः कोसलान् कोसल ईश्वरः

  10. Verse 10

    ततः वेद श्रुतिम् नाम शिव वारि वहाम् नदीम् । उत्तीर्य अभिमुखः प्रायात् अगस्त्य अध्युषिताम् दिशम्

  11. Verse 11

    गत्वा तु सुचिरम् कालम् ततः शीत जलाम् नदीम् । गोमतीम् गोयुत अनूपाम् अतरत् सागरम् गमाम्

  12. Verse 12

    गोमतीम् च अपि अतिक्रम्य राघवः शीघ्रगैः हयैः । मयूर हम्स अभिरुताम् ततार स्यन्दिकाम् नदीम्

  13. Verse 13

    स महीम् मनुना राज्ञा दत्ताम् इक्ष्वाकवे पुरा । स्फीताम् राष्ट्र आवृताम् रामः वैदेहीम् अन्वदर्शयत्

  14. Verse 14

    सूतैति एव च आभाष्य सारथिम् तम् अभीक्ष्णशः । हम्स मत्त स्वरः श्रीमान् उवाच पुरुष ऋषभः

  15. Verse 15

    कदा अहम् पुनर् आगम्य सरय्वाः पुष्पिते वने । मृगयाम् पर्याटष्यामि मात्रा पित्रा च सम्गतः

  16. Verse 16

    न अत्यर्थम् अभिकान्क्षामि मृगयाम् सरयू वने । रतिर् हि एषा अतुला लोके राज ऋषि गण सम्मता

  17. Verse 17

    राजर्षीणाम् हि लोकेऽस्मिन् रत्यर्थम् मृगया वने । काले कृताम् ताम् मनुजैर्धन्विनामभिकाङ्क्षिताम्

  18. Verse 18

    स तम् अध्वानम् ऐक्ष्वाकः सूतम् मधुरया गिरातम् तम् अर्थम् अभिप्रेत्य ययौवाक्यम् उदीरयन्