Lipi
Sign in
Classic reading room ↗

Sarga 43

Bala Kanda

41 verses · free forever

Listen to this section

Uses your saved HI voice · Narration settings

  1. Verse 1

    '''श्रीमद्वाल्मीकियरामायणे बालकाण्डे त्रिचत्वारिंशः सर्गः ॥१-४३॥''' देवदेवे गते तस्मिन् सोऽङ्गुष्ठाग्रनिपीडिताम् । कृत्वा वसुमतीं राम वत्सरं समुपासत

  2. Verse 2

    अथ संवत्सरे पूर्णे सर्वलोकनमस्कृतः । उमापतिः पशुपती राजानमिदमब्रवीत्

  3. Verse 3

    प्रीतस्तेऽहं नरश्रेष्ठ करिष्यामि तव प्रियम् । शिरसा धारयिष्यामि शैलराजसुतामहम्

  4. Verse 4

    ततो हैमवती ज्येष्ठा सर्वलोकनमस्कृता । तदा सातिमहद्रूपं कृत्वा वेगं च दुःसहम्

  5. Verse 5

    आकाशादपतद् राम शिवे शिवशिरस्युत । अचिन्तयच्च सा देवी गङ्गा परमदुर्धरा

  6. Verse 6

    विशाम्यहं हि पातालं स्त्रोतसा गृह्य शङ्करम् । तस्यावलेपनं ज्ञात्वा क्रुद्धस्तु भगवान् हरः

  7. Verse 7

    तिरोभावयितुं बुद्धिं चक्रे त्रिनयनस्तदा । सा तस्मिन् पतिता पुण्या पुण्ये रुद्रस्य मूर्धनि

  8. Verse 8

    हिमवत्प्रतिमे राम जटामण्डलगह्वरे । सा कथंचिन्महीं गन्तुं नाशक्नोद् यत्नमास्थिता

  9. Verse 9

    नैव सा निर्गमं लेभे जटामण्डलमन्ततः । तत्रैवाबभ्रमद् देवी संवत्सरगणान् बहून्

  10. Verse 10

    तामपश्यत् पुनस्तत्र तपः परममास्थितः । स तेन तोषितश्चासीदत्यन्तं रघुनन्दन

  11. Verse 11

    विससर्ज ततो गङ्गां हरो बिन्दुसरः प्रति । तस्यां विसृज्यमानायां सप्त स्रोतांसि जज्ञिरे

  12. Verse 12

    ह्लादिनी पावनी चैव नलिनी च तथैव च । तिस्रः प्राचीं दिशं जग्मुर्गङ्गाः शिवजलाः शुभाः

  13. Verse 13

    सुचक्षुश्चैव सीता च सिन्धुश्चैव महानदी । तिस्रश्चैता दिशं जग्मुः प्रतीचीं तु दिशं शुभाः

  14. Verse 14

    सप्तमी चान्वगात् तासां भगीरथरथं तदा । भगीरथोऽपि राजर्षिर्दिव्यं स्यंदनमास्थितः

  15. Verse 15

    प्रायादग्रे महातेजा गङ्गा तं चाप्यनुव्रजत् । गगनाच्छङ्करशिरस्ततो धरणिमागता

  16. Verse 16

    असर्पत जलं तत्र तीव्रशब्दपुरस्कृतम् । मत्स्यकच्छपसङ्घैश्च शिंशुमारगणैस्तथा

  17. Verse 17

    पतद्भिः पतितैश्चैव व्यरोचत वसुंधरा । ततो देवर्षिगन्धर्वा यक्षसिद्धगणास्तथा

  18. Verse 18

    व्यलोकयन्त ते तत्र गगनाद् गां गतां तदा । विमानैर्नगराकारैर्हयैर्गजवरैस्तदा

  19. Verse 19

    पारिप्लवगताश्चापि देवतास्तत्र विष्ठिताः । तदद्भुतमिमं लोके गङ्गावतरमुत्तमम्

  20. Verse 20

    दिदृक्षवो देवगणाः समीयुरमितौजसः । सम्पतद्भिः सुरगणैस्तेषां चाभरणौजसा

  21. Verse 21

    शतादित्यमिवाभाति गगनं गततोयदम् । शिंशुमारोरगगणैर्मीनैरपि च चञ्चलैः

  22. Verse 22

    विद्युद्भिरिव विक्षिप्तैराकाशमभवत् तदा । पाण्डुरैः सलिलोत्पीडैः कीर्यमाणैः सहस्रधा

  23. Verse 23

    शारदाभ्रैरिवाकीर्णं गगनं हंससम्प्लवैः । क्वचिद् द्रुततरं याति कुटिलं क्वचिदायतम्

  24. Verse 24

    विनतं क्वचिदुद्भूतं क्वचिद् याति शनैः शनैः । सलिलेनैव सलिलं क्वचिदभ्याहतं पुनः

  25. Verse 25

    मुहुरूर्ध्वपथं गत्वा पपात वसुधां पुनः । तच्छङ्करशिरोभ्रष्टं भ्रष्टं भूमितले पुनः

  26. Verse 26

    व्यरोचत तदा तोयं निर्मलं गतकल्मषम् । तत्रर्षिगणगन्धर्वा वसुधातलवासिनः

  27. Verse 27

    भवाङ्गपतितं तोयं पवित्रमिति पस्पृशुः । शापात् प्रपतिता ये च गगनाद् वसुधातलम्

  28. Verse 28

    कृत्वा तत्राभिषेकं ते बभूवुर्गतकल्मषाः । धूपपापाः पुनस्तेन तोयेनाथ शुभान्विताः

  29. Verse 29

    पुनराकाशमाविश्य स्वाँल्लोकान् प्रतिपेदिरे । मुमुदे मुदितो लोकस्तेन तोयेन भास्वता

  30. Verse 30

    कृताभिषेको गङ्गायां बभूव गतकल्मषः । भगीरथो हि राजर्षिर्दिव्यं स्यन्दनमास्थितः

  31. Verse 31

    प्रायादग्रे महाराजास्तं गङ्गा पृष्ठतोऽन्वगात् । देवाः सर्षिगणाः सर्वे दैत्यदानवराक्षसाः

  32. Verse 32

    गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः । सर्वाश्चाप्सरसो राम भगीरथरथानुगाः

  33. Verse 33

    गङ्गामन्वगमन् प्रीताः सर्वे जलचराश्च ये । यतो भगीरथो राजा ततो गङ्गा यशस्विनी

  34. Verse 34

    जगाम सरितां श्रेष्ठा सर्वपापप्रणाशिनी । ततो हि यजमानस्य जह्नोरद्भुतकर्मणः

  35. Verse 35

    गङ्गा सम्प्लावयामास यज्ञवाटं महत्मनः । तस्यावलेपनं ज्ञात्वा क्रुद्धो जह्नुश्च राघव

  36. Verse 36

    अपिबत् तु जलं सर्वं गङ्गयाः परमाद्भुतम् । ततो देवाः सगन्घर्वा ऋषयश्च सुविस्मिताः

  37. Verse 37

    पूजयन्ति महात्मानं जह्नुं पुरुषसत्तमम् । गङ्गां चापि नयन्ति स्म दुहितृत्वे महात्मनः

  38. Verse 38

    ततस्तुष्टो महातेजाः श्रोत्राभ्यामसृजत् प्रभुः । तस्माज्जह्नुसुता गङ्गा प्रोच्यते जाह्नवीति च

  39. Verse 39

    जगाम च पुनर्गङ्गा भगीरथरथानुगा । सागरं चापि सम्प्रप्ता सा सरित्प्रवरा तदा

  40. Verse 40

    रसातलमुपागच्छत् सिद्ध्यर्थं तस्य कर्मणः । भगीरथोऽपि राजार्षिर्गङ्गामादाय यत्नतः

  41. Verse 41

    पितमहान् भस्मकृतानपश्यद् गतचेतनः । अथ तद्भस्मनां राशिं गङ्गासलिलमुत्तमम् । प्लावयत् पूतपाप्मानः स्वर्गं प्राप्ता रघूत्तम