Lipi
Sign in
Classic reading room ↗

Sarga 44

Bala Kanda

23 verses · free forever

Listen to this section

Uses your saved HI voice · Narration settings

  1. Verse 1

    '''श्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुश्चत्वारिंशः सर्गः ॥१-४४॥''' स गत्वा सागरं राजा गङ्गायानुगतस्तदा । प्रविवेश तलं भूमेर्यत्र ते भस्मसात्कृताः

  2. Verse 2

    भस्मन्यथाप्लुते राम गङ्गायाः सलिलेन वै । सर्वलोकप्रभुर्ब्रह्मा राजानमिदमब्रवीत्

  3. Verse 3

    तारिता नरशार्दूल दिवं याताश्च च देववत् । षष्टिः पुत्रसहस्राणि सगरस्य महात्मनः

  4. Verse 4

    सागरस्य जलं लोके यावत्स्थास्यति पार्थिव । सगरस्यात्मजाः सर्वे दिवि स्थास्यन्ति देववत्

  5. Verse 5

    इयं च दुहिता ज्येष्ठा तव गङ्गा भविष्यति । त्वत्कृतेन च नाम्नाथ लोके स्थास्यति विश्रुता

  6. Verse 6

    गङ्गा त्रिपथगा नाम दिव्या भागीरथीति च । त्रीन् पथो भावयन्तीति तस्मात् त्रिपथगा स्मृता

  7. Verse 7

    पितामहानां सर्वेषां त्वमत्र मनुजाधिप । कुरुष्व सलिलं राजन् प्रतिज्ञामपवर्जय

  8. Verse 8

    पूर्वकेण हि ते राजंस्तेनातियशसा तदा । धर्मिणां प्रवरेणाथ नैष प्राप्तो मनोरथः

  9. Verse 9

    तथैवांशुमता तात लोकेऽप्रतिमतेजसा । गङ्गां प्रार्थयता नेतुं प्रतिज्ञा नापवर्जिता

  10. Verse 10

    राजर्षिणा गुणवता महर्षिसमतेजसा । मत्तुल्यतपसा चैव क्षत्रधर्मस्थितेन च

  11. Verse 11

    दिलीपेन महाभाग तव पित्रातितेजसा । पुनर्न शकिता नेतुं गङ्गां प्रार्थयतानघ

  12. Verse 12

    सा त्वया समतिक्रान्ता प्रतिज्ञा पुरुषर्षभ । प्राप्तोऽसि परमं लोके यशः परमसम्मतम्

  13. Verse 13

    तच्च गङ्गावतरणं त्वया कृतमरिंदम । अनेन च भवान् प्राप्तो धर्मस्यायतनं महत्

  14. Verse 14

    प्लावयस्व त्वमात्मानं नरोत्तम सदोचिते । सलिले पुरुषश्रेष्ठ शुचिः पुण्यफलो भव

  15. Verse 15

    पितामहानां सर्वेषां कुरुष्व सलिलक्रियाम् । स्वस्ति तेऽस्तु गमिष्यामि स्वं लोकं गम्यतां नृप

  16. Verse 16

    इत्येवमुक्त्वा देवेशः सर्वलोकपितामहः यथागतं तथागच्चद् देवलोकं महायशाः

  17. Verse 17

    भगीरथस्तु राजर्षिः कृत्वा सलिलमुत्तमम् यथाक्रमं यथान्यायं सागराणां महायशाः

  18. Verse 18

    कृतोदकः शुची राजा स्वपुरं प्रविवेश ह । समृद्धार्थो नरश्रेष्ठ स्वराज्यं प्रशशास ह

  19. Verse 19

    प्रमुमोद च लोकस्तं नृपमासाद्य राघव । नष्टशोकः समृद्धार्थो बभूव विगतज्वरः

  20. Verse 20

    एष ते राम गंगाया विस्तरोऽभिहितो मया । स्वस्ति प्राप्नुहि भद्रं ते संध्याकालोऽतिवर्तते

  21. Verse 21

    धन्यं यशस्यमायुष्यं पुत्र्यं स्वर्ग्यमथापि च। यः श्रावयति विप्रेषु क्षत्रियेष्वितरेषु च

  22. Verse 22

    प्रीयन्ते पितरस्तस्य प्रीयन्ते दैवतानि च । इदमाख्यानमायुष्यं गंगावतरणं शुभम्

  23. Verse 23

    यः शृणोति च काकुत्स्थ सर्वान् कामानवाप्नुयात् । सर्वे पापाः प्रणश्यन्ति आयुः कीर्तिश्च वर्धते