Lipi
Sign in
Classic reading room ↗

Sarga 42

Bala Kanda

25 verses · free forever

Listen to this section

Uses your saved HI voice · Narration settings

  1. Verse 1

    '''श्रीमद्वाल्मीकियरामायणे बालकाण्डे द्विचत्वारिंशः सर्गः ॥१-४२॥''' कालधर्मं गते राम सगरे प्रकृतीजनाः । राजानं रोचयामासुरंशुमन्तं सुधार्मिकम्

  2. Verse 2

    स राजा सुमहानासीदंशुमान् रघुनन्दन । तस्य पुत्रो महानासीद् दिलीप इति विश्रुतः

  3. Verse 3

    तस्मै राज्यं समादिश्य दिलीपे रघुनन्दन । हिमवच्छिखरे रम्ये तपस्तेपे सुदारुणम्

  4. Verse 4

    द्वात्रिंशच्छतसाहस्रं वर्षाणि सुमहायशाः । तपोवनगतो राजा स्वर्गं लेभे तपोधनः

  5. Verse 5

    दिलीपस्तु महातेजाः श्रुत्वा पैतामहं वधम् । दुःखोपहतया बुद्ध्या निश्चयं नाध्यगच्छत

  6. Verse 6

    कथं गङ्गावतरणं कथं तेषां जलक्रिया । तारयेयं कथं चैतानिति चिन्तापरोऽभवत्

  7. Verse 7

    तस्य चिन्तयतो नित्यं धर्मेण विदितात्मनः । पुत्रो भगीरथो नाम जज्ञे परमधार्मिकः

  8. Verse 8

    दिलीपस्तु महातेजा यज्ञैर्बहुभिरिष्टवान् । त्रिंशद्वर्षसहस्राणि राजा राज्यमकारयत्

  9. Verse 9

    अगत्वा निश्चयं राजा तेषामुद्धरणं प्रति । व्याधिना नरशार्दूल कालधर्ममुपेयिवान्

  10. Verse 10

    इन्द्रलोकं गतो राजा स्वार्जितेनैव कर्मणा । राज्ये भगीरथं पुत्रमभिषिच्य नरर्षभः

  11. Verse 11

    भगीरथस्तु राजर्षिर्धार्मिको रघुनन्दन । अनपत्यो महाराजः प्रजाकामः स च प्रजाः

  12. Verse 12

    मन्त्रिष्वाधाय तद् राज्यं गङ्गावतरणे रतः । तपो दीर्घं समातिष्ठद् गोकर्णे रघुनन्दन

  13. Verse 13

    ऊर्ध्वबाहुः पञ्चतपा मासाहारो जितेन्द्रियः । तस्य वर्षसहस्राणि घोरे तपसि तिष्ठतः

  14. Verse 15

    अतीतानि महाबाहो तस्य राज्ञो महात्मनः । सुप्रीतो भगवान् ब्रह्मा प्रजानां प्रभुरीश्वरः

  15. Verse 15

    ततः सुरगणैः सार्धमुपागम्य पितामहः । भगीरथं महात्मानं तप्यमानमथाब्रवीत्

  16. Verse 16

    भगीरथ महाराज प्रीतस्तेऽहं जनाधिप । तपसा च सुतप्तेन वरं वरय सुव्रत

  17. Verse 17

    तमुवाच महातेजाः सर्वलोकपितामहम् । भगीरथो महाबाहुः कृताञ्जलिपुटः स्थितः

  18. Verse 18

    यदि मे भगवान् प्रीतो यद्यस्ति तपसः फलम् । सगरस्यात्मजाः सर्वे मत्तः सलिलमाप्नुयुः

  19. Verse 19

    गङ्गायाः सलिलक्लिन्ने भस्मन्येषां महात्मनाम् । स्वर्गं गच्छेयुरत्यन्तं सर्वे च प्रपितामहाः

  20. Verse 20

    देव याचे ह संतत्यै नावसीदेत् कुलं च नः । इक्ष्वाकूणां कुले देव एष मेऽस्तु वरः परः

  21. Verse 21

    उक्तवाक्यं तु राजानं सर्वलोकपितामहः । प्रत्युवाच शुभां वाणीं मधुरां मधुराक्षराम्

  22. Verse 22

    मनोरथो महानेष भगीरथ महारथ । एवं भवतु भद्रं ते इक्ष्वाकुकुलवर्धन

  23. Verse 23

    इयं हैमवती ज्येष्ठा गङ्गा हिमवतः सुता । तां वै धारयितुं राजन् हरस्तत्र नियुज्यताम्

  24. Verse 24

    गङ्गायाः पतनं राजन् पृथिवी न सहिष्यते । तां वै धारयितुं राजन् नान्यं पश्यामि शूलिनः

  25. Verse 25

    तमेवमुक्त्वा राजानं गङ्गां चाभाष्य लोककृत् । जगाम त्रिदिवं देवैः सर्वैः सह मरुद्गणैः