Lipi
Sign in
Classic reading room ↗

Sarga 41

Bala Kanda

26 verses · free forever

Listen to this section

Uses your saved HI voice · Narration settings

  1. Verse 1

    '''श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकचत्वारिंशः सर्गः ॥१-४१॥''' पुत्रांश्चिरगताञ्ज्ञात्वा सगरो रघुनन्दन । नप्तारमब्रवीद् राजा दीप्यमानं स्वतेजसा

  2. Verse 2

    शूरश्च कृतविद्यश्च पूर्वैस्तुल्योऽसि तेजसा । पितॄणां गतिमन्विच्छ येन चाश्वोऽपवाहितः

  3. Verse 3

    अन्तर्भौमानि सत्त्वानि वीर्यवन्ति महान्ति च । तेषां तु प्रतिघातार्थं सासिं गृह्णीष्व कार्मुकम्

  4. Verse 4

    अभिवाद्याभिवाद्यांस्त्वं हत्वा विघ्नकरानपि । सिद्धार्थः संनिवर्तस्व मम यज्ञस्य पारगः

  5. Verse 5

    एवमुक्तोंऽशुमान् सम्यक् सगरेण महात्मना । धनुरादाय खड्गं च जगाम लघुविक्रमः

  6. Verse 6

    स खातं पितृभिर्मार्गमन्तर्भौमं महात्मभिः । प्रापद्यत नरश्रेष्ठ तेन राज्ञाभिचोदितः

  7. Verse 7

    देवदानवरक्षोभिः पिशाचपतगोरगैः । पूज्यमानं महातेजा दिशागजमपश्यत

  8. Verse 8

    स तं प्रदक्षिणं कृत्वा पृष्ट्वा चैव निरामयम् । पितॄन् स परिपप्रच्छ वाजिहर्तारमेव च

  9. Verse 9

    दिशागजस्तु तच्छ्रुत्वा प्रत्युवाच महामतिः । आसमञ्ज कृतार्थस्त्वं सहाश्वः शीघ्रमेष्यसि

  10. Verse 10

    तस्य तद्वचनं श्रुत्वा सर्वानेव दिशागजान् । यथाक्रमं यथान्यायं प्रष्टुं समुपचक्रमे

  11. Verse 11

    तैश्च सर्वैर्दिशापालैर्वाक्यज्ञैर्वाक्यकोविदैः । पूजितः सहयश्चैवागन्तासीत्यभिचोदितः

  12. Verse 12

    तेषां तद्वचनं श्रुत्वा जगाम लघुविक्रमः । भस्मराशीकृता यत्र पितरस्तस्य सागराः

  13. Verse 13

    स दुःखवशमापन्नस्त्वसमञ्जसुतस्तदा । चुक्रोश परमार्तस्तु वधात् तेषां सुदुःखितः

  14. Verse 14

    यज्ञियं च हयं तत्र चरन्तमविदूरतः । ददर्श पुरुषव्याघ्रो दुःखशोकसमन्वितः

  15. Verse 15

    स तेषां राजपुत्राणां कर्तुकामो जलक्रियाम् । स जलार्थी महातेजा न चापश्यज्जलाशयम्

  16. Verse 16

    विसार्य निपुणां दृष्टिं ततोऽपश्यत् खगाधिपम् । पितॄणां मातुलं राम सुपर्णमनिलोपमम्

  17. Verse 17

    स चैनमब्रवीद् वाक्यं वैनतेयो महाबलः । मा शुचः पुरुषव्याघ्र वधोऽयं लोकसम्मतः

  18. Verse 18

    कपिलेनाप्रमेयेण दग्धा हीमे महाबलाः । सलिलं नार्हसि प्राज्ञ दातुमेषां हि लौकिकम्

  19. Verse 19

    गङ्गा हिमवतो ज्येष्ठा दुहिता पुरुषर्षभ । तस्यां कुरु महाबाहो पितॄणां तु जल क्रियाम्

  20. Verse 20

    भस्मराशीकृतानेतान् प्लावयेल्लोकपावनी । तया क्लिन्नमिदं भस्म गङ्गया लोककान्तया । षष्टिं पुत्रसहस्राणि स्वर्गलोकं गमिष्यति

  21. Verse 21

    निर्गच्छाश्वं महाभाग संगृह्य पुरुषर्षभ। यज्ञं पैतामहं वीर निर्वर्तयितुमर्हसि

  22. Verse 22

    सुपर्णवचनं श्रुत्वा सोंऽशुमानतिवीर्यवान् । त्वरितं हयमादाय पुनरायान्महातपाः

  23. Verse 23

    ततो राजानमासाद्य दीक्षितं रघुनन्दन । न्यवेदयद् यथावृत्तं सुपर्णवचनं तथा

  24. Verse 24

    तच्छ्रुत्वा घोरसंकाशं वाक्यमंशुमतो नृपः । यज्ञं निर्वर्तयामास यथाकल्पं यथाविधि

  25. Verse 25

    स्वपुरं त्वगमच्छ्रीमानिष्टयज्ञो महीपतिः । गङ्गायाश्चागमे राजा निश्चयं नाध्यगच्छत

  26. Verse 26

    अगत्वा निश्चयं राजा कालेन महता महान् । त्रिंशद्वर्षसहस्राणि राज्यं कृत्वा दिवं गतः