Lipi
Sign in
Classic reading room ↗

Sarga 17

Bala Kanda

37 verses · free forever

Listen to this section

Uses your saved HI voice · Narration settings

  1. Verse 1

    '''श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्तदशः सर्गः ॥१-१७॥''' पुत्रत्वं तु गते विष्णौ राज्ञस्तस्य महात्मनः । उवाच देवताः सर्वाः स्वयम्भूर्भगवानिदम्

  2. Verse 2

    सत्यसंधस्य वीरस्य सर्वेषां नो हितैषिणः । विष्णोः सहायान् बलिनः सृजध्वं कामरूपिणः

  3. Verse 3

    मायाविदश्च शूरांश्च वायुवेगसमान् जवे । नयज्ञान् बुद्धिसम्पन्नान् विष्णुतुल्यपराक्रमान्

  4. Verse 4

    असंहार्यानुपायज्ञान् दिव्यसंहननान्वितान् । सर्वास्त्रगुणसम्पन्नानमृतप्राशनानिव

  5. Verse 5

    अप्सरस्सु च मुख्यासु गन्धर्वीणां तनूषु च । यक्षपन्नगकन्यासु ऋक्षविद्याधरीषु च

  6. Verse 6

    किन्नरीणां च गात्रेषु वानरीणां तनूषु च । सृजध्वं हरिरूपेण पुत्रांस्तुल्यपराक्रमान्

  7. Verse 7

    पूर्वम् एव मया सृष्टो जाम्बवान् ऋक्ष पुङ्गवः । जृम्भमाणस्य सहसा मम वक्रात् अजायत

  8. Verse 8

    ते तथोक्ता भगवता तत् प्रतिश्रुत्य शासनम् । जनयामासुरेवं ते पुत्रान् वानररूपिणः

  9. Verse 9

    ऋषयश्च महात्मानः सिद्धविद्याधरोरगाः । चारणाश्च सुतान् वीरान् ससृजुर्वनचारिणः

  10. Verse 10

    वानरेन्द्रं महेन्द्राभमिन्द्रो वालिनमात्मजम् । सुग्रीवं जनयामास तपनस्तपतां वरः

  11. Verse 11

    बृहस्पतिस्त्वजनयत् तारं नाम महाकपिम् । सर्ववानरमुख्यानां बुद्धिमन्तमनुत्तमम्

  12. Verse 12

    धनदस्य सुतः श्रीमान् वानरो गन्धमादनः । विश्वकर्मा त्वजनयन्नलं नाम महाकपिम्

  13. Verse 13

    पावकस्य सुतः श्रीमान् नीलोऽग्निसदृशप्रभः । तेजसा यशसा वीर्यादत्यरिच्यत वीर्यवान्

  14. Verse 14

    रूपद्रविणसम्पन्नावश्विनौ रूपसम्मतौ । मैन्दं च द्विविदं चैव जनयामासतुः स्वयम्

  15. Verse 15

    वरुणो जनयामास सुषेणं नाम वानरम् । शरभं जनयामास पर्जन्यस्तु महाबलः

  16. Verse 16

    मारुतस्यौरसः श्रीमान् हनुमान् नाम वानरः । वज्रसंहननोपेतो वैनतेयसमो जवे

  17. Verse 17

    सर्ववानरमुख्येषु बुद्धिमान् बलवानपि । ते सृष्टा बहुसाहस्रा दशग्रीववधोद्यताः

  18. Verse 18

    अप्रमेयबला वीरा विक्रान्ताः कामरूपिणः । ते गजाचलसंकाशा वपुष्मन्तो महाबलाः

  19. Verse 19

    ऋक्षवानरगोपुच्छाः क्षिप्रमेवाभिजज्ञिरे । यस्य देवस्य यद्रूपं वेषो यश्च पराक्रमः

  20. Verse 20

    अजायत समं तेन तस्य तस्य पृथक् पृथक् । गोलाङ्गूलीषु चोत्पन्नाः किंचिदुन्नतविक्रमाः

  21. Verse 21

    ऋक्षीषु च तथा जाता वानराः किन्नरीषु च । देवा महर्षिगन्धर्वास्तार्क्ष्ययक्षा यशस्विनः

  22. Verse 22

    नागाः किम्पुरुषाश्चैव सिद्धविद्याधरोरगाः । बहवो जनयामासुर्हृष्टास्तत्र सहस्रशः

  23. Verse 23

    चारणाश्च सुतान् वीरान् ससृजुर्वनचारिणः । वानरान् सुमहाकायान् सर्वान् वै वनचारिणः

  24. Verse 24

    अप्सरस्सु च मुख्यासु तथा विद्याधरीषु च । नागकन्यासु च तदा गन्धर्वीणां तनूषु च । कामरूपबलोपेता यथाकामविचारिणः

  25. Verse 25

    सिंहशार्दूलसदृशा दर्पेण च बलेन च । शिलाप्रहरणाः सर्वे सर्वे पादपयोधिनः

  26. Verse 26

    नखदंष्ट्रायुधाः सर्वे सर्वे सर्वास्त्रकोविदाः । विचालयेयुः शैलेन्द्रान् भेदयेयुः स्थिरान् द्रुमान्

  27. Verse 27

    क्षोभयेयुश्च वेगेन समुद्रं सरितां पतिम् । दारयेयुः क्षितिं पद्भ्यामाप्लवेयुर्महार्णवान्

  28. Verse 28

    नभस्तलं विशेयुश्च गृह्णीयुरपि तोयदान् । गृह्णीयुरपि मातङ्गान् मत्तान् प्रव्रजतो वने

  29. Verse 29

    नर्दमानांश्च नादेन पातयेयुर्विहङ्गमान् । ईदृशानां प्रसूतानि हरीणां कामरूपिणाम्

  30. Verse 30

    शतं शतसहस्राणि यूथपानां महात्मनाम् । ते प्रधानेषु यूथेषु हरीणां हरियूथपाः

  31. Verse 31

    बभूवुर्यूथपश्रेष्ठान् वीरांश्चाजनयन् हरीन् । अन्ये ऋक्षवतः प्रस्थानुपतस्थुः सहस्रशः

  32. Verse 32

    अन्ये नानाविधाञ्छैलान् काननानि च भेजिरे । सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम्

  33. Verse 33

    भ्रातरावुपतस्थुस्ते सर्वे च हरियूथपाः । नलं नीलं हनूमन्तमन्यांश्च हरियूथपान्

  34. Verse 34

    ते तार्क्ष्यबलसम्पन्नाः सर्वे युद्धविशारदाः । विचरन्तोऽर्दयन् सर्वान् सिंहव्याघ्रमहोरगान्

  35. Verse 35

    महाबलो महाबाहुर्वाली विपुलविक्रमः । जुगोप भुजवीर्येण ऋक्षगोपुच्छवानरान्

  36. Verse 36

    तैरियं पृथिवी शूरैः सपर्वतवनार्णवा । कीर्णा विविधसंस्थानैर्नानाव्यञ्जनलक्षणैः

  37. Verse 37

    तैर्मेघवृन्दाचलकूटसंनिभै- :::र्महाबलैर्वानरयूथपाधिपैः बभूव भूर्भीमशरीररूपैः :::समावृता रामसहायहेतोः