Lipi
Sign in
Classic reading room ↗

Sarga 16

Bala Kanda

32 verses · free forever

Listen to this section

Uses your saved HI voice · Narration settings

  1. Verse 1

    '''श्रीमद्वाल्मीकियरामायणे बालकाण्डे षोडशः सर्गः ॥१-१६॥''' ततो नारायणो विष्णुर्नियुक्तः सुरसत्तमैः । जानन्नपि सुरानेवं श्लक्ष्णं वचनमब्रवीत्

  2. Verse 2

    उपायः को वधे तस्य राक्षसाधिपतेः सुराः । यमहं तं समास्थाय निहन्यामृषिकण्टकम्

  3. Verse 3

    एवमुक्ताः सुराः सर्वे प्रत्यूचुर्विष्णुमव्ययम् । मानुषं रूपमास्थाय रावणं जहि संयुगे

  4. Verse 4

    स हि तेपे तपस्तीव्रं दीर्घकालमरिन्दमः । येन तुष्टोऽभवद् ब्रह्मा लोककृल्लोकपूर्वजः

  5. Verse 5

    संतुष्टः प्रददौ तस्मै राक्षसाय वरं प्रभुः । नानाविधेभ्यो भूतेभ्यो भयं नान्यत्र मानुषात्

  6. Verse 6

    अवज्ञाताः पुरा तेन वरदाने हि मानवाः । एवं पितामहात् तस्मात् वरदानेन गर्वितः

  7. Verse 7

    उत्सादयति लोकांस्त्रीन् स्त्रियश्चाप्युपकर्षति । तस्मात् तस्य वधो दृष्टो मानुषेभ्यः परंतप

  8. Verse 8

    इत्येतद् वचनं श्रुत्वा सुराणां विष्णुरात्मवान् । पितरं रोचयामास तदा दशरथं नृपम्

  9. Verse 9

    स चाप्यपुत्रो नृपतिस्तस्मिन् काले महाद्युतिः । अयजत् पुत्रियामिष्टिं पुत्रेप्सुररिसूदनः

  10. Verse 10

    स कृत्वा निश्चयं विष्णुरामन्त्र्य च पितामहम् । अन्तर्धानं गतो देवैः पूज्यमानो महर्षिभिः

  11. Verse 11

    ततो वै यजमानस्य पावकादतुलप्रभम् । प्रादुर्भूतं महद् भूतं महावीर्यं महाबलम्

  12. Verse 12

    कृष्णं रक्ताम्बरधरं रक्तास्यं दुन्दुभिस्वनम् । स्निग्धहर्यक्षतनुजश्मश्रुप्रवरमूर्धजम्

  13. Verse 13

    शुभलक्षणसम्पन्नं दिव्याभरणभूषितम् । शैलशृङ्गसमुत्सेधं दृप्तशार्दूलविक्रमम्

  14. Verse 14

    दिवाकरसमाकारं दीप्तानलशिखोपमम् । तप्तजाम्बूनदमयीं राजतान्तपरिच्छदाम्

  15. Verse 15

    दिव्यपायससम्पूर्णां पात्रीं पत्नीमिव प्रियाम् । प्रगृह्य विपुलां दोर्भ्यां स्वयं मायामयीमिव

  16. Verse 16

    समवेक्ष्याब्रवीद् वाक्यमिदं दशरथं नृपम् । प्राजापत्यं नरं विद्धि मामिहाभ्यागतं नृप

  17. Verse 17

    ततः परं तदा राजा प्रत्युवाच कृताञ्जलिः । भगवन् स्वागतं तेऽस्तु किमहं करवाणि ते

  18. Verse 18

    अथो पुनरिदं वाक्यं प्राजापत्यो नरोऽब्रवीत् । राजन्नर्चयता देवानद्य प्राप्तमिदं त्वया

  19. Verse 19

    इदं तु नरशार्दूल पायसं देवनिर्मितम् । प्रजाकरं गृहाण त्वं धन्यमारोग्यवर्धनम्

  20. Verse 20

    भार्याणामनुरूपाणामश्नीतेति प्रयच्छ वै । तासु त्वं लप्स्यसे पुत्रान् यदर्थं यजसे नृप

  21. Verse 21

    तथेति नृपतिः प्रीतः शिरसा प्रतिगृह्य ताम् । पात्रीं देवान्नसम्पूर्णां देवदत्तां हिरण्मयीम्

  22. Verse 22

    अभिवाद्य च तद्भूतमद्भुतं प्रियदर्शनम् । मुदा परमया युक्तश्चकाराभिप्रदक्षिणम्

  23. Verse 23

    ततो दशरथः प्राप्य पायसं देवनिर्मितम् । बभूव परमप्रीतः प्राप्य वित्तमिवाधनः

  24. Verse 24

    ततस्तदद्भुतप्रख्यं भूतं परमभास्वरम् । संवर्तयित्वा तत् कर्म तत्रैवान्तरधीयत

  25. Verse 25

    हर्षरश्मिभिरुद्द्योतं तस्यान्तःपुरमाबभौ । शारदस्याभिरामस्य चन्द्रस्येव नभोंऽशुभिः

  26. Verse 26

    सोऽन्तःपुरं प्रविश्यैव कौसल्यामिदमब्रवीत् । पायसं प्रतिगृह्णीष्व पुत्रीयं त्विदमात्मनः

  27. Verse 27

    कौसल्यायै नरपतिः पायसार्धं ददौ तदा । अर्धादर्धं ददौ चापि सुमित्रायै नराधिपः

  28. Verse 28

    कैकेय्यै चावशिष्टार्धं ददौ पुत्रार्थकारणात् । प्रददौ चावशिष्टार्धं पायसस्यामृतोपमम्

  29. Verse 29

    अनुचिन्त्य सुमित्रायै पुनरेव महामतिः । एवं तासां ददौ राजा भार्याणां पायसं पृथक्

  30. Verse 30

    ताश्चैवं पायसं प्राप्य नरेन्द्रस्योत्तमस्त्रियः । सम्मानं मेनिरे सर्वाः प्रहर्षोदितचेतसः

  31. Verse 31

    ततस्तु ताः प्राश्य तमुत्तमस्त्रियो :::महीपतेरुत्तमपायसं पृथक् । हुताशनादित्यसमानतेजसो- :::ऽचिरेण गर्भान् प्रतिपेदिरे तदा

  32. Verse 32

    ततस्तु राजा प्रतिवीक्ष्य ताः स्त्रियः :::प्ररूढगर्भाः प्रतिलब्धमानसः । बभूव हृष्टस्त्रिदिवे यथा हरिः :::सुरेन्द्रसिद्धर्षिगणाभिपूजितः