Lipi
Sign in
Classic reading room ↗

Sarga 18

Bala Kanda

59 verses · free forever

Listen to this section

Uses your saved HI voice · Narration settings

Narration reads the opening of this section. Longer passages are split to keep playback responsive.

  1. Verse 1

    '''श्रीमद्वाल्मीकियरामायणे बालकाण्डे अष्टादशः सर्गः ॥१-१८॥''' निर्वृत्ते तु क्रतौ तस्मिन् हयमेधे महात्मनः । प्रतिगृह्यमरा भागान् प्रतिजग्मुर्यथागतम्

  2. Verse 2

    समाप्तदीक्षानियमः पत्नीगणसमन्वितः । प्रविवेश पुरीं राजा सभृत्यबलवाहनः

  3. Verse 3

    यथार्हं पूजितास्तेन राज्ञा वै पृथिवीश्वराः । मुदिताः प्रययुर्देशान् प्रणम्य मुनिपुंगवम्

  4. Verse 4

    श्रीमतां गच्छतां तेषां स्वगृहाणि पुरात् ततः । बलानि राज्ञां शुभ्राणि प्रहृष्टानि चकाशिरे

  5. Verse 5

    गतेषु पृथिवीशेषु राजा दशरथः पुनः । प्रविवेश पुरीं श्रीमान् पुरस्कृत्य द्विजोत्तमान्

  6. Verse 6

    शान्तया प्रययौ सार्धमृशष्यशृङ्गः सुपूजितः । अमुगम्यमानो राज्ञा च सानुयात्रेण धीमता

  7. Verse 7

    एवं विसृज्य तान् सर्वान् राजा सम्पूर्णमानसः । उवास सुखितस्तत्र पुत्रोत्पत्तिं विचिन्तयन्

  8. Verse 8

    ततो यज्ञे समाप्ते तु ऋतूनां षट् समत्ययुः । ततश्च द्वादशे मासे चैत्रे नावमिके तिथौ

  9. Verse 9

    नक्षत्रेऽदितिदैवत्ये स्वोच्चसंस्थेषु पञ्चसु । ग्रहेषु कर्कटे लग्ने वाक्पताविन्दुना सह

  10. Verse 10

    प्रोद्यमाने जगन्नाथं सर्वलोकनमस्कृतम् । कौसल्याजनयद् रामं दिव्यलक्षणसंयुतम्

  11. Verse 11

    विष्णोरर्धं महाभागं पुत्रमैक्ष्वाकुनन्दनम् । लोहिताक्षं महाबाहुं रक्तोष्ठं दुन्दुभिस्वनम्

  12. Verse 12

    कौसल्या शुशुभे तेन पुत्रेणामिततेजसा । यथा वरेण देवानामदितिर्वज्रपाणिना

  13. Verse 13

    भरतो नाम कैकेय्यां जज्ञे सत्यपराक्रमः । साक्षाद् विष्णोश्चतुर्भागः सर्वैः समुदितो गुणैः

  14. Verse 14

    अथ लक्ष्मणशत्रुघ्नौ सुमित्राजनयत् सुतौ । वीरौ सर्वास्त्रकुशलौ विष्णोरर्धसमन्वितौ

  15. Verse 15

    पुष्ये जातस्तु भरतो मीनलग्ने प्रसन्नधीः । सार्पे जातौ तु सौमित्री कुलीरेऽभ्युदिते रवौ

  16. Verse 16

    राज्ञः पुत्रा महात्मानश्चत्वारो जज्ञिरे पृथक् । गुणवन्तोऽनुरूपाश्च रुच्या प्रोष्ठपदोपमाः

  17. Verse 17

    जगुः कलं च गन्धर्वा ननृतुश्चाप्सरोगणाः । देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खात् पतत्

  18. Verse 18

    उत्सवश्च महानासीदयोध्यायां जनाकुलः । रथ्याश्च जनसम्बाधा नटनर्तकसंकुलाः

  19. Verse 19

    गायनैश्च विराविण्यो वादनैश्च तथापरैः । विरेजुर्विपुलास्तत्र सर्वरत्नसमन्विताः

  20. Verse 20

    प्रदेयांश्च ददौ राजा सूतमागधवन्दिनाम् । ब्राह्मणेभ्यो ददौ वित्तम् गोधनानि सहस्रशः

  21. Verse 21

    अतीत्यैकादशाहं तु नामकर्म तथाकरोत् । ज्येष्ठं रामं महात्मानं भरतं कैकयीसुतम्

  22. Verse 22

    सौमित्रिं लक्ष्मणमिति शत्रुघ्नमपरं तथा । वसिष्ठः परमप्रीतो नामानि कुरुते तदा

  23. Verse 23

    ब्राह्मणान् भोजयामास पौराजानपदानपि । अददद् ब्राह्मणानां च रत्नौघमलं बहु

  24. Verse 24

    तेषां जन्मक्रियादीनि सर्वकर्माण्यकारयत् । तेषां केतुरिव ज्येष्ठो रामो रतिकरः पितुः

  25. Verse 25

    बभूव भूयो भूतानां स्वयम्भूरिव सम्मतः । सर्वे वेदविदः शूराः सर्वे लोकहिते रताः

  26. Verse 26

    सर्वे ज्ञानोपसम्पन्नाः सर्वे समुदिता गुणैः । तेषामपि महातेजा रामः सत्यपराक्रमः

  27. Verse 27

    इष्टः सर्वस्य लोकस्य शशाङ्क इव निर्मलः । गजस्कन्धेऽश्वपृष्ठे च रथचर्यासु सम्मतः

  28. Verse 28

    धनुर्वेदे च निरतः पितुः शुश्रूषणे रतः । बाल्यात् प्रभृति सुस्निग्धो लक्ष्मणो लक्ष्मिवर्धनः

  29. Verse 29

    रामस्य लोकरामस्य भ्रातुर्ज्येष्ठस्य नित्यशः । सर्वप्रियकरस्तस्य रामस्यापि शरीरतः

  30. Verse 30

    लक्ष्मणो लक्ष्मिसम्पन्नो बहिःप्राण इवापरः । न च तेन विना निद्रां लभते पुरुषोत्तमः

  31. Verse 31

    मृष्टमन्नमुपानीतमश्नाति न हि तं विना । यदा हि हयमारूढो मृगयां याति राघवः

  32. Verse 32

    अथैनं पृष्ठतोऽभ्येति सधनुः परिपालयन् । भरतस्यापि शत्रुघ्नो लक्ष्मणावरजो हि सः

  33. Verse 33

    प्राणैः प्रियतरो नित्यं तस्य चासीत् तथा प्रियः । स चतुर्भिर्महाभागैः पुत्रैर्दशरथः प्रियैः

  34. Verse 34

    बभूव परमप्रीतो देवैरिव पितामहः । ते यदा ज्ञानसंपन्नाः सर्वे समुदिता गुणैः

  35. Verse 35

    ह्रीमन्तः कीर्तिमन्तश्च सर्वज्ञा दीर्घदर्शिनः । तेषामेवंप्रभावाणां सर्वेषां दीप्ततेजसाम्

  36. Verse 36

    पिता दशरथो हृष्टो ब्रह्मा लोकाधिपो यथा । ते चापि मनुजव्याघ्रा वैदिकाध्ययने रताः

  37. Verse 37

    पितृशुश्रूषणरता धनुर्वेदे च निष्ठिताः । अथ राजा दशरथस्तेषां दारक्रियां प्रति

  38. Verse 38

    चिन्तयामास धर्मात्मा सोपाध्यायः सबान्धवः । तस्य चिन्तयमानस्य मन्त्रिमध्ये महात्मनः

  39. Verse 39

    अभ्यागच्छन्महातेजो विश्वामित्रो महामुनिः । स राज्ञो दर्शनाकाङ्क्षी द्वाराध्यक्षानुवाच ह

  40. Verse 40

    शीघ्रमाख्यात मां प्राप्तं कौशिकं गाधिनः सुतम् । तच्छ्रुत्वा वचनं तस्य राज्ञो वेश्म प्रदुद्रुवुः

  41. Verse 41

    संभ्रान्तमनसः सर्वे तेन वाक्येन चोदिताः । ते गत्वा राजभवनं विश्वामित्रमृषिं तदा

  42. Verse 42

    प्राप्तमावेदयामासुर्नृपायेक्ष्वाकवे तदा । तेषां तद्वचनं श्रुत्वा सपुरोधाः समाहितः

  43. Verse 43

    प्रत्युज्जगाम संहृष्टो ब्रह्माणमिव वासवः । स दृष्ट्वा ज्वलितं दीप्त्या तापसं संशितव्रतम्

  44. Verse 44

    प्रहृष्टवदनो राजा ततोऽर्घ्यमुपहारयत् । स राज्ञः प्रतिगृह्यार्घ्यं शास्त्रदृष्टेन कर्मणा

  45. Verse 45

    कुशलं चाव्ययं चैव पर्यपृच्छन्नराधिपम् । पुरे कोशे जनपदे बान्धवेषु सुहृत्सु च

  46. Verse 46

    कुशलं कौशिको राज्ञः पर्यपृच्छत् सुधार्मिकः । अपि ते संनताः सर्वे सामन्तरिपवो जिताः

  47. Verse 47

    दैवं च मानुषं चैव कर्म ते साध्वनुष्ठितम् । वसिष्ठं च समागम्य कुशलं मुनिपुङ्गवः

  48. Verse 48

    ऋषींश्च तान् यथान्यायं महाभाग उवाच ह । ते सर्वे हृष्टमनसस्तस्य राज्ञो निवेशनम्

  49. Verse 49

    विविशुः पूजितास्तेन निषेदुश्च यथार्हतः । अथ हृष्टमना राजा विश्वामित्रं महामुनिम्

  50. Verse 50

    उवाच परमोदारो हृष्टस्तमभिपूजयन् । यथामृतस्य सम्प्राप्तिर्यथा वर्षमनूदके

  51. Verse 51

    यथा सदृशदारेषु पुत्रजन्माप्रजस्य वै । प्रणष्टस्य यथा लाभो यथा हर्षो महोदयः

  52. Verse 52

    तथैवागमनं मन्ये स्वागतं ते महामुने । कं च ते परमं कामं करोमि किमु हर्षितः

  53. Verse 53

    पात्रभूतोऽसि मे विप्र दिष्ट्या प्राप्तोऽसि मानद । अद्य मे सफलं जन्म जीवितं च सुजीवितम्

  54. Verse 54

    यस्माद् विप्रेन्द्रमद्राक्षं सुप्रभाता निशा मम । पूर्वं राजर्षिशब्देन तपसा द्योतितप्रभः

  55. Verse 55

    ब्रह्मर्षित्वमनुप्राप्तः पूज्योऽसि बहुधा मया । तदद्भुतमभूद् विप्र पवित्रं परमं मम

  56. Verse 56

    शुभक्षेत्रगतश्चाहं तव संदर्शनात् प्रभो । ब्रूहि यत् प्रार्थितं तुभ्यं कार्यमागमनं प्रति

  57. Verse 57

    इच्छाम्यनुगृहीतोऽहं त्वदर्थं परिवृद्धये । कार्यस्य न विमर्शं च गन्तुमर्हसि सुव्रत

  58. Verse 58

    कर्ता चाहमशेषेण दैवतं हि भवान् मम । मम च अयमनुप्राप्तो महानभ्युदयो द्विज । तवागमनजः कृत्स्नो धर्मश्चानुत्तमो द्विज

  59. Verse 59

    इति हृदयसुखं निशम्य वाक्यं :::श्रुतिसुखमात्मवता विनीतमुक्तम् । प्रथितगुणयशा गुणैर्विशिष्टः :::परमऋषिः परमं जगाम हर्षम्