Adhyaya 16
Shalya Parva · 86 verses
86 verses · free forever
English has not yet been added to this adhyaya. You can read the Ganesha passage or Vana Parva 312–315 with English.
Uses your saved HI voice · Narration settings
Narration reads the opening of this section. Longer passages are split to keep playback responsive.
Verse 1
युधिष्ठिरेण शल्यशल्यानुजयोर्वधः।। 1 ।। सञ्जय उवाच अथान्यद्धनुरादाय बलवान्वेगवत्तरम् युधिष्ठिरं मद्र पतिर्विद्ध्वा सिंह इवानदत् १ ततः स शरवर्षेण पर्जन्य इव वृष्टिमान् अभ्यवर्षदमेयात्मा क्षत्रियान्क्षत्रियर्षभः २ सात्यकिं दशभिर्विद्ध्वा भीमसेनं त्रिभिः शरैः सहदेवं त्रिभिर्विद्ध्वा युधिष्ठिरमपीडयत् ३ तांस्तानन्यान्महेष्वासान्साश्वान्सरथकुञ्जरान् कुञ्जरान्कुञ्जरारोहानश्वानश्वप्रयायिनः रथांश्च रथिभिः सार्धं जघान रथिनां वरः ४ बाहूंश्चिच्छेद च तथा सायुधान्केतनानि च चकार च महीं योधैस्तीर्णां वेदीं कुशैरिव ५ तथा तमरिसैन्यानि घ्नन्तं मृत्युमिवान्तकम् परिवव्रुर्भृशं क्रुद्धाः पाण्डुपाञ्चालसोमकाः ६ तं भीमसेनश्च शिनेश्च नप्ता माद्र य्श्चा पुत्रौ पुरुषप्रवीरौ समागतं भीमबलेन राज्ञा पर्यापुरन्योन्यमथाह्वयन्तः ७ ततस्तु शूराः समरे नरेन्द्रं मद्रेश्वरं प्राप्य युधां वरिष्ठम् आवार्य चैनं समरे नृवीरा जघ्नुः शरैः पत्रिभिरुग्रवेगैः ८ संरक्षितो भीमसेनेन राजा माद्री सुताभ्यामथ माधवेन मद्राधिपं पत्रिभिरुग्रवेगैः स्तनान्तरे धर्मसुतो निजघ्ने ९ ततो रणे तावकानां रथौघाः समीक्ष्य मद्राधिपतिं शरार्तम् पर्यावव्रुः प्रवराः सर्वशश्च दुर्योधनस्यानुमते समन्तात् १० ततो द्रुतं मद्रजनाधिपो रणे युधिष्ठिरं सप्तभिरभ्यविध्यत् तं चापि पार्थो नवभिः पृषत्कैर्विव्याध राजंस्तुमुले महात्मा ११ आकर्णपूर्णायतसम्प्रयुक्तैः शरैस्तदा संयति तैलधौतैः अन्योन्यमाच्छादयतां महारथौ मद्राधिपश्चापि युधिष्ठिरश्च १२ ततस्तु तूर्णं समरे महारथौ परस्परस्यान्तरमीक्षमाणौ शरैर्भृशं विव्यधतुर्नृपोत्तमौ महाबलौ शत्रुभिरप्रधृष्यौ १३ तयोर्धनुर्ज्यातलनिस्वनो महान्महेन्द्र वज्राशनितुल्यनिस्वनः परस्परं बाणगणैर्महात्मनोः प्रवर्षतोर्मद्रपपाण्डुवीरयोः १४ तौ चेरतुर्व्याघ्रशिशुप्रकाशौ महावनेष्वामिषगृद्धिनाविव विषाणिनौ नागवराविवोभौ ततक्षतुः संयुगजातदर्पौ १५ ततस्तु मद्राधिपतिर्महात्मा युधिष्ठिरं भीमबलं प्रसह्य विव्याध वीरं हृदयेऽतिवेगं शरेण सूर्याग्निसमप्रभेण १६ ततोऽतिविद्धोऽथ युधिष्ठिरोऽपि सुसम्प्रयुक्तेन शरेण राजन् जघान मद्राधिपतिं महात्मा मुदं च लेभे ऋषभः कुरूणाम् १७ ततो मुहूर्तादिव पार्थिवेन्द्रो लब्ध्वा संज्ञां क्रोधसंरक्तनेत्रः शतेन पार्थं त्वरितो जघान सहस्रनेत्रप्रतिमप्रभावः १८ त्वरंस्ततो धर्मसुतो महात्मा शल्यस्य क्रुद्धो नवभिः पृषत्कैः भित्त्वा ह्युरस्तपनीयं च वर्म जघान षड्भिस्त्वपरैः पृषत्कैः १९ ततस्तु मद्राधिपतिः प्रहृष्टो धनुर्विकृष्य व्यसृजत्पृषत्कान् द्वाभ्यां क्षुराभ्यां च तथैव राज्ञश्चिच्छेद चापं कुरुपुङ्गवस्य २० नवं ततोऽन्यत्समरे प्रगृह्य राजा धनुर्घोरतरं महात्मा शल्यं तु विद्ध्वा निशितैः समन्ताद्यथा महेन्द्रो नमुचिं शिताग्रैः २१ ततस्तु शल्यो नवभिः पृषत्कैर्भीमस्य राज्ञश्च युधिष्ठिरस्य निकृत्य रौक्मे पटुवर्मणी तयोर्विदारयामास भुजौ महात्मा २२ ततोऽपरेण ज्वलितार्कतेजसा क्षुरेण राज्ञो धनुरुन्ममाथ कृपश्च तस्यैव जघान सूतं षड्भिः शरैः सोऽभिमुखं पपात २३ मद्राधिपश्चापि युधिष्ठिरस्य शरैश्चतुर्भिर्निजघान वाहान् वाहांश्च हत्वा व्यकरोन्महात्मा योधक्षयं धर्मसुतस्य राज्ञः २४ तथा कृते राजनि भीमसेनो मद्राधिपस्याशु ततो महात्मा छित्त्वा धनुर्वेगवता शरेण द्वाभ्यामविध्यत्सुभृशं नरेन्द्र म् २५ अथापरेणास्य जहार यन्तुः कायाच्छिरः संनहनीयमध्यात् जघान चाश्वांश्चतुरः स शीघ्रं तथा भृशं कुपितो भीमसेनः २६ तमग्रणीः सर्वधनुर्धराणामेकं चरन्तं समरेऽतिवेगम् भीमः शतेन व्यकिरच्छराणां माद्रीपुत्रः सहदेवस्तथैव २७ तैः सायकैर्मोहितं वीक्ष्य शल्यं भीमः शरैरस्य चकर्त वर्म स भीमसेनेन निकृत्तवर्मा मद्राधिपश्चर्म सहस्रतारम् २८ प्रगृह्य खड्गं च रथान्महात्मा प्रस्कन्द्य कुन्तीसुतमभ्यधावत् छित्त्वा रथेषां नकुलस्य सोऽथ युधिष्ठिरं भीमबलोऽभ्यधावत् २९ तं चापि राजानमथोत्पतन्तं क्रुद्धं यथैवान्तकमापतन्तम् धृष्टद्यम्न्! द्रौ पदेयाः शिखण्डी शिनेश्च नप्ता सहसा परीयुः ३० अथास्य चर्माप्रतिमं न्यकृन्तद्भीमो महात्मा दशभिः पृषत्कः खड्गं च भल्लैर्निचकर्त्त मुष्टौ नदन्प्रहृष्टस्तव सैन्यमध्ये ३१ तत्कर्म भीमस्य समीक्ष्य हृष्टास्ते पाण्डवानां प्रवरा रथौघाः नादं च चक्रुर्भृशमुत्स्मयन्तः शङ्खांश्च दध्मुः शशिसंनिकाशान् ३२ तेनाथ शब्देन विभीषणेन तवाभितप्तं बलमप्रहृष्टम् स्वेदाभिभूतं रुधिरोक्षिताङ्गं विसंज्ञकल्पं च तथा विषण्णम् ३३ स मद्र राजः सहसावकीर्णो भीमाग्रगैः पाण्डवयोधमुख्यैः युधिष्ठिरस्याभिमुखं जवेन सिंहो यथा मृगहेतोः प्रयातः ३४ स धर्मराजो निहताश्वसूतं क्रोधेन दीप्तोज्वलनप्रकाशम् दृष्ट्वा तु मद्रा धिपतिं स तूर्णं समभ्यधावत्तमरिं बलेन ३५ गोविंदवाक्यं त्वरितं विचिन्त्य दध्रे मतिं शल्यविनाशनाय स धर्मराजो निहताश्वसूते रथे तिष्ठञ्शक्तिमेवाभिकाङ्क्षन् ३६ तच्चापि शल्यस्य निशम्य कर्म महात्मनो भागमथावशिष्टम् स्मृत्वा मनः शल्यवधे यथात्मा यथोक्तमिन्द्रा वरजस्य चक्रे ३७ स धर्मराजो मणिहेमदण्डां जग्राह शक्तिं कनकप्रकाशाम् नेत्रे च दीप्ते सहसा विवृत्य मद्रा धिपं क्रुद्धमना निरैक्षत् ३८ निरीक्षितो वै नरदेव राज्ञा पूतात्मना निर्हृतकल्मषेण अभून्न यद्भस्मसान्मद्रराजस्तदद्भुतं मे प्रतिभाति राजन् ३९ ततस्तु शक्तिं रुचिरोग्रदण्डां मणिप्रवालोज्ज्वलितां प्रदीप्ताम् चिक्षेप वेगात्सुभृशं महात्मा मद्राधिपाय प्रवरः कुरूणाम् ४० दीप्तामथैनां महता बलेन सविस्फुलिङ्गां सहसा पतन्तीम् प्रैक्षन्त सर्वे कुरवः समेता यथा युगान्ते महतीमिवोल्काम् ४१ तां कालरात्रीमिव पाशहस्तां यमस्य धात्रीमिव चोग्ररूपाम् स ब्रह्मदण्डप्रतिमाममोघां ससर्ज यत्तो युधि धर्मराजः ४२ गन्धस्रगग्र्यासनपानभोजनैरभ्यर्चितां पाण्डुसुतैः प्रयत्नात् संवर्तकाग्निप्रतिमां ज्वलन्तीं कृत्यामथर्वाङ्गिरसीमिवोग्राम् ४३ ईशानहेतोः प्रतिनिर्मितां तां त्वष्ट्रा रिपूणामसुदेहभक्षाम् भूम्यन्तरिक्षादिजलाशयानि प्रसह्य भूतानि निहन्तुमीशाम् ४४ घण्टापताकामणिवज्रभाजं वैडूर्यचित्रां तपनीयदण्डाम् त्वष्ट्रा प्रयत्नान्नियमेन कॢप्तां ब्रह्मद्विषामन्तकरीममोघाम् ४५ बलप्रयत्नादधिरूढवेगां मन्त्रैश्च घोरैरभिमन्त्रयित्वा ससर्ज मार्गेण च तां परेण वधाय मद्रा धिपतेस्तदानीम् ४६ हतोऽस्यसावित्यभिगर्जमानो रुद्रो ऽन्तकायान्तकरं यथेषुम् प्रसार्य बाहुं सुदृढं सुपाणिं क्रोधेन नृत्यन्निव धर्मराजः ४७ तां सर्वशक्त्या प्रहितां स शक्तिं युधिष्ठिरेणाप्रतिवार्यवीर्याम् प्रतिग्रहायाभिननर्द शल्यः सम्यग्घुतामग्निरिवाज्यधाराम् ४८ सा तस्य मर्माणि विदार्य शुभ्रमुरो विशालं च तथैव वर्म विवेश गां तोयमिवाप्रसक्ता यशो विशालं नृपतेर्दहन्ती ४९ नासाक्षिकर्णास्यविनिःसृतेन प्रस्यन्दता च व्रणसंभवेन संसिक्तगात्रो रुधिरेण सोऽभूत्क्रौञ्चो यथा स्कन्दहतो महाद्रि ः! ५० प्रसार्य बाहू स रथाद्गतो गां संछिन्नवर्मा कुरुनन्दनेन महेन्द्र वाहप्रतिमो महात्मा वज्राहतं शृङ्गमिवाचलस्य ५१ बाहू प्रसार्याभिमुखो धर्मराजस्य मद्र राट् ततो निपतितो भूमाविन्द्रध्वज इवोच्छ्रितः ५२ स तथा भिन्नसर्वाङ्गो रुधिरेण समुक्षितः प्रत्युद्गत इव प्रेम्णा भूम्या स नरपुङ्गवः ५३ प्रियया कान्तया कान्तः पतमान इवोरसि चिरं भुक्त्वा वसुमतीं प्रियां कान्तामिव प्रभुः सर्वैरङ्गैः समाश्लिष्य प्रसुप्त इव सोऽभवत् ५४ धर्म्ये धर्मात्मना युद्धे निहतो धर्मसूनुना सम्यग्घुत इव स्विष्टः प्रशान्तोऽग्निरिवाध्वरे ५५ शक्त्या विभिन्नहृदयं विप्रविद्धायुधध्वजम् संशान्तमपि मद्रे शं लक्ष्मीर्नैव व्यमुञ्चत ५६ ततो युधिष्ठिरश्चापमादायेन्द्र धनुष्प्रभम् व्यधमद्द्विषतः संख्ये खगराडिव पन्नगान् देहासून्निशितैर्भल्लै रिपूणां नाशयन्क्षणात् ५७ ततः पार्थस्य बाणौघैरावृताः सैनिकास्तव निमीलिताक्षाः क्षिण्वन्तो भृशमन्योन्यमर्दिताः संन्यस्तकवचा देहैर्विपन्नायुधजीविताः ५८ ततः शल्ये निपतिते मद्र राजानुजो युवा भ्रातुः सर्वैर्गुणैस्तुल्यो रथी पाण्डवमभ्ययात् ५९ विव्याध च नरश्रेष्ठो नाराचैर्बहुभिस्त्वरन् हतस्यापचितिं भ्रातुश्चिकीर्षुर्युद्धदुर्मदः ६० तं विव्याधाशुगैः षड्भिर्धर्मराजस्त्वरन्निव कार्मुकं चास्य चिच्छेद क्षुराभ्यां ध्वजमेव च ६१ ततोऽस्य दीप्यमानेन सुदृढेन शितेन च प्रमुखे वर्तमानस्य भल्लेनापाहरच्छिरः ६२ सकुण्डलं तद्ददृशे पतमानं शिरो रथात् पुण्यक्षयमिव प्राप्य पतन्तं स्वर्गवासिनम् ६३ तस्यापकृष्टशीर्षं तच्छरीरं पतितं रथात् रुधिरेणावसिक्ताङ्गं दृष्टा सैन्यमभज्यत ६४ विचित्रकवचे तस्मिन्हते मद्र नृपानुजे हाहाकारं विकुर्वाणाः कुरवो विप्रदुद्रुवुः ६५ शल्यानुजं हतं दृष्ट्वा तावकास्त्यक्तजीविताः वित्रेसुः पाण्डवभयाद्र जोध्वस्तास्तथा भृशम् ६६ तांस्तथा भज्यतस्त्रस्तान्कौरवान्भरतर्षभ शिनेर्नप्ता किरन्बाणैरभ्यवर्तत सात्यकिः ६७ तमायान्तं महेष्वासमप्रसह्यं दुरासदम् हार्दिक्यस्त्वरितो राजन्प्रत्यगृह्णादभीतवत् ६८ तौ समेतौ महात्मानौ वार्ष्णेयावपराजितौ हार्दिक्यः सात्यकिश्चैव सिंहाविव मदोत्कटौ ६९ इषुभिर्विमलाभासैश्छादयन्तौ परस्परम् अर्चिर्भिरिव सूर्यस्य दिवाकरसमप्रभौ ७० चापमार्गबलोद्धूतान्मार्गणान्वृष्णिसिंहयोः आकाशे समपश्याम पतङ्गानिव शीघ्रगान् ७१ सात्यकिं दशभिर्विद्ध्वा हयांश्चास्य त्रिभिः शरैः चापमेकेन चिच्छेद हार्दिक्यो नतपर्वणा ७२ तन्निकृत्तं धनुः श्रेष्ठमपास्य शिनिपुङ्गवः अन्यदादत्त वेगेन वेगवत्तरमायुधम् ७३ तदादाय धनुः श्रेष्ठं वरिष्ठः सर्वधन्विनाम् हार्दिक्यं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे ७४ ततो रथं युगेषां च छित्त्वा भल्लैः सुसंयतैः अश्वांस्तस्यावधीत्तूर्णभुभौ च पार्ष्णिसारथी ७५ मद्र राजे हते राजन्विरथे कृतवर्मणि दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम् ७६ तत्परे नावबुध्यन्त सैन्येन रजसा वृते बलं तु हतभूयिष्ठं तत्तदासीत्पराङ्मुखम् ७७ ततो मुहूर्तात्तेऽपश्यन्रजो भौमं समुत्थितम् विविधैः शोणितस्रावैः प्रशान्तं पुरुषर्षभ ७८ ततो दुर्योधनो दृष्ट्वा भग्नं स्वबलमन्तिकात् जवेनापततः पार्थानेकः सर्वानवारयत् ७९ पाण्डवान्सरथान्दृष्ट्वा धृष्टद्युम्नं च पार्षतम् आनर्तं च दुराधर्षं शितैर्बाणैरवाकिरत् ८० तं परे नाभ्यवर्तन्त मर्त्या मृत्युमिवागतम् अथान्यं रथमास्थाय हार्दिक्योऽपि न्यवर्तत ८१ ततो युधिष्ठिरो राजा त्वरमाणो महारथः चतुर्भिर्निजघानाश्वान्पत्रिभिः कृतवर्मणः विव्याध गौतमं चापि षड्भिर्भल्लैः सुतेजनैः ८२ अश्वत्थामा ततो राज्ञा हताश्वं विरथीकृतम् समपोवाह हार्दिक्यं स्वरथेन युधिष्ठिरात् ८३ ततः शारद्वतोऽष्टाभिः प्रत्यविध्यद्युधिष्ठिरम् विव्याध चाश्वान्निशितैस्तस्याष्टाभिः शिलीमुखैः ८४ एवमेतन्महाराज युद्धशेषमवर्तत तव दुर्मन्त्रिते राजन्सहपुत्रस्य भारत ८५ तस्मिन्महेष्वासवरे विशस्ते संग्राममध्ये कुरुपुङ्गवेन पार्थाः समेताः परमप्रहृष्टाः शङ्खान्प्रदध्मुर्हतमीक्ष्य शल्यम् ८६ युधिष्ठिरं च प्रशशंसुराजौ पुरा सुरा वृत्रवधे यथेन्द्रम् चक्रुश्च नानविधवाद्यशब्दान्निनादयन्तो वसुधां समन्तात् ८७ इति श्रीमहाभारते शल्यपर्वणि षोडशोऽध्यायः १६ समाप्तं शल्यवधपर्व सञ्जय उवाच। तं भीमसेनश्च शिनेश्च नप्ता माद्याश्च पुत्रौ पुरुषप्रवीरौ। समागतं भीमबलेन राज्ञा पर्यापुरन्योन्यमथाह्वयन्त।।
yudhiṣṭhireṇa śalyaśalyānujayorvadhaḥ|| 1 || sañjaya uvāca athānyaddhanurādāya balavānvegavattaram yudhiṣṭhiraṃ madra patirviddhvā siṃha ivānadat 1 tataḥ sa śaravarṣeṇa parjanya iva vṛṣṭimān abhyavarṣadameyātmā kṣatriyānkṣatriyarṣabhaḥ 2 sātyakiṃ daśabhirviddhvā bhīmasenaṃ tribhiḥ śaraiḥ sahadevaṃ tribhirviddhvā yudhiṣṭhiramapīḍayat 3 tāṃstānanyānmaheṣvāsānsāśvānsarathakuñjarān kuñjarānkuñjarārohānaśvānaśvaprayāyinaḥ rathāṃśca rathibhiḥ sārdhaṃ jaghāna rathināṃ varaḥ 4 bāhūṃściccheda ca tathā sāyudhānketanāni ca cakāra ca mahīṃ yodhaistīrṇāṃ vedīṃ kuśairiva 5 tathā tamarisainyāni ghnantaṃ mṛtyumivāntakam parivavrurbhṛśaṃ kruddhāḥ pāṇḍupāñcālasomakāḥ 6 taṃ bhīmasenaśca śineśca naptā mādra yścā putrau puruṣapravīrau samāgataṃ bhīmabalena rājñā paryāpuranyonyamathāhvayantaḥ 7 tatastu śūrāḥ samare narendraṃ madreśvaraṃ prāpya yudhāṃ variṣṭham āvārya cainaṃ samare nṛvīrā jaghnuḥ śaraiḥ patribhirugravegaiḥ 8 saṃrakṣito bhīmasenena rājā mādrī sutābhyāmatha mādhavena madrādhipaṃ patribhirugravegaiḥ stanāntare dharmasuto nijaghne 9 tato raṇe tāvakānāṃ rathaughāḥ samīkṣya madrādhipatiṃ śarārtam paryāvavruḥ pravarāḥ sarvaśaśca duryodhanasyānumate samantāt 10 tato drutaṃ madrajanādhipo raṇe yudhiṣṭhiraṃ saptabhirabhyavidhyat taṃ cāpi pārtho navabhiḥ pṛṣatkairvivyādha rājaṃstumule mahātmā 11 ākarṇapūrṇāyatasamprayuktaiḥ śaraistadā saṃyati tailadhautaiḥ anyonyamācchādayatāṃ mahārathau madrādhipaścāpi yudhiṣṭhiraśca 12 tatastu tūrṇaṃ samare mahārathau parasparasyāntaramīkṣamāṇau śarairbhṛśaṃ vivyadhaturnṛpottamau mahābalau śatrubhirapradhṛṣyau 13 tayordhanurjyātalanisvano mahānmahendra vajrāśanitulyanisvanaḥ parasparaṃ bāṇagaṇairmahātmanoḥ pravarṣatormadrapapāṇḍuvīrayoḥ 14 tau ceraturvyāghraśiśuprakāśau mahāvaneṣvāmiṣagṛddhināviva viṣāṇinau nāgavarāvivobhau tatakṣatuḥ saṃyugajātadarpau 15 tatastu madrādhipatirmahātmā yudhiṣṭhiraṃ bhīmabalaṃ prasahya vivyādha vīraṃ hṛdaye'tivegaṃ śareṇa sūryāgnisamaprabheṇa 16 tato'tividdho'tha yudhiṣṭhiro'pi susamprayuktena śareṇa rājan jaghāna madrādhipatiṃ mahātmā mudaṃ ca lebhe ṛṣabhaḥ kurūṇām 17 tato muhūrtādiva pārthivendro labdhvā saṃjñāṃ krodhasaṃraktanetraḥ śatena pārthaṃ tvarito jaghāna sahasranetrapratimaprabhāvaḥ 18 tvaraṃstato dharmasuto mahātmā śalyasya kruddho navabhiḥ pṛṣatkaiḥ bhittvā hyurastapanīyaṃ ca varma jaghāna ṣaḍbhistvaparaiḥ pṛṣatkaiḥ 19 tatastu madrādhipatiḥ prahṛṣṭo dhanurvikṛṣya vyasṛjatpṛṣatkān dvābhyāṃ kṣurābhyāṃ ca tathaiva rājñaściccheda cāpaṃ kurupuṅgavasya 20 navaṃ tato'nyatsamare pragṛhya rājā dhanurghorataraṃ mahātmā śalyaṃ tu viddhvā niśitaiḥ samantādyathā mahendro namuciṃ śitāgraiḥ 21 tatastu śalyo navabhiḥ pṛṣatkairbhīmasya rājñaśca yudhiṣṭhirasya nikṛtya raukme paṭuvarmaṇī tayorvidārayāmāsa bhujau mahātmā 22 tato'pareṇa jvalitārkatejasā kṣureṇa rājño dhanurunmamātha kṛpaśca tasyaiva jaghāna sūtaṃ ṣaḍbhiḥ śaraiḥ so'bhimukhaṃ papāta 23 madrādhipaścāpi yudhiṣṭhirasya śaraiścaturbhirnijaghāna vāhān vāhāṃśca hatvā vyakaronmahātmā yodhakṣayaṃ dharmasutasya rājñaḥ 24 tathā kṛte rājani bhīmaseno madrādhipasyāśu tato mahātmā chittvā dhanurvegavatā śareṇa dvābhyāmavidhyatsubhṛśaṃ narendra m 25 athāpareṇāsya jahāra yantuḥ kāyācchiraḥ saṃnahanīyamadhyāt jaghāna cāśvāṃścaturaḥ sa śīghraṃ tathā bhṛśaṃ kupito bhīmasenaḥ 26 tamagraṇīḥ sarvadhanurdharāṇāmekaṃ carantaṃ samare'tivegam bhīmaḥ śatena vyakiraccharāṇāṃ mādrīputraḥ sahadevastathaiva 27 taiḥ sāyakairmohitaṃ vīkṣya śalyaṃ bhīmaḥ śarairasya cakarta varma sa bhīmasenena nikṛttavarmā madrādhipaścarma sahasratāram 28 pragṛhya khaḍgaṃ ca rathānmahātmā praskandya kuntīsutamabhyadhāvat chittvā ratheṣāṃ nakulasya so'tha yudhiṣṭhiraṃ bhīmabalo'bhyadhāvat 29 taṃ cāpi rājānamathotpatantaṃ kruddhaṃ yathaivāntakamāpatantam dhṛṣṭadyamn! drau padeyāḥ śikhaṇḍī śineśca naptā sahasā parīyuḥ 30 athāsya carmāpratimaṃ nyakṛntadbhīmo mahātmā daśabhiḥ pṛṣatkaḥ khaḍgaṃ ca bhallairnicakartta muṣṭau nadanprahṛṣṭastava sainyamadhye 31 tatkarma bhīmasya samīkṣya hṛṣṭāste pāṇḍavānāṃ pravarā rathaughāḥ nādaṃ ca cakrurbhṛśamutsmayantaḥ śaṅkhāṃśca dadhmuḥ śaśisaṃnikāśān 32 tenātha śabdena vibhīṣaṇena tavābhitaptaṃ balamaprahṛṣṭam svedābhibhūtaṃ rudhirokṣitāṅgaṃ visaṃjñakalpaṃ ca tathā viṣaṇṇam 33 sa madra rājaḥ sahasāvakīrṇo bhīmāgragaiḥ pāṇḍavayodhamukhyaiḥ yudhiṣṭhirasyābhimukhaṃ javena siṃho yathā mṛgahetoḥ prayātaḥ 34 sa dharmarājo nihatāśvasūtaṃ krodhena dīptojvalanaprakāśam dṛṣṭvā tu madrā dhipatiṃ sa tūrṇaṃ samabhyadhāvattamariṃ balena 35 goviṃdavākyaṃ tvaritaṃ vicintya dadhre matiṃ śalyavināśanāya sa dharmarājo nihatāśvasūte rathe tiṣṭhañśaktimevābhikāṅkṣan 36 taccāpi śalyasya niśamya karma mahātmano bhāgamathāvaśiṣṭam smṛtvā manaḥ śalyavadhe yathātmā yathoktamindrā varajasya cakre 37 sa dharmarājo maṇihemadaṇḍāṃ jagrāha śaktiṃ kanakaprakāśām netre ca dīpte sahasā vivṛtya madrā dhipaṃ kruddhamanā niraikṣat 38 nirīkṣito vai naradeva rājñā pūtātmanā nirhṛtakalmaṣeṇa abhūnna yadbhasmasānmadrarājastadadbhutaṃ me pratibhāti rājan 39 tatastu śaktiṃ rucirogradaṇḍāṃ maṇipravālojjvalitāṃ pradīptām cikṣepa vegātsubhṛśaṃ mahātmā madrādhipāya pravaraḥ kurūṇām 40 dīptāmathaināṃ mahatā balena savisphuliṅgāṃ sahasā patantīm praikṣanta sarve kuravaḥ sametā yathā yugānte mahatīmivolkām 41 tāṃ kālarātrīmiva pāśahastāṃ yamasya dhātrīmiva cograrūpām sa brahmadaṇḍapratimāmamoghāṃ sasarja yatto yudhi dharmarājaḥ 42 gandhasragagryāsanapānabhojanairabhyarcitāṃ pāṇḍusutaiḥ prayatnāt saṃvartakāgnipratimāṃ jvalantīṃ kṛtyāmatharvāṅgirasīmivogrām 43 īśānahetoḥ pratinirmitāṃ tāṃ tvaṣṭrā ripūṇāmasudehabhakṣām bhūmyantarikṣādijalāśayāni prasahya bhūtāni nihantumīśām 44 ghaṇṭāpatākāmaṇivajrabhājaṃ vaiḍūryacitrāṃ tapanīyadaṇḍām tvaṣṭrā prayatnānniyamena kḷptāṃ brahmadviṣāmantakarīmamoghām 45 balaprayatnādadhirūḍhavegāṃ mantraiśca ghorairabhimantrayitvā sasarja mārgeṇa ca tāṃ pareṇa vadhāya madrā dhipatestadānīm 46 hato'syasāvityabhigarjamāno rudro 'ntakāyāntakaraṃ yatheṣum prasārya bāhuṃ sudṛḍhaṃ supāṇiṃ krodhena nṛtyanniva dharmarājaḥ 47 tāṃ sarvaśaktyā prahitāṃ sa śaktiṃ yudhiṣṭhireṇāprativāryavīryām pratigrahāyābhinanarda śalyaḥ samyagghutāmagnirivājyadhārām 48 sā tasya marmāṇi vidārya śubhramuro viśālaṃ ca tathaiva varma viveśa gāṃ toyamivāprasaktā yaśo viśālaṃ nṛpaterdahantī 49 nāsākṣikarṇāsyaviniḥsṛtena prasyandatā ca vraṇasaṃbhavena saṃsiktagātro rudhireṇa so'bhūtkrauñco yathā skandahato mahādri ḥ! 50 prasārya bāhū sa rathādgato gāṃ saṃchinnavarmā kurunandanena mahendra vāhapratimo mahātmā vajrāhataṃ śṛṅgamivācalasya 51 bāhū prasāryābhimukho dharmarājasya madra rāṭ tato nipatito bhūmāvindradhvaja ivocchritaḥ 52 sa tathā bhinnasarvāṅgo rudhireṇa samukṣitaḥ pratyudgata iva premṇā bhūmyā sa narapuṅgavaḥ 53 priyayā kāntayā kāntaḥ patamāna ivorasi ciraṃ bhuktvā vasumatīṃ priyāṃ kāntāmiva prabhuḥ sarvairaṅgaiḥ samāśliṣya prasupta iva so'bhavat 54 dharmye dharmātmanā yuddhe nihato dharmasūnunā samyagghuta iva sviṣṭaḥ praśānto'gnirivādhvare 55 śaktyā vibhinnahṛdayaṃ vipraviddhāyudhadhvajam saṃśāntamapi madre śaṃ lakṣmīrnaiva vyamuñcata 56 tato yudhiṣṭhiraścāpamādāyendra dhanuṣprabham vyadhamaddviṣataḥ saṃkhye khagarāḍiva pannagān dehāsūnniśitairbhallai ripūṇāṃ nāśayankṣaṇāt 57 tataḥ pārthasya bāṇaughairāvṛtāḥ sainikāstava nimīlitākṣāḥ kṣiṇvanto bhṛśamanyonyamarditāḥ saṃnyastakavacā dehairvipannāyudhajīvitāḥ 58 tataḥ śalye nipatite madra rājānujo yuvā bhrātuḥ sarvairguṇaistulyo rathī pāṇḍavamabhyayāt 59 vivyādha ca naraśreṣṭho nārācairbahubhistvaran hatasyāpacitiṃ bhrātuścikīrṣuryuddhadurmadaḥ 60 taṃ vivyādhāśugaiḥ ṣaḍbhirdharmarājastvaranniva kārmukaṃ cāsya ciccheda kṣurābhyāṃ dhvajameva ca 61 tato'sya dīpyamānena sudṛḍhena śitena ca pramukhe vartamānasya bhallenāpāharacchiraḥ 62 sakuṇḍalaṃ taddadṛśe patamānaṃ śiro rathāt puṇyakṣayamiva prāpya patantaṃ svargavāsinam 63 tasyāpakṛṣṭaśīrṣaṃ taccharīraṃ patitaṃ rathāt rudhireṇāvasiktāṅgaṃ dṛṣṭā sainyamabhajyata 64 vicitrakavace tasminhate madra nṛpānuje hāhākāraṃ vikurvāṇāḥ kuravo vipradudruvuḥ 65 śalyānujaṃ hataṃ dṛṣṭvā tāvakāstyaktajīvitāḥ vitresuḥ pāṇḍavabhayādra jodhvastāstathā bhṛśam 66 tāṃstathā bhajyatastrastānkauravānbharatarṣabha śinernaptā kiranbāṇairabhyavartata sātyakiḥ 67 tamāyāntaṃ maheṣvāsamaprasahyaṃ durāsadam hārdikyastvarito rājanpratyagṛhṇādabhītavat 68 tau sametau mahātmānau vārṣṇeyāvaparājitau hārdikyaḥ sātyakiścaiva siṃhāviva madotkaṭau 69 iṣubhirvimalābhāsaiśchādayantau parasparam arcirbhiriva sūryasya divākarasamaprabhau 70 cāpamārgabaloddhūtānmārgaṇānvṛṣṇisiṃhayoḥ ākāśe samapaśyāma pataṅgāniva śīghragān 71 sātyakiṃ daśabhirviddhvā hayāṃścāsya tribhiḥ śaraiḥ cāpamekena ciccheda hārdikyo nataparvaṇā 72 tannikṛttaṃ dhanuḥ śreṣṭhamapāsya śinipuṅgavaḥ anyadādatta vegena vegavattaramāyudham 73 tadādāya dhanuḥ śreṣṭhaṃ variṣṭhaḥ sarvadhanvinām hārdikyaṃ daśabhirbāṇaiḥ pratyavidhyatstanāntare 74 tato rathaṃ yugeṣāṃ ca chittvā bhallaiḥ susaṃyataiḥ aśvāṃstasyāvadhīttūrṇabhubhau ca pārṣṇisārathī 75 madra rāje hate rājanvirathe kṛtavarmaṇi duryodhanabalaṃ sarvaṃ punarāsītparāṅmukham 76 tatpare nāvabudhyanta sainyena rajasā vṛte balaṃ tu hatabhūyiṣṭhaṃ tattadāsītparāṅmukham 77 tato muhūrtātte'paśyanrajo bhaumaṃ samutthitam vividhaiḥ śoṇitasrāvaiḥ praśāntaṃ puruṣarṣabha 78 tato duryodhano dṛṣṭvā bhagnaṃ svabalamantikāt javenāpatataḥ pārthānekaḥ sarvānavārayat 79 pāṇḍavānsarathāndṛṣṭvā dhṛṣṭadyumnaṃ ca pārṣatam ānartaṃ ca durādharṣaṃ śitairbāṇairavākirat 80 taṃ pare nābhyavartanta martyā mṛtyumivāgatam athānyaṃ rathamāsthāya hārdikyo'pi nyavartata 81 tato yudhiṣṭhiro rājā tvaramāṇo mahārathaḥ caturbhirnijaghānāśvānpatribhiḥ kṛtavarmaṇaḥ vivyādha gautamaṃ cāpi ṣaḍbhirbhallaiḥ sutejanaiḥ 82 aśvatthāmā tato rājñā hatāśvaṃ virathīkṛtam samapovāha hārdikyaṃ svarathena yudhiṣṭhirāt 83 tataḥ śāradvato'ṣṭābhiḥ pratyavidhyadyudhiṣṭhiram vivyādha cāśvānniśitaistasyāṣṭābhiḥ śilīmukhaiḥ 84 evametanmahārāja yuddhaśeṣamavartata tava durmantrite rājansahaputrasya bhārata 85 tasminmaheṣvāsavare viśaste saṃgrāmamadhye kurupuṅgavena pārthāḥ sametāḥ paramaprahṛṣṭāḥ śaṅkhānpradadhmurhatamīkṣya śalyam 86 yudhiṣṭhiraṃ ca praśaśaṃsurājau purā surā vṛtravadhe yathendram cakruśca nānavidhavādyaśabdānninādayanto vasudhāṃ samantāt 87 iti śrīmahābhārate śalyaparvaṇi ṣoḍaśo'dhyāyaḥ 16 samāptaṃ śalyavadhaparva sañjaya uvāca| taṃ bhīmasenaśca śineśca naptā mādyāśca putrau puruṣapravīrau| samāgataṃ bhīmabalena rājñā paryāpuranyonyamathāhvayanta||
Verse 2
ततस्तु शूराः समरे नरेन्द्र नरेश्वरं प्राप्य युधां वरिष्ठम्। आवार्य चैनं समरे नृवीरा जघ्नुः शितैः पत्रिभिरुग्रवेगैः।।
tatastu śūrāḥ samare narendra nareśvaraṃ prāpya yudhāṃ variṣṭham| āvārya cainaṃ samare nṛvīrā jaghnuḥ śitaiḥ patribhirugravegaiḥ||
Verse 3
संरक्षितो भीमसेनेन राजा माद्रीसुताभ्यामथ माधवेन। मद्राधिपं पत्रिभिरुग्रवेगैः स्तनान्तरे धर्मसुतो निजघ्ने।।
saṃrakṣito bhīmasenena rājā mādrīsutābhyāmatha mādhavena| madrādhipaṃ patribhirugravegaiḥ stanāntare dharmasuto nijaghne||
Verse 4
ततो रणे तावकानां रथौघाः समीक्ष्य मद्राधिपतिं शरार्तम्। पर्यावव्रुः प्रवराः सर्वयोधा दुर्योधनस्यानुमते पुरस्तात्।।
tato raṇe tāvakānāṃ rathaughāḥ samīkṣya madrādhipatiṃ śarārtam| paryāvavruḥ pravarāḥ sarvayodhā duryodhanasyānumate purastāt||
Verse 5
ततो द्रुतं मद्रजनाधिपो रणे युधिष्ठिरं सप्तभिरभ्यविद्व्यत्। तं चापि पार्थौ नवभिः पृषत्कै-- र्विव्याध राजंस्तुमुले महात्मा।।
tato drutaṃ madrajanādhipo raṇe yudhiṣṭhiraṃ saptabhirabhyavidvyat| taṃ cāpi pārthau navabhiḥ pṛṣatkai-- rvivyādha rājaṃstumule mahātmā||
Verse 6
आकर्णपूर्णायतसम्प्रयुक्तैः शरैस्तदा संयति तैलधौतैः। अन्योन्यमाच्छादयतां महारथौ मद्राधिपश्चापि युधिष्ठिरश्च।।
ākarṇapūrṇāyatasamprayuktaiḥ śaraistadā saṃyati tailadhautaiḥ| anyonyamācchādayatāṃ mahārathau madrādhipaścāpi yudhiṣṭhiraśca||
Verse 7
ततस्तु तूर्णं समरे महारथौ परस्परस्यान्तरमीक्षमाणौ। शरैर्भृशं विव्यधतुर्नृपोत्तमौ महबलौ शत्रुभिरप्रधृष्यौ।।
tatastu tūrṇaṃ samare mahārathau parasparasyāntaramīkṣamāṇau| śarairbhṛśaṃ vivyadhaturnṛpottamau mahabalau śatrubhirapradhṛṣyau||
Verse 8
तयोर्धनुर्ज्यातलनिःस्वनो महा-- न्महेन्द्रवज्राशनितुल्यनिः स्वनः। परस्परं बाणगणैर्महात्मनोः प्रवर्षतोर्मद्रपपाण्डुवीरयोः।।
tayordhanurjyātalaniḥsvano mahā-- nmahendravajrāśanitulyaniḥ svanaḥ| parasparaṃ bāṇagaṇairmahātmanoḥ pravarṣatormadrapapāṇḍuvīrayoḥ||
Verse 9
तौ चेरतुर्व्याघ्रशिशुप्रकाशौ महावनेष्वामिषगृद्विनाविव। विषाणिनौ नागवराविवोभौ ततक्षतुः संयति जातदर्पौ।।
tau ceraturvyāghraśiśuprakāśau mahāvaneṣvāmiṣagṛdvināviva| viṣāṇinau nāgavarāvivobhau tatakṣatuḥ saṃyati jātadarpau||
Verse 10
ततस्तु मद्राधिपतिर्महात्मा युधिष्ठिरं भीमबलं प्रसह्य। विव्याध वीरं हृदयेऽतिवेगं शरेण सूर्याग्निसमप्रभेण।।
tatastu madrādhipatirmahātmā yudhiṣṭhiraṃ bhīmabalaṃ prasahya| vivyādha vīraṃ hṛdaye'tivegaṃ śareṇa sūryāgnisamaprabheṇa||
Verse 11
ततोऽतिविद्धोऽथ युधिष्ठिरोऽपि सुसम्प्रयुक्तेन शरेण राजन्। जघान मद्राधिपतिं महात्मा मुदं च लेभे वृषभः कुरूणाम्।।
tato'tividdho'tha yudhiṣṭhiro'pi susamprayuktena śareṇa rājan| jaghāna madrādhipatiṃ mahātmā mudaṃ ca lebhe vṛṣabhaḥ kurūṇām||
Verse 12
ततो मुहूर्तादिव पार्थिवेन्द्रो लब्ध्वा संज्ञां क्रोधसंरक्तनेत्रः। शरेण पार्थं त्वरितो जघान सहस्रनेत्रप्रतिमप्रभावः।।
tato muhūrtādiva pārthivendro labdhvā saṃjñāṃ krodhasaṃraktanetraḥ| śareṇa pārthaṃ tvarito jaghāna sahasranetrapratimaprabhāvaḥ||
Verse 13
त्वरंस्ततो धर्मसुतो महात्मा शल्यस्य कोपान्नवभिः पृषत्कैः। भित्त्वा ह्युरस्तपनीयं च वर्म जघान षड्भिस्त्वपरैः पृषत्कैः।।
tvaraṃstato dharmasuto mahātmā śalyasya kopānnavabhiḥ pṛṣatkaiḥ| bhittvā hyurastapanīyaṃ ca varma jaghāna ṣaḍbhistvaparaiḥ pṛṣatkaiḥ||
Verse 14
ततस्तु मद्राधिपतिः प्रकृष्टं धनुर्विकृष्य व्यसृजत्पृषत्कान्। द्वाभ्यां शराभ्यां च तथैव राज्ञ-- श्चिच्छेद चापं कुरुपुङ्गवस्य।।
tatastu madrādhipatiḥ prakṛṣṭaṃ dhanurvikṛṣya vyasṛjatpṛṣatkān| dvābhyāṃ śarābhyāṃ ca tathaiva rājña-- ściccheda cāpaṃ kurupuṅgavasya||
Verse 15
नवं ततोऽन्यत्समरे प्रगृह्य राजा धनुर्धोरतरं महात्मा। शल्यं तु विव्याध शरैः समन्ता-- द्यथा महेन्द्रो नमुचिं शिताग्रैः।।
navaṃ tato'nyatsamare pragṛhya rājā dhanurdhorataraṃ mahātmā| śalyaṃ tu vivyādha śaraiḥ samantā-- dyathā mahendro namuciṃ śitāgraiḥ||
Verse 16
ततस्तु शल्यो नवभिः पृषत्कै-- र्भीमस्य राज्ञश्च युधिष्ठिरस्य। निकृत्य रौक्मे पटुवर्मणी तयो-- र्विदास्यामास भुजौ महात्मा।। तोयमिव सुप्रवेशाङ्गाम्। अप्रसक्तः अप्रतिहता। नृपतेः शल्यस्य।।
tatastu śalyo navabhiḥ pṛṣatkai-- rbhīmasya rājñaśca yudhiṣṭhirasya| nikṛtya raukme paṭuvarmaṇī tayo-- rvidāsyāmāsa bhujau mahātmā|| toyamiva supraveśāṅgām| aprasaktaḥ apratihatā| nṛpateḥ śalyasya||
Verse 17
ततोऽपरेण ज्वलनार्कतेजसा क्षुरेण राज्ञो धनुरुन्ममाथ। कृपश्च तस्यैव जघान सूतं षड्भिः शरैः सोऽभिमुखः पपात।।
tato'pareṇa jvalanārkatejasā kṣureṇa rājño dhanurunmamātha| kṛpaśca tasyaiva jaghāna sūtaṃ ṣaḍbhiḥ śaraiḥ so'bhimukhaḥ papāta||
Verse 18
मद्राधिपश्चापि युधिष्ठिरस्य शरैश्चतुर्भिर्निजघान वाहान्। वाहांश्च हत्वा व्यकरोन्महात्मा योधक्षयं धर्मसुतस्य राज्ञः।।
madrādhipaścāpi yudhiṣṭhirasya śaraiścaturbhirnijaghāna vāhān| vāhāṃśca hatvā vyakaronmahātmā yodhakṣayaṃ dharmasutasya rājñaḥ||
Verse 19
यदद्भुतं कर्म न शक्यमन्यैः सुदुःसहं तत्कृतवन्तमेकम्। शल्यो नरेन्द्रः सविषण्णभावा-- द्विचिन्तयामास मृदङ्गकेतुः।।
yadadbhutaṃ karma na śakyamanyaiḥ suduḥsahaṃ tatkṛtavantamekam| śalyo narendraḥ saviṣaṇṇabhāvā-- dvicintayāmāsa mṛdaṅgaketuḥ||
Verse 20
किमेतदिन्द्रावरजस्य वाक्यं मोघं भवत्यद्य विधेर्बलेन। जहीति शल्यं ह्यवदत्तदाऽऽजौ न लोकनाथस्य वचोऽन्यथा स्यात्।।
kimetadindrāvarajasya vākyaṃ moghaṃ bhavatyadya vidherbalena| jahīti śalyaṃ hyavadattadā''jau na lokanāthasya vaco'nyathā syāt||
Verse 21
तथा कृते राजनि भीमसेनो मद्राधिपस्याथ ततो महात्मा। छित्त्वा धनुर्वेगवता शरेण द्वाभ्यामविध्यत्सुभृशं नरेन्द्रम्।।
tathā kṛte rājani bhīmaseno madrādhipasyātha tato mahātmā| chittvā dhanurvegavatā śareṇa dvābhyāmavidhyatsubhṛśaṃ narendram||
Verse 22
तथापरेणास्य जहार यन्तुः कायाच्छिरः संहननीयमध्यात्। जघान चाश्वांश्चतुरः सुशीघ्रं तथा भृशं कुपितो भीमसेनः।। ।। इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे षोडशोऽध्यायः।। 16 ।।
tathāpareṇāsya jahāra yantuḥ kāyācchiraḥ saṃhananīyamadhyāt| jaghāna cāśvāṃścaturaḥ suśīghraṃ tathā bhṛśaṃ kupito bhīmasenaḥ|| || iti śrīmanmahābhārate śalyaparvaṇi śalyavadhaparvaṇi aṣṭādaśadivasayuddhe ṣoḍaśo'dhyāyaḥ|| 16 ||
Verse 23
तमग्रणीः सर्वधनुर्धराणा-- मेकं चरन्तं समरेऽतिवेगम्। भीमः शतेन व्यकिरच्छराणां माद्रीपुत्रः सहदेवस्तथैव।।
tamagraṇīḥ sarvadhanurdharāṇā-- mekaṃ carantaṃ samare'tivegam| bhīmaḥ śatena vyakiraccharāṇāṃ mādrīputraḥ sahadevastathaiva||
Verse 24
तैः सायकैर्मोहितं वीक्ष्य शल्यं भीमः शरैरस्य चकर्त वर्म। स भीमसेनेन निकृत्तवर्मा मद्राधिपश्चर्म सहस्रतारम्।।
taiḥ sāyakairmohitaṃ vīkṣya śalyaṃ bhīmaḥ śarairasya cakarta varma| sa bhīmasenena nikṛttavarmā madrādhipaścarma sahasratāram||
Verse 25
प्रगृह्य खङ्गं च रथान्महात्मा प्रस्कन्द्य कुन्तीसुतमभ्यधावत्। छित्त्वा रथेषां नकुलस्य सोऽथ युधिष्ठिरं भीमबलोऽभ्यधावत्।।
pragṛhya khaṅgaṃ ca rathānmahātmā praskandya kuntīsutamabhyadhāvat| chittvā ratheṣāṃ nakulasya so'tha yudhiṣṭhiraṃ bhīmabalo'bhyadhāvat||
Verse 26
तं चापि राजानमथोत्पतन्तं क्रुद्धं यथैवान्तकमापतन्तम्। धृष्टद्युम्नो द्रौपदेयाः शिखण्डी शिनेश्च नप्ता सहसा परीयुः।।
taṃ cāpi rājānamathotpatantaṃ kruddhaṃ yathaivāntakamāpatantam| dhṛṣṭadyumno draupadeyāḥ śikhaṇḍī śineśca naptā sahasā parīyuḥ||
Verse 27
अथास्य चर्माप्रतिमं न्यकृन्त-- द्भीमो महात्मा नवभिः पृषत्कैः। खङ्गं च भल्लैर्निचकर्त मुष्टौ नदन्प्रहृष्टस्तव सैन्यमध्ये।।
athāsya carmāpratimaṃ nyakṛnta-- dbhīmo mahātmā navabhiḥ pṛṣatkaiḥ| khaṅgaṃ ca bhallairnicakarta muṣṭau nadanprahṛṣṭastava sainyamadhye||
Verse 28
तत्कर्म भीमस्य समीक्ष्य हृष्टा-- स्ते पाण्डवानां प्रवरा रथौघाः। नादं च चक्रुर्भृशमुत्स्मयन्तः शङ्खांश्च दध्मुः शशिसन्निकाशान्।।
tatkarma bhīmasya samīkṣya hṛṣṭā-- ste pāṇḍavānāṃ pravarā rathaughāḥ| nādaṃ ca cakrurbhṛśamutsmayantaḥ śaṅkhāṃśca dadhmuḥ śaśisannikāśān||
Verse 29
तेनाथ शब्देन विभीषणेन तथाऽभितप्तं बलमप्रधृष्यम्। स्वेदाभिभूतं रुधिरोक्षिताङ्गं विसञ्ज्ञकल्पं च तदा विषण्णम्।।
tenātha śabdena vibhīṣaṇena tathā'bhitaptaṃ balamapradhṛṣyam| svedābhibhūtaṃ rudhirokṣitāṅgaṃ visañjñakalpaṃ ca tadā viṣaṇṇam||
Verse 30
स मद्रराजः सहसा विकीर्णो भीमाग्रगैः पाण्डवयोधमुख्यैः। युधिष्ठिरस्याभिमुखं जवेन सिंहो यथा मृगहेतोः प्रयातः।।
sa madrarājaḥ sahasā vikīrṇo bhīmāgragaiḥ pāṇḍavayodhamukhyaiḥ| yudhiṣṭhirasyābhimukhaṃ javena siṃho yathā mṛgahetoḥ prayātaḥ||
Verse 31
स धर्मराजो निहताश्वसूतः क्रोधेन दीप्तो ज्वलनप्रकाशः। दृष्ट्वा च मद्राधिपतिं स्म तूर्णं समभ्यधावत्तमरिं बलेन।।
sa dharmarājo nihatāśvasūtaḥ krodhena dīpto jvalanaprakāśaḥ| dṛṣṭvā ca madrādhipatiṃ sma tūrṇaṃ samabhyadhāvattamariṃ balena||
Verse 32
गोविन्दवाक्यं त्वरितं विचिन्त्य दध्रे मतिं शल्यविनाशनाय। स धर्मराजो निहताश्वसूतो रथे तिष्ठञ्शक्तिमथान्वकर्षत्।।
govindavākyaṃ tvaritaṃ vicintya dadhre matiṃ śalyavināśanāya| sa dharmarājo nihatāśvasūto rathe tiṣṭhañśaktimathānvakarṣat||
Verse 33
तच्चxx शल्यस्य निशाम्य कर्म तमात्मनो भागमथावशिष्टम्। कृत्वा मनः शल्यवधे महात्मा यथोक्तमिन्द्रावरजस्य चक्रे।।
taccaxx śalyasya niśāmya karma tamātmano bhāgamathāvaśiṣṭam| kṛtvā manaḥ śalyavadhe mahātmā yathoktamindrāvarajasya cakre||
Verse 34
स धर्मराजो मणिहेमदण्डां जग्राह शक्तिं कनकप्रकाशाम्। नेत्रे च दीप्ते सहसा विवृत्य मद्राधिपं क्रुद्धमना निरैक्षत्।।
sa dharmarājo maṇihemadaṇḍāṃ jagrāha śaktiṃ kanakaprakāśām| netre ca dīpte sahasā vivṛtya madrādhipaṃ kruddhamanā niraikṣat||
Verse 35
निरीक्षितो धर्मसुतेन राज्ञा षूतात्मना निर्हृतकल्मषेण। आसीन्न यद्भस्मसान्मद्रराज-- स्तदद्भुतं मे प्रतिभाति राजन्।।
nirīkṣito dharmasutena rājñā ṣūtātmanā nirhṛtakalmaṣeṇa| āsīnna yadbhasmasānmadrarāja-- stadadbhutaṃ me pratibhāti rājan||
Verse 36
ततस्तु शक्तिं रचिरोग्रदण्डां मणिप्रवेकोज्ज्वलितां प्रदीप्ताम्। चिक्षेप वेगात्सुभृशं महात्मा मद्राधिपाय प्रवरः कुरूणाम्।।
tatastu śaktiṃ racirogradaṇḍāṃ maṇipravekojjvalitāṃ pradīptām| cikṣepa vegātsubhṛśaṃ mahātmā madrādhipāya pravaraḥ kurūṇām||
Verse 37
दीप्तामथैनां प्रहितां बलेन सविस्फुलिङ्गां सहसापतन्तीम्। प्रैक्षन्त सर्वे कुरवः समेता दिवो युगान्ते महतीमिवोल्काम्।।
dīptāmathaināṃ prahitāṃ balena savisphuliṅgāṃ sahasāpatantīm| praikṣanta sarve kuravaḥ sametā divo yugānte mahatīmivolkām||
Verse 38
तां कालरात्रीमिव पाशहस्तां यमस्य धात्रीमिव चोग्ररूपाम्। स ब्रह्मदण्डप्रतिमाममोधां ससर्ज यत्तो युधि धर्मराजः।।
tāṃ kālarātrīmiva pāśahastāṃ yamasya dhātrīmiva cograrūpām| sa brahmadaṇḍapratimāmamodhāṃ sasarja yatto yudhi dharmarājaḥ||
Verse 39
गन्धस्रगग्र्यासनपानभोजनै-- रभ्यर्चितां पाण्डुसुतैः प्रयत्नात्। सांवर्तकाग्निप्रतिमां ज्वलन्तीं कृत्यामथर्वाङ्गिरसीमिवोग्राम्।।
gandhasragagryāsanapānabhojanai-- rabhyarcitāṃ pāṇḍusutaiḥ prayatnāt| sāṃvartakāgnipratimāṃ jvalantīṃ kṛtyāmatharvāṅgirasīmivogrām||
Verse 40
ईशानहेतोः प्रतिनिर्मितां तां त्वष्ट्रा रिपूणामसुदेहभक्ष्याम्। भूम्यन्तरिक्षद्युजलाश्रयाणि प्रसह्य भूतानि निहन्तुमीशाम्।।
īśānahetoḥ pratinirmitāṃ tāṃ tvaṣṭrā ripūṇāmasudehabhakṣyām| bhūmyantarikṣadyujalāśrayāṇi prasahya bhūtāni nihantumīśām||
Verse 41
घण्टापताकां मणिवज्रभूषां वैदूर्यचित्रां तपनीयदण्डाम्। त्वष्ट्रा प्रयत्नान्नियमेन क्लृप्तां ब्रह्मद्विषामन्तकरीममाघाम्।।
ghaṇṭāpatākāṃ maṇivajrabhūṣāṃ vaidūryacitrāṃ tapanīyadaṇḍām| tvaṣṭrā prayatnānniyamena klṛptāṃ brahmadviṣāmantakarīmamāghām||
Verse 42
बलप्रयत्नादनिरोधवेगां मन्त्रैश्च घोरैरपि पूरयित्वा। ससर्ज मार्गेण च तां खगानां वधाय मद्राधिपतेस्तदानीम्।।
balaprayatnādanirodhavegāṃ mantraiśca ghorairapi pūrayitvā| sasarja mārgeṇa ca tāṃ khagānāṃ vadhāya madrādhipatestadānīm||
Verse 43
हतो ह्यसावित्यभिगर्जमानो रुद्रोऽन्धकायान्तकरं यथेषुम्। प्रसार्य बाहुं सुदृढं सुपाणिं क्रोधेन नृत्यन्निव धर्मराजः।।
hato hyasāvityabhigarjamāno rudro'ndhakāyāntakaraṃ yatheṣum| prasārya bāhuṃ sudṛḍhaṃ supāṇiṃ krodhena nṛtyanniva dharmarājaḥ||
Verse 44
स्फुरत्प्रभामण्डलिनोंशुजालै-- र्धर्मात्मनो मद्रविनाशकाले। पुरत्रयप्रोत्सरणे पुरस्ता-- न्माहेश्वरं रूपमभूत्तदानीम्।।
sphuratprabhāmaṇḍalinoṃśujālai-- rdharmātmano madravināśakāle| puratrayaprotsaraṇe purastā-- nmāheśvaraṃ rūpamabhūttadānīm||
Verse 45
आवर्तनाकुञ्चितबाहुदण्डः सन्ध्याविहारी तनुवृत्तमध्यः। विशालवक्षा भगवान्हरो यथा सुदुर्निरीक्ष्योऽभवदर्जुनाग्रजः।।
āvartanākuñcitabāhudaṇḍaḥ sandhyāvihārī tanuvṛttamadhyaḥ| viśālavakṣā bhagavānharo yathā sudurnirīkṣyo'bhavadarjunāgrajaḥ||
Verse 46
तां सर्वशक्त्या प्रहितां सुशक्तिं युधिष्ठिरेणाप्रतिवार्यवीर्याम्। प्रतिग्रहायाभिननन्द शल्यः सम्यग्घुतामग्निरिवाज्यधाराम्।।
tāṃ sarvaśaktyā prahitāṃ suśaktiṃ yudhiṣṭhireṇāprativāryavīryām| pratigrahāyābhinananda śalyaḥ samyagghutāmagnirivājyadhārām||
Verse 47
सा तस्य वर्माभिविदार्य शुभ्र-- मुरो विशालं च तथैव भित्त्वा। विवेश गां तोयमिवाप्रसक्ता यशो विशालं नृपतेर्हरन्ती।। संहननीयो दृढसन्धिको मध्यो यस्य तस्मात्कायात्।।
sā tasya varmābhividārya śubhra-- muro viśālaṃ ca tathaiva bhittvā| viveśa gāṃ toyamivāprasaktā yaśo viśālaṃ nṛpaterharantī|| saṃhananīyo dṛḍhasandhiko madhyo yasya tasmātkāyāt||
Verse 48
नासाक्षिकर्णास्यविनिः सृतेन प्रस्यन्दता च व्रणसम्भवेन। संसिक्तगात्रो रुधिरेण सोऽभू-- त्क्रौञ्चो यथा स्कन्दहतो महाद्रिः।।
nāsākṣikarṇāsyaviniḥ sṛtena prasyandatā ca vraṇasambhavena| saṃsiktagātro rudhireṇa so'bhū-- tkrauñco yathā skandahato mahādriḥ||
Verse 49
प्रसार्य बाहू च रथाद्गतो गां सञ्छिन्नवर्मा कुरुनन्दनेन। महेन्द्रवाहप्रतिमो महात्मा वज्राहतं शृङ्गमिवाचलस्य।।
prasārya bāhū ca rathādgato gāṃ sañchinnavarmā kurunandanena| mahendravāhapratimo mahātmā vajrāhataṃ śṛṅgamivācalasya||
Verse 50
ततो निपतितः सोऽभूदिन्द्रध्वज इवोच्छ्रितः। बाहू प्रसार्याभिमुखो धर्मराजस्य मद्रराट्। स तथा भिन्नसर्वाङ्गो रुधिरेण समुक्षितः।।
tato nipatitaḥ so'bhūdindradhvaja ivocchritaḥ| bāhū prasāryābhimukho dharmarājasya madrarāṭ| sa tathā bhinnasarvāṅgo rudhireṇa samukṣitaḥ||
Verse 51
प्रत्युद्गत इव प्रेम्णा भूम्या स नरपुङ्गवः। प्रियया कान्तया कान्तः पतमान इवोरसि।।
pratyudgata iva premṇā bhūmyā sa narapuṅgavaḥ| priyayā kāntayā kāntaḥ patamāna ivorasi||
Verse 52
चिरं भुक्त्वा वसुमतीं प्रियां कान्तामिव प्रभुः। सर्वैरङ्गैः समाश्लिष्य प्रसुप्त इव चाभवत्।।
ciraṃ bhuktvā vasumatīṃ priyāṃ kāntāmiva prabhuḥ| sarvairaṅgaiḥ samāśliṣya prasupta iva cābhavat||
Verse 53
धर्म्ये धर्मात्मना युद्वे निहतो धर्मसूनुना। सम्यक्स्फीत इवोत्सृष्टः प्रशान्तोऽग्निरिवाध्वरे।।
dharmye dharmātmanā yudve nihato dharmasūnunā| samyaksphīta ivotsṛṣṭaḥ praśānto'gnirivādhvare||
Verse 54
शक्त्या विभिन्नहृदयं विप्रविद्धायुधध्वजम्। संशान्तमपि मद्रेशं लक्ष्मीर्नैव विमुञ्चति।।
śaktyā vibhinnahṛdayaṃ vipraviddhāyudhadhvajam| saṃśāntamapi madreśaṃ lakṣmīrnaiva vimuñcati||
Verse 55
ततो युधिष्ठिरश्चापमादायेन्द्रधनुष्प्रभम्। व्यधमद्द्विषतः सङ्ख्ये खगराडिव पन्नगान्। देहान्सुनिशितैर्भल्लै रिपूणां नाशयन्क्षणात्।।
tato yudhiṣṭhiraścāpamādāyendradhanuṣprabham| vyadhamaddviṣataḥ saṅkhye khagarāḍiva pannagān| dehānsuniśitairbhallai ripūṇāṃ nāśayankṣaṇāt||
Verse 56
ततः पार्थस्य बाणौघैरावृताः सैनिकास्तव। निमीलिताक्षाः क्षिण्वन्ति भृशमन्योन्यकर्शिताः। क्षरन्तो रुधिरं देहैर्विशस्त्रायुधजीविताः।।
tataḥ pārthasya bāṇaughairāvṛtāḥ sainikāstava| nimīlitākṣāḥ kṣiṇvanti bhṛśamanyonyakarśitāḥ| kṣaranto rudhiraṃ dehairviśastrāyudhajīvitāḥ||
Verse 57
ततः शल्ये निपतिते मद्रराजानुजो युवा। भ्रातुस्तुल्यो गुणैः सर्वै रथी पाण्डवमभ्ययात्।।
tataḥ śalye nipatite madrarājānujo yuvā| bhrātustulyo guṇaiḥ sarvai rathī pāṇḍavamabhyayāt||
Verse 58
विव्याध च नरश्रेष्ठो नाराचैर्बहुभिस्त्वरन्। हतस्यापचितिं भ्रातुश्चिकीषुर्युद्धदुर्मदः।।
vivyādha ca naraśreṣṭho nārācairbahubhistvaran| hatasyāpacitiṃ bhrātuścikīṣuryuddhadurmadaḥ||
Verse 59
तं विव्याधाशुगैः ष़ड्भिर्धर्मराजस्त्वरन्निव। कार्मुकं चास्य चिच्छेद क्षुराभ्यां ध्वजमेव च।।
taṃ vivyādhāśugaiḥ ṣa़ḍbhirdharmarājastvaranniva| kārmukaṃ cāsya ciccheda kṣurābhyāṃ dhvajameva ca||
Verse 60
ततोऽस्य दीप्यमानेन सुदृढेन शितेन च। प्रमुखे वर्तमानस्य भल्लेनापाहरच्छिरः।।
tato'sya dīpyamānena sudṛḍhena śitena ca| pramukhe vartamānasya bhallenāpāharacchiraḥ||
Verse 61
सकुण्डलं तद्ददृशे पतमानं शिरो रथात्। पुण्यक्षयमनुप्राप्य पतन्स्वर्गादिव च्युतः।।
sakuṇḍalaṃ taddadṛśe patamānaṃ śiro rathāt| puṇyakṣayamanuprāpya patansvargādiva cyutaḥ||
Verse 62
तस्यापकृत्तशीर्षं तु शरीरं पतितं रथात्। रुधिरेणावसिक्ताङ्गं दृष्ट्वा सैन्यमभज्यत।।
tasyāpakṛttaśīrṣaṃ tu śarīraṃ patitaṃ rathāt| rudhireṇāvasiktāṅgaṃ dṛṣṭvā sainyamabhajyata||
Verse 63
विचित्रकवचे तस्मिन्हते मद्रनृपानुजे। हाहाकारं प्रकुर्वाणाः कुरवोऽभिप्रदुद्रुवुः।।
vicitrakavace tasminhate madranṛpānuje| hāhākāraṃ prakurvāṇāḥ kuravo'bhipradudruvuḥ||
Verse 64
शल्यानुजं हतं दृष्ट्वा तावकास्त्यक्तजीविताः। वित्रेसुः पाण्डवभयात्प्रविध्वस्तास्तदा भृशम्।।
śalyānujaṃ hataṃ dṛṣṭvā tāvakāstyaktajīvitāḥ| vitresuḥ pāṇḍavabhayātpravidhvastāstadā bhṛśam||
Verse 65
तांस्तथा भज्यमानांस्तु कौरवान्भरतर्षभ। शिनेर्नप्ताऽकिरन्बाणैरभ्यवर्तत सात्यकिः।।
tāṃstathā bhajyamānāṃstu kauravānbharatarṣabha| śinernaptā'kiranbāṇairabhyavartata sātyakiḥ||
Verse 66
तमायान्तं महेष्वासं दुष्प्रसह्यं दुरासदम्। हार्दिक्यस्त्वरितो राजन्प्रत्यगृह्णादभीतवत्।।
tamāyāntaṃ maheṣvāsaṃ duṣprasahyaṃ durāsadam| hārdikyastvarito rājanpratyagṛhṇādabhītavat||
Verse 67
तौ समेतौ महात्मानौ वार्ष्णेयौ वरवाजिनौ। हार्दिक्यः सात्यकिश्चैव सिंहाविव बलोत्कटौ।।
tau sametau mahātmānau vārṣṇeyau varavājinau| hārdikyaḥ sātyakiścaiva siṃhāviva balotkaṭau||
Verse 68
इषुभिर्विमलाभासैश्छादयन्तौ परस्परम्। अर्चिर्भिरिव सूर्यस्य दिवाकरसमप्रभौ।।
iṣubhirvimalābhāsaiśchādayantau parasparam| arcirbhiriva sūryasya divākarasamaprabhau||
Verse 69
चापमार्गबलोद्वूतान्मार्गणान्वृष्णिसिंहयोः। आकाशगानपश्याम पतङ्गानिव शीघ्रगान्।।
cāpamārgabalodvūtānmārgaṇānvṛṣṇisiṃhayoḥ| ākāśagānapaśyāma pataṅgāniva śīghragān||
Verse 70
सात्यकिं दशभिर्विद्ध्वा हयांश्चास्य त्रिभिः शरैः। चापमेकेन चिच्छेद हार्दिक्यो नतपर्वणा।।
sātyakiṃ daśabhirviddhvā hayāṃścāsya tribhiḥ śaraiḥ| cāpamekena ciccheda hārdikyo nataparvaṇā||
Verse 71
तन्निकृत्तं धनुःश्रेष्ठमपास्य शिनिपुङ्गवः। अन्यदादत्त वेगेन धनुर्जलदनिःस्वनम्।।
tannikṛttaṃ dhanuḥśreṣṭhamapāsya śinipuṅgavaḥ| anyadādatta vegena dhanurjaladaniḥsvanam||
Verse 72
तदादाय धनुःश्रेष्ठं वरिष्ठः सर्वधन्विनाम्। हार्दिक्यं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे।।
tadādāya dhanuḥśreṣṭhaṃ variṣṭhaḥ sarvadhanvinām| hārdikyaṃ daśabhirbāṇaiḥ pratyavidhyatstanāntare||
Verse 73
ततो युगं रथेषां च च्छित्त्वा भल्लैः सुसंयतैः। अश्वांस्तस्यावधीत्तूर्णमुभौ च पार्ष्णिसारथी।।
tato yugaṃ ratheṣāṃ ca cchittvā bhallaiḥ susaṃyataiḥ| aśvāṃstasyāvadhīttūrṇamubhau ca pārṣṇisārathī||
Verse 74
हार्दिक्यं विरथं दृष्ट्वा कृपः शारद्वतः प्रभो। अपोवाह ततः क्षिप्रं रथमारोप्य वीर्यवान्।।
hārdikyaṃ virathaṃ dṛṣṭvā kṛpaḥ śāradvataḥ prabho| apovāha tataḥ kṣipraṃ rathamāropya vīryavān||
Verse 75
मद्रराजे हते राजन्विरथे कृतवर्मणि। दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम्।।
madrarāje hate rājanvirathe kṛtavarmaṇi| duryodhanabalaṃ sarvaṃ punarāsītparāṅmukham||
Verse 76
स्व परे नान्वबुध्यन्त सैन्येन रजसा वृते। बलं तु हतभूयिष्ठं त्रस्तमासीत्पराङ्मुखम्।।
sva pare nānvabudhyanta sainyena rajasā vṛte| balaṃ tu hatabhūyiṣṭhaṃ trastamāsītparāṅmukham||
Verse 77
ततो मुहूर्तात्तेऽपश्यन्रजो भौमं समुत्थितम्। विविधैः शोणितस्रावैः प्रशान्तं पुरुषर्षभ।।
tato muhūrtātte'paśyanrajo bhaumaṃ samutthitam| vividhaiḥ śoṇitasrāvaiḥ praśāntaṃ puruṣarṣabha||
Verse 78
ततो दुर्योधनो दृष्ट्वा भग्नं स्वबलमन्तिकात्। जवेनापततः पार्थानेकः सर्वानवारयत्।।
tato duryodhano dṛṣṭvā bhagnaṃ svabalamantikāt| javenāpatataḥ pārthānekaḥ sarvānavārayat||
Verse 79
पाण्डवान्सरथान्दृष्ट्वा धृष्टद्युम्नं च पार्षतम्। आनर्त्तं च दुराधर्षं शितैर्बाणैरवारयत्।।
pāṇḍavānsarathāndṛṣṭvā dhṛṣṭadyumnaṃ ca pārṣatam| ānarttaṃ ca durādharṣaṃ śitairbāṇairavārayat||
Verse 80
तं परे नाभ्यवर्तन्त मर्त्या मृत्युमिवागतम्। अथान्यं रथमास्थाय हार्दिक्योऽपि न्यवर्तत।।
taṃ pare nābhyavartanta martyā mṛtyumivāgatam| athānyaṃ rathamāsthāya hārdikyo'pi nyavartata||
Verse 81
ततो युधिष्ठिरो राजा त्वरमाणो महारथः। चतुर्भिर्निजघानाश्वान्पत्रिभिः कृतवर्मणः। विव्याध गौतमं चापि ष़ड्भिर्भल्लैः सुतेजनैः।।
tato yudhiṣṭhiro rājā tvaramāṇo mahārathaḥ| caturbhirnijaghānāśvānpatribhiḥ kṛtavarmaṇaḥ| vivyādha gautamaṃ cāpi ṣa़ḍbhirbhallaiḥ sutejanaiḥ||
Verse 82
अश्वत्थामाः ततो राज्ञा हताश्वं विरथीकृतम्। तमपोवाह हार्दिक्यं स्वरथेन युधिष्ठिरात्।।
aśvatthāmāḥ tato rājñā hatāśvaṃ virathīkṛtam| tamapovāha hārdikyaṃ svarathena yudhiṣṭhirāt||
Verse 83
ततः शारद्वतः षड्भिः प्रत्यविध्यद्युधिष्ठिरम्। विव्याध चाश्वान्निशितैस्तस्याष्टाभिः शिलीमुखैः।।
tataḥ śāradvataḥ ṣaḍbhiḥ pratyavidhyadyudhiṣṭhiram| vivyādha cāśvānniśitaistasyāṣṭābhiḥ śilīmukhaiḥ||
Verse 84
एवमेतन्महाराज युद्धशेषमवर्तत। तव दुर्मन्त्रिते राजन्सहपुत्रस्य भारत।।
evametanmahārāja yuddhaśeṣamavartata| tava durmantrite rājansahaputrasya bhārata||
Verse 85
तस्मिन्महेष्वासधरे विशस्ते सङ्ग्राममध्ये कुरुपुङ्गवेन। पार्थाः समेताः परमप्रहृष्टाः शङ्खान्प्रदध्मुर्हतमीक्ष्य शल्यम्।।
tasminmaheṣvāsadhare viśaste saṅgrāmamadhye kurupuṅgavena| pārthāḥ sametāḥ paramaprahṛṣṭāḥ śaṅkhānpradadhmurhatamīkṣya śalyam||
Verse 86
युधिष्ठिरं च प्रशशंसुराजौ पुरा सुरा वृत्रवधे यथेन्द्रम्। चक्रुश्च नानाविधवाद्यशब्दा-- न्निनादयन्तो वसुधां समन्तात्।।
yudhiṣṭhiraṃ ca praśaśaṃsurājau purā surā vṛtravadhe yathendram| cakruśca nānāvidhavādyaśabdā-- nninādayanto vasudhāṃ samantāt||