Lipi
Sign in
Classic reading room ↗

Adhyaya 33

Vana Parva · 90 verses

90 verses · free forever

English has not yet been added to this adhyaya. You can read the Ganesha passage or Vana Parva 312–315 with English.

Show
Listen to this section

Uses your saved HI voice · Narration settings

Narration reads the opening of this section. Longer passages are split to keep playback responsive.

  1. Verse 1

    भीमेन युधिष्ठिरंप्रति नीतिव्युत्पादनपूर्वकं युद्धेन राज्याहरणकर्तव्यत्वोक्तिः ।। 1 ।। वैशम्पायन उवाच।। याज्ञसेन्या वचः श्रुत्वा भीमसेनोऽत्यमर्षणः । निःश्वसन्नुपसङ्गम्य क्रुद्धो राजानमब्रवीत् ।।१।। राज्यस्य पदवीं धर्म्यां व्रज सत्पुरुषोचिताम् । धर्मकामार्थहीनानां किं नो वस्तुं तपोवने ।।२।। नैव धर्मेण तद्राज्यं नार्जवेन न चौजसा । अक्षकूटमधिष्ठाय हृतं दुर्योधनेन नः ।।३।। गोमायुनेव सिंहानां दुर्बलेन बलीयसाम् । आमिषं विघसाशेन तद्वद्राज्यं हि नो हृतम् ।।४।। धर्मलेशप्रतिच्छन्नः प्रभवं धर्मकामयोः । अर्थमुत्सृज्य किं राजन्दुर्गेषु परितप्यसे ।।५।। भवतोऽनुविधानेन राज्यं नः पश्यतां हृतम् । अहार्यमपि शक्रेण गुप्तं गाण्डीवधन्वना ।।६।। कुणीनामिव बिल्वानि पङ्गूनामिव धेनवः । हृतमैश्वर्यमस्माकं जीवतां भवतः कृते ।।७।। भवतः प्रियमित्येवं महद्व्यसनमीदृशम् । धर्मकामे प्रतीतस्य प्रतिपन्नाः स्म भारत ।।८।। कर्शयामः स्वमित्राणि नन्दयामश्च शात्रवान् । आत्मानं भवतः शास्त्रे नियम्य भरतर्षभ ।।९।। यद्वयं न तदैवैतान्धार्तराष्ट्रान्निहन्महि । भवतः शास्त्रमादाय तन्नस्तपति दुष्कृतम् ।।१०।। अथैनामन्ववेक्षस्व मृगचर्यामिवात्मनः । अवीराचरितां राजन्न बलस्थैर्निषेविताम् ।।११।। यां न कृष्णो न बीभत्सुर्नाभिमन्युर्न सृञ्जयः । न चाहमभिनन्दामि न च माद्रीसुतावुभौ ।।१२।। भवान्धर्मो धर्म इति सततं व्रतकर्शितः । कच्चिद्राजन्न निर्वेदादापन्नः क्लीबजीविकाम् ।।१३।। दुर्मनुष्या हि निर्वेदमफलं सर्वघातिनम् । अशक्ताः श्रियमाहर्तुमात्मनः कुर्वते प्रियम् ।।१४।। स भवान्दृष्टिमाञ्शक्तः पश्यन्नात्मनि पौरुषम् । आनृशंस्यपरो राजन्नानर्थमवबुध्यसे ।।१५।। अस्मानमी धार्तराष्ट्राः क्षममाणानलं सतः । अशक्तानेव मन्यन्ते तद्दुःखं नाहवे वधः ।।१६।। तत्र चेद्युध्यमानानामजिह्ममनिवर्तिनाम् । सर्वशो हि वधः श्रेयान्प्रेत्य लोकाँल्लभेमहि ।।१७।। अथ वा वयमेवैतान्निहत्य भरतर्षभ । आददीमहि गां सर्वां तथापि श्रेय एव नः ।।१८।। सर्वथा कार्यमेतन्नः स्वधर्ममनुतिष्ठताम् । काङ्क्षतां विपुलां कीर्तिं वैरं प्रतिचिकीर्षताम् ।।१९।। आत्मार्थं युध्यमानानां विदिते कृत्यलक्षणे । अन्यैरपहृते राज्ये प्रशंसैव न गर्हणा ।।२०।। कर्शनार्थो हि यो धर्मो मित्राणामात्मनस्तथा । व्यसनं नाम तद्राजन्न स धर्मः कुधर्म तत् ।।२१।। सर्वथा धर्मनित्यं तु पुरुषं धर्मदुर्बलम् । जहतस्तात धर्मार्थौ प्रेतं दुःखसुखे यथा ।।२२।। यस्य धर्मो हि धर्मार्थं क्लेशभाङ्न स पण्डितः । न स धर्मस्य वेदार्थं सूर्यस्यान्धः प्रभामिव ।।२३।। यस्य चार्थार्थमेवार्थः स च नार्थस्य कोविदः । रक्षते भृतकोऽरण्यं यथा स्यात्तादृगेव सः ।।२४।। अतिवेलं हि योऽर्थार्थी नेतरावनुतिष्ठति । स वध्यः सर्वभूतानां ब्रह्महेव जुगुप्सितः ।।२५।। सततं यश्च कामार्थी नेतरावनुतिष्ठति । मित्राणि तस्य नश्यन्ति धर्मार्थाभ्यां च हीयते ।।२६।। तस्य धर्मार्थहीनस्य कामान्ते निधनं ध्रुवम् । कामतो रममाणस्य मीनस्येवाम्भसः क्षये ।।२७।। तस्माद्धर्मार्थयोर्नित्यं न प्रमाद्यन्ति पण्डिताः । प्रकृतिः सा हि कामस्य पावकस्यारणिर्यथा ।।२८।। सर्वथा धर्ममूलोऽर्थो धर्मश्चार्थपरिग्रहः । इतरेतरयोनी तौ विद्धि मेघोदधी यथा ।।२९।। द्रव्यार्थस्पर्शसंयोगे या प्रीतिरुपजायते । स कामश्चित्तसङ्कल्पः शरीरं नास्य विद्यते ।।३०।। अर्थार्थी पुरुषो राजन्बृहन्तं धर्ममृच्छति । अर्थमृच्छति कामार्थी न कामादन्यमृच्छती ।।३१।। न हि कामेन कामोऽन्यः साध्यते फलमेव तत् । उपयोगात्फलस्येव काष्ठाद्भस्मेव पण्डितः ।।३२।। इमाञ्शकुनिकान्राजन्हन्ति वैतंसिको यथा । एतद्रूपमधर्मस्य भूतेषु च विहिंसताम् ।।३३।। कामाल्लोभाच्च धर्मस्य प्रवृत्तिं यो न पश्यति । स वध्यः सर्वभूतानां प्रेत्य चेह च दुर्मतिः ।।३४।। व्यक्तं ते विदितो राजन्नर्थो द्रव्यपरिग्रहः । प्रकृतिं चापि वेत्थास्य विकृतिं चापि भूयसीम् ।।३५।। तस्य नाशं विनाशं वा जरया मरणेन वा । अनर्थमिति मन्यन्ते सोऽयमस्मासु वर्तते ।।३६।। इन्द्रियाणां च पञ्चानां मनसो हृदयस्य च । विषये वर्तमानानां या प्रीतिरुपजायते ।।३७।। स काम इति मे बुद्धिः कर्मणां फलमुत्तमम् ।।३७।। एवमेव पृथग्दृष्ट्वा धर्मार्थौ काममेव च । न धर्मपर एव स्यान्न चार्थपरमो नरः ।।३८।। न कामपरमो वा स्यात्सर्वान्सेवेत सर्वदा ।।३८।। धर्मं पूर्वं धनं मध्ये जघन्ये काममाचरेत् । अहन्यनुचरेदेवमेष शास्त्रकृतो विधिः ।।३९।। कामं पूर्वं धनं मध्ये जघन्ये धर्ममाचरेत् । वयस्यनुचरेदेवमेष शास्त्रकृतो विधिः ।।४०।। धर्मं चार्थं च कामं च यथावद्वदतां वर । विभज्य काले कालज्ञः सर्वान्सेवेत पण्डितः ।।४१।। मोक्षो वा परमं श्रेय एष राजन्सुखार्थिनाम् । प्राप्तिर्वा बुद्धिमास्थाय सोपायं कुरुनन्दन ।।४२।। तद्वाशु क्रियतां राजन्प्राप्तिर्वाप्यधिगम्यताम् । जीवितं ह्यातुरस्येव दुःखमन्तरवर्तिनः ।।४३।। विदितश्चैव ते धर्मः सततं चरितश्च ते । जानते त्वयि शंसन्ति सुहृदः कर्मचोदनाम् ।।४४।। दानं यज्ञः सतां पूजा वेदधारणमार्जवम् । एष धर्मः परो राजन्फलवान्प्रेत्य चेह च ।।४५।। एष नार्थविहीनेन शक्यो राजन्निषेवितुम् । अखिलाः पुरुषव्याघ्र गुणाः स्युर्यद्यपीतरे ।।४६।। धर्ममूलं जगद्राजन्नान्यद्धर्माद्विशिष्यते । धर्मश्चार्थेन महता शक्यो राजन्निषेवितुम् ।।४७।। न चार्थो भैक्षचर्येण नापि क्लैब्येन कर्हिचित् । वेत्तुं शक्यः सदा राजन्केवलं धर्मबुद्धिना ।।४८।। प्रतिषिद्धा हि ते याच्ञा यया सिध्यति वै द्विजः । तेजसैवार्थलिप्सायां यतस्व पुरुषर्षभ ।।४९।। भैक्षचर्या न विहिता न च विट्शूद्रजीविका । क्षत्रियस्य विशेषेण धर्मस्तु बलमौरसम् ।।५०।। उदारमेव विद्वांसो धर्मं प्राहुर्मनीषिणः । उदारं प्रतिपद्यस्व नावरे स्थातुमर्हसि ।।५१।। अनुबुध्यस्व राजेन्द्र वेत्थ धर्मान्सनातनान् । क्रूरकर्माभिजातोऽसि यस्मादुद्विजते जनः ।।५२।। प्रजापालनसम्भूतं फलं तव न गर्हितम् । एष ते विहितो राजन्धात्रा धर्मः सनातनः ।।५३।। तस्माद्विचलितः पार्थ लोके हास्यं गमिष्यसि । स्वधर्माद्धि मनुष्याणां चलनं न प्रशस्यते ।।५४।। स क्षात्रं हृदयं कृत्वा त्यक्त्वेदं शिथिलं मनः । वीर्यमास्थाय कौन्तेय धुरमुद्वह धुर्यवत् ।।५५।। न हि केवलधर्मात्मा पृथिवीं जातु कश्चन । पार्थिवो व्यजयद्राजन्न भूतिं न पुनः श्रियम् ।।५६।। जिह्वां दत्त्वा बहूनां हि क्षुद्राणां लुब्धचेतसाम् । निकृत्या लभते राज्यमाहारमिव शल्यकः ।।५७।। भ्रातरः पूर्वजाताश्च सुसमृद्धाश्च सर्वशः । निकृत्या निर्जिता देवैरसुराः पाण्डवर्षभ ।।५८।। एवं बलवतः सर्वमिति बुद्ध्वा महीपते । जहि शत्रून्महाबाहो परां निकृतिमास्थितः ।।५९।। न ह्यर्जुनसमः कश्चिद्युधि योद्धा धनुर्धरः । भविता वा पुमान्कश्चिन्मत्समो वा गदाधरः ।।६०।। सत्त्वेन कुरुते युद्धं राजन्सुबलवानपि । न प्रमाणेन नोत्साहात्सत्त्वस्थो भव पाण्डव ।।६१।। सत्त्वं हि मूलमर्थस्य वितथं यदतोऽन्यथा । न तु प्रसक्तं भवति वृक्षच्छायेव हैमनी ।।६२।। अर्थत्यागो हि कार्यः स्यादर्थं श्रेयांसमिच्छता । बीजौपम्येन कौन्तेय मा ते भूदत्र संशयः ।।६३।। अर्थेन तु समोऽनर्थो यत्र लभ्येत नोदयः । न तत्र विपणः कार्यः खरकण्डूयितं हि तत् ।।६४।। एवमेव मनुष्येन्द्र धर्मं त्यक्त्वाल्पकं नरः । बृहन्तं धर्ममाप्नोति स बुद्ध इति निश्चितः ।।६५।। अमित्रं मित्रसम्पन्नं मित्रैर्भिन्दन्ति पण्डिताः । भिन्नैर्मित्रैः परित्यक्तं दुर्बलं कुरुते वशे ।।६६।। सत्त्वेन कुरुते युद्धं राजन्सुबलवानपि । नोद्यमेन न होत्राभिः सर्वाः स्वीकुरुते प्रजाः ।।६७।। सर्वथा संहतैरेव दुर्बलैर्बलवानपि । अमित्रः शक्यते हन्तुं मधुहा भ्रमरैरिव ।।६८।। यथा राजन्प्रजाः सर्वाः सूर्यः पाति गभस्तिभिः । अत्ति चैव तथैव त्वं सवितुः सदृशो भव ।।६९।। एतद्ध्यपि तपो राजन्पुराणमिति नः श्रुतम् । विधिना पालनं भूमेर्यत्कृतं नः पितामहैः ।।७०।। अपेयात्किल भाः सूर्याल्लक्ष्मीश्चन्द्रमसस्तथा । इति लोको व्यवसितो दृष्ट्वेमां भवतो व्यथाम् ।।७१।। भवतश्च प्रशंसाभिर्निन्दाभिरितरस्य च । कथायुक्ताः परिषदः पृथग्राजन्समागताः ।।७२।। इदमभ्यधिकं राजन्ब्राह्मणा गुरवश्च ते । समेताः कथयन्तीह मुदिताः सत्यसन्धताम् ।।७३।। यन्न मोहान्न कार्पण्यान्न लोभान्न भयादपि । अनृतं किञ्चिदुक्तं ते न कामान्नार्थकारणात् ।।७४।। यदेनः कुरुते किञ्चिद्राजा भूमिमवाप्नुवन् । सर्वं तन्नुदते पश्चाद्यज्ञैर्विपुलदक्षिणैः ।।७५।। ब्राह्मणेभ्यो ददद्ग्रामान्गाश्च राजन्सहस्रशः । मुच्यते सर्वपापेभ्यस्तमोभ्य इव चन्द्रमाः ।।७६।। पौरजानपदाः सर्वे प्रायशः कुरुनन्दन । सवृद्धबालाः सहिताः शंसन्ति त्वां युधिष्ठिर ।।७७।। श्वदृतौ क्षीरमासक्तं ब्रह्म वा वृषले यथा । सत्यं स्तेने बलं नार्यां राज्यं दुर्योधने तथा ।।७८।। इति निर्वचनं लोके चिरं चरति भारत । अपि चैतत्स्त्रियो बालाः स्वाध्यायमिव कुर्वते ।।७९।। स भवान्रथमास्थाय सर्वोपकरणान्वितम् । त्वरमाणोऽभिनिर्यातु चिरमर्थोपपादकम् ।।८०।। वाचयित्वा द्विजश्रेष्ठानद्यैव गजसाह्वयम् । अस्त्रविद्भिः परिवृतो भ्रातृभिर्दृढधन्विभिः ।।८१।। आशीविषसमैर्वीरैर्मरुद्भिरिव वृत्रहा ।।८१।। अमित्रांस्तेजसा मृद्नन्नसुरेभ्य इवारिहा । श्रियमादत्स्व कौन्तेय धार्तराष्ट्रान्महाबल ।।८२।। न हि गाण्डीवमुक्तानां शराणां गार्ध्रवाससाम् । स्पर्शमाशीविषाभानां मर्त्यः कश्चन संसहेत् ।।८३।। न स वीरो न मातङ्गो न सदश्वोऽस्ति भारत । यः सहेत गदावेगं मम क्रुद्धस्य संयुगे ।।८४।। सृञ्जयैः सह कैकेयैर्वृष्णीनामृषभेण च । कथं स्विद्युधि कौन्तेय राज्यं न प्राप्नुयामहे ।।८५।। 3.33.89-90 वैशंपायन उवाच। याज्ञसेन्या वचः श्रुत्वा भीमसेनो ह्यमर्षणः। निश्वसन्नुपसंगम्य क्रुद्धो राजानमब्रवीत् ।।

    bhīmena yudhiṣṭhiraṃprati nītivyutpādanapūrvakaṃ yuddhena rājyāharaṇakartavyatvoktiḥ || 1 || vaiśampāyana uvāca|| yājñasenyā vacaḥ śrutvā bhīmaseno'tyamarṣaṇaḥ | niḥśvasannupasaṅgamya kruddho rājānamabravīt ||1|| rājyasya padavīṃ dharmyāṃ vraja satpuruṣocitām | dharmakāmārthahīnānāṃ kiṃ no vastuṃ tapovane ||2|| naiva dharmeṇa tadrājyaṃ nārjavena na caujasā | akṣakūṭamadhiṣṭhāya hṛtaṃ duryodhanena naḥ ||3|| gomāyuneva siṃhānāṃ durbalena balīyasām | āmiṣaṃ vighasāśena tadvadrājyaṃ hi no hṛtam ||4|| dharmaleśapraticchannaḥ prabhavaṃ dharmakāmayoḥ | arthamutsṛjya kiṃ rājandurgeṣu paritapyase ||5|| bhavato'nuvidhānena rājyaṃ naḥ paśyatāṃ hṛtam | ahāryamapi śakreṇa guptaṃ gāṇḍīvadhanvanā ||6|| kuṇīnāmiva bilvāni paṅgūnāmiva dhenavaḥ | hṛtamaiśvaryamasmākaṃ jīvatāṃ bhavataḥ kṛte ||7|| bhavataḥ priyamityevaṃ mahadvyasanamīdṛśam | dharmakāme pratītasya pratipannāḥ sma bhārata ||8|| karśayāmaḥ svamitrāṇi nandayāmaśca śātravān | ātmānaṃ bhavataḥ śāstre niyamya bharatarṣabha ||9|| yadvayaṃ na tadaivaitāndhārtarāṣṭrānnihanmahi | bhavataḥ śāstramādāya tannastapati duṣkṛtam ||10|| athaināmanvavekṣasva mṛgacaryāmivātmanaḥ | avīrācaritāṃ rājanna balasthairniṣevitām ||11|| yāṃ na kṛṣṇo na bībhatsurnābhimanyurna sṛñjayaḥ | na cāhamabhinandāmi na ca mādrīsutāvubhau ||12|| bhavāndharmo dharma iti satataṃ vratakarśitaḥ | kaccidrājanna nirvedādāpannaḥ klībajīvikām ||13|| durmanuṣyā hi nirvedamaphalaṃ sarvaghātinam | aśaktāḥ śriyamāhartumātmanaḥ kurvate priyam ||14|| sa bhavāndṛṣṭimāñśaktaḥ paśyannātmani pauruṣam | ānṛśaṃsyaparo rājannānarthamavabudhyase ||15|| asmānamī dhārtarāṣṭrāḥ kṣamamāṇānalaṃ sataḥ | aśaktāneva manyante tadduḥkhaṃ nāhave vadhaḥ ||16|| tatra cedyudhyamānānāmajihmamanivartinām | sarvaśo hi vadhaḥ śreyānpretya lokā~llabhemahi ||17|| atha vā vayamevaitānnihatya bharatarṣabha | ādadīmahi gāṃ sarvāṃ tathāpi śreya eva naḥ ||18|| sarvathā kāryametannaḥ svadharmamanutiṣṭhatām | kāṅkṣatāṃ vipulāṃ kīrtiṃ vairaṃ praticikīrṣatām ||19|| ātmārthaṃ yudhyamānānāṃ vidite kṛtyalakṣaṇe | anyairapahṛte rājye praśaṃsaiva na garhaṇā ||20|| karśanārtho hi yo dharmo mitrāṇāmātmanastathā | vyasanaṃ nāma tadrājanna sa dharmaḥ kudharma tat ||21|| sarvathā dharmanityaṃ tu puruṣaṃ dharmadurbalam | jahatastāta dharmārthau pretaṃ duḥkhasukhe yathā ||22|| yasya dharmo hi dharmārthaṃ kleśabhāṅna sa paṇḍitaḥ | na sa dharmasya vedārthaṃ sūryasyāndhaḥ prabhāmiva ||23|| yasya cārthārthamevārthaḥ sa ca nārthasya kovidaḥ | rakṣate bhṛtako'raṇyaṃ yathā syāttādṛgeva saḥ ||24|| ativelaṃ hi yo'rthārthī netarāvanutiṣṭhati | sa vadhyaḥ sarvabhūtānāṃ brahmaheva jugupsitaḥ ||25|| satataṃ yaśca kāmārthī netarāvanutiṣṭhati | mitrāṇi tasya naśyanti dharmārthābhyāṃ ca hīyate ||26|| tasya dharmārthahīnasya kāmānte nidhanaṃ dhruvam | kāmato ramamāṇasya mīnasyevāmbhasaḥ kṣaye ||27|| tasmāddharmārthayornityaṃ na pramādyanti paṇḍitāḥ | prakṛtiḥ sā hi kāmasya pāvakasyāraṇiryathā ||28|| sarvathā dharmamūlo'rtho dharmaścārthaparigrahaḥ | itaretarayonī tau viddhi meghodadhī yathā ||29|| dravyārthasparśasaṃyoge yā prītirupajāyate | sa kāmaścittasaṅkalpaḥ śarīraṃ nāsya vidyate ||30|| arthārthī puruṣo rājanbṛhantaṃ dharmamṛcchati | arthamṛcchati kāmārthī na kāmādanyamṛcchatī ||31|| na hi kāmena kāmo'nyaḥ sādhyate phalameva tat | upayogātphalasyeva kāṣṭhādbhasmeva paṇḍitaḥ ||32|| imāñśakunikānrājanhanti vaitaṃsiko yathā | etadrūpamadharmasya bhūteṣu ca vihiṃsatām ||33|| kāmāllobhācca dharmasya pravṛttiṃ yo na paśyati | sa vadhyaḥ sarvabhūtānāṃ pretya ceha ca durmatiḥ ||34|| vyaktaṃ te vidito rājannartho dravyaparigrahaḥ | prakṛtiṃ cāpi vetthāsya vikṛtiṃ cāpi bhūyasīm ||35|| tasya nāśaṃ vināśaṃ vā jarayā maraṇena vā | anarthamiti manyante so'yamasmāsu vartate ||36|| indriyāṇāṃ ca pañcānāṃ manaso hṛdayasya ca | viṣaye vartamānānāṃ yā prītirupajāyate ||37|| sa kāma iti me buddhiḥ karmaṇāṃ phalamuttamam ||37|| evameva pṛthagdṛṣṭvā dharmārthau kāmameva ca | na dharmapara eva syānna cārthaparamo naraḥ ||38|| na kāmaparamo vā syātsarvānseveta sarvadā ||38|| dharmaṃ pūrvaṃ dhanaṃ madhye jaghanye kāmamācaret | ahanyanucaredevameṣa śāstrakṛto vidhiḥ ||39|| kāmaṃ pūrvaṃ dhanaṃ madhye jaghanye dharmamācaret | vayasyanucaredevameṣa śāstrakṛto vidhiḥ ||40|| dharmaṃ cārthaṃ ca kāmaṃ ca yathāvadvadatāṃ vara | vibhajya kāle kālajñaḥ sarvānseveta paṇḍitaḥ ||41|| mokṣo vā paramaṃ śreya eṣa rājansukhārthinām | prāptirvā buddhimāsthāya sopāyaṃ kurunandana ||42|| tadvāśu kriyatāṃ rājanprāptirvāpyadhigamyatām | jīvitaṃ hyāturasyeva duḥkhamantaravartinaḥ ||43|| viditaścaiva te dharmaḥ satataṃ caritaśca te | jānate tvayi śaṃsanti suhṛdaḥ karmacodanām ||44|| dānaṃ yajñaḥ satāṃ pūjā vedadhāraṇamārjavam | eṣa dharmaḥ paro rājanphalavānpretya ceha ca ||45|| eṣa nārthavihīnena śakyo rājanniṣevitum | akhilāḥ puruṣavyāghra guṇāḥ syuryadyapītare ||46|| dharmamūlaṃ jagadrājannānyaddharmādviśiṣyate | dharmaścārthena mahatā śakyo rājanniṣevitum ||47|| na cārtho bhaikṣacaryeṇa nāpi klaibyena karhicit | vettuṃ śakyaḥ sadā rājankevalaṃ dharmabuddhinā ||48|| pratiṣiddhā hi te yācñā yayā sidhyati vai dvijaḥ | tejasaivārthalipsāyāṃ yatasva puruṣarṣabha ||49|| bhaikṣacaryā na vihitā na ca viṭśūdrajīvikā | kṣatriyasya viśeṣeṇa dharmastu balamaurasam ||50|| udārameva vidvāṃso dharmaṃ prāhurmanīṣiṇaḥ | udāraṃ pratipadyasva nāvare sthātumarhasi ||51|| anubudhyasva rājendra vettha dharmānsanātanān | krūrakarmābhijāto'si yasmādudvijate janaḥ ||52|| prajāpālanasambhūtaṃ phalaṃ tava na garhitam | eṣa te vihito rājandhātrā dharmaḥ sanātanaḥ ||53|| tasmādvicalitaḥ pārtha loke hāsyaṃ gamiṣyasi | svadharmāddhi manuṣyāṇāṃ calanaṃ na praśasyate ||54|| sa kṣātraṃ hṛdayaṃ kṛtvā tyaktvedaṃ śithilaṃ manaḥ | vīryamāsthāya kaunteya dhuramudvaha dhuryavat ||55|| na hi kevaladharmātmā pṛthivīṃ jātu kaścana | pārthivo vyajayadrājanna bhūtiṃ na punaḥ śriyam ||56|| jihvāṃ dattvā bahūnāṃ hi kṣudrāṇāṃ lubdhacetasām | nikṛtyā labhate rājyamāhāramiva śalyakaḥ ||57|| bhrātaraḥ pūrvajātāśca susamṛddhāśca sarvaśaḥ | nikṛtyā nirjitā devairasurāḥ pāṇḍavarṣabha ||58|| evaṃ balavataḥ sarvamiti buddhvā mahīpate | jahi śatrūnmahābāho parāṃ nikṛtimāsthitaḥ ||59|| na hyarjunasamaḥ kaścidyudhi yoddhā dhanurdharaḥ | bhavitā vā pumānkaścinmatsamo vā gadādharaḥ ||60|| sattvena kurute yuddhaṃ rājansubalavānapi | na pramāṇena notsāhātsattvastho bhava pāṇḍava ||61|| sattvaṃ hi mūlamarthasya vitathaṃ yadato'nyathā | na tu prasaktaṃ bhavati vṛkṣacchāyeva haimanī ||62|| arthatyāgo hi kāryaḥ syādarthaṃ śreyāṃsamicchatā | bījaupamyena kaunteya mā te bhūdatra saṃśayaḥ ||63|| arthena tu samo'nartho yatra labhyeta nodayaḥ | na tatra vipaṇaḥ kāryaḥ kharakaṇḍūyitaṃ hi tat ||64|| evameva manuṣyendra dharmaṃ tyaktvālpakaṃ naraḥ | bṛhantaṃ dharmamāpnoti sa buddha iti niścitaḥ ||65|| amitraṃ mitrasampannaṃ mitrairbhindanti paṇḍitāḥ | bhinnairmitraiḥ parityaktaṃ durbalaṃ kurute vaśe ||66|| sattvena kurute yuddhaṃ rājansubalavānapi | nodyamena na hotrābhiḥ sarvāḥ svīkurute prajāḥ ||67|| sarvathā saṃhataireva durbalairbalavānapi | amitraḥ śakyate hantuṃ madhuhā bhramarairiva ||68|| yathā rājanprajāḥ sarvāḥ sūryaḥ pāti gabhastibhiḥ | atti caiva tathaiva tvaṃ savituḥ sadṛśo bhava ||69|| etaddhyapi tapo rājanpurāṇamiti naḥ śrutam | vidhinā pālanaṃ bhūmeryatkṛtaṃ naḥ pitāmahaiḥ ||70|| apeyātkila bhāḥ sūryāllakṣmīścandramasastathā | iti loko vyavasito dṛṣṭvemāṃ bhavato vyathām ||71|| bhavataśca praśaṃsābhirnindābhiritarasya ca | kathāyuktāḥ pariṣadaḥ pṛthagrājansamāgatāḥ ||72|| idamabhyadhikaṃ rājanbrāhmaṇā guravaśca te | sametāḥ kathayantīha muditāḥ satyasandhatām ||73|| yanna mohānna kārpaṇyānna lobhānna bhayādapi | anṛtaṃ kiñciduktaṃ te na kāmānnārthakāraṇāt ||74|| yadenaḥ kurute kiñcidrājā bhūmimavāpnuvan | sarvaṃ tannudate paścādyajñairvipuladakṣiṇaiḥ ||75|| brāhmaṇebhyo dadadgrāmāngāśca rājansahasraśaḥ | mucyate sarvapāpebhyastamobhya iva candramāḥ ||76|| paurajānapadāḥ sarve prāyaśaḥ kurunandana | savṛddhabālāḥ sahitāḥ śaṃsanti tvāṃ yudhiṣṭhira ||77|| śvadṛtau kṣīramāsaktaṃ brahma vā vṛṣale yathā | satyaṃ stene balaṃ nāryāṃ rājyaṃ duryodhane tathā ||78|| iti nirvacanaṃ loke ciraṃ carati bhārata | api caitatstriyo bālāḥ svādhyāyamiva kurvate ||79|| sa bhavānrathamāsthāya sarvopakaraṇānvitam | tvaramāṇo'bhiniryātu ciramarthopapādakam ||80|| vācayitvā dvijaśreṣṭhānadyaiva gajasāhvayam | astravidbhiḥ parivṛto bhrātṛbhirdṛḍhadhanvibhiḥ ||81|| āśīviṣasamairvīrairmarudbhiriva vṛtrahā ||81|| amitrāṃstejasā mṛdnannasurebhya ivārihā | śriyamādatsva kaunteya dhārtarāṣṭrānmahābala ||82|| na hi gāṇḍīvamuktānāṃ śarāṇāṃ gārdhravāsasām | sparśamāśīviṣābhānāṃ martyaḥ kaścana saṃsahet ||83|| na sa vīro na mātaṅgo na sadaśvo'sti bhārata | yaḥ saheta gadāvegaṃ mama kruddhasya saṃyuge ||84|| sṛñjayaiḥ saha kaikeyairvṛṣṇīnāmṛṣabheṇa ca | kathaṃ svidyudhi kaunteya rājyaṃ na prāpnuyāmahe ||85|| 3.33.89-90 vaiśaṃpāyana uvāca| yājñasenyā vacaḥ śrutvā bhīmaseno hyamarṣaṇaḥ| niśvasannupasaṃgamya kruddho rājānamabravīt ||

  2. Verse 2

    राजन्सत्पदवीं धर्म्यां व्रज सत्पुरुषोचिताम्। धर्मकामार्थहीनानां किं नो वस्तुं तपोवने ।। ।। इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि त्रयस्त्रिंशोऽध्यायः ।। 33 ।। ==टिप्पणी==

    rājansatpadavīṃ dharmyāṃ vraja satpuruṣocitām| dharmakāmārthahīnānāṃ kiṃ no vastuṃ tapovane || || iti śrīmanmahābhārate araṇyaparvaṇi arjunābhigamanaparvaṇi trayastriṃśo'dhyāyaḥ || 33 || ==ṭippaṇī==

  3. Verse 3

    नैव धर्मेण तद्राज्यं नार्जवेण न चौजसा। अक्षकूटमधिष्ठाय हृतं दुर्योधनेन वै ।। किंप्रयोजनमिति शेषः। राज्यस्यपदवीमिति झ.ठ. पाठः. ।।

    naiva dharmeṇa tadrājyaṃ nārjaveṇa na caujasā| akṣakūṭamadhiṣṭhāya hṛtaṃ duryodhanena vai || kiṃprayojanamiti śeṣaḥ| rājyasyapadavīmiti jha.ṭha. pāṭhaḥ. ||

  4. Verse 4

    गोमायुनेव सिंहानां दिर्बलेन बलीयसाम्। आमिपं विघसाशेन तद्वद्राज्यं हि नो हृतम् ।। कूटं कपटम् ।।

    gomāyuneva siṃhānāṃ dirbalena balīyasām| āmipaṃ vighasāśena tadvadrājyaṃ hi no hṛtam || kūṭaṃ kapaṭam ||

  5. Verse 5

    धर्मलेशप्रतिच्छन्नः प्रभवं धर्मकामयोः। अर्थमुत्सृज्य किं राजन्दुःखेन परितप्यसे ।। विघसो भूतबलिशेषः श्वकाकादियोग्यस्तद्भक्षकेण शुनकेनेत्यर्थः ।।

    dharmaleśapraticchannaḥ prabhavaṃ dharmakāmayoḥ| arthamutsṛjya kiṃ rājanduḥkhena paritapyase || vighaso bhūtabaliśeṣaḥ śvakākādiyogyastadbhakṣakeṇa śunakenetyarthaḥ ||

  6. Verse 6

    भवतोऽनुविधानेन राज्यं नः पश्यतां हृतम्। अहार्यमपि शक्रेण गुप्तं गाण्डीवधन्वना ।।

    bhavato'nuvidhānena rājyaṃ naḥ paśyatāṃ hṛtam| ahāryamapi śakreṇa guptaṃ gāṇḍīvadhanvanā ||

  7. Verse 7

    कुणीनामिव बिल्वानि पङ्गूनामिव धेनवः। हृतमैश्वर्यमस्माकं जीवतां भवतः कृते ।। धर्मलेशः प्रतिज्ञापालनजस्तेन प्रतिच्छन्न आवृतः। अर्थं राज्याख्यम् ।।

    kuṇīnāmiva bilvāni paṅgūnāmiva dhenavaḥ| hṛtamaiśvaryamasmākaṃ jīvatāṃ bhavataḥ kṛte || dharmaleśaḥ pratijñāpālanajastena praticchanna āvṛtaḥ| arthaṃ rājyākhyam ||

  8. Verse 8

    भवतः प्रियमित्येवं महद्व्यसनमीदृशम्। धर्मकामे प्रतीतस्य प्रतिपन्नाः स्म भारत ।। कुणीनां हस्तविकलानाम्। पङ्गूनां पादविकलानाम्। अनादरे षष्ठी ।।

    bhavataḥ priyamityevaṃ mahadvyasanamīdṛśam| dharmakāme pratītasya pratipannāḥ sma bhārata || kuṇīnāṃ hastavikalānām| paṅgūnāṃ pādavikalānām| anādare ṣaṣṭhī ||

  9. Verse 9

    कर्शयामः स्वमित्राणि नन्दयामश्च शात्रवान्। आत्मानं भवतः शास्त्रैर्नियम्य भरतर्षभ ।। धर्मकामे धर्मेच्छायाम्। प्रतीतस्य विश्वस्तस्य ।।

    karśayāmaḥ svamitrāṇi nandayāmaśca śātravān| ātmānaṃ bhavataḥ śāstrairniyamya bharatarṣabha || dharmakāme dharmecchāyām| pratītasya viśvastasya ||

  10. Verse 10

    यद्वयं न तदैवैतान्धार्तराष्ट्रान्निहन्म हि। भवतः शास्त्रमादाय तन्नस्तपति दुष्कृतम् ।।

    yadvayaṃ na tadaivaitāndhārtarāṣṭrānnihanma hi| bhavataḥ śāstramādāya tannastapati duṣkṛtam ||

  11. Verse 11

    अथैनामन्ववेक्षस्व मृगचर्यामिवात्मनः। अवीराचरितां राजन्नबलस्थैर्निषेविताम् ।। शास्त्रैः शमवचनैः। न जयामः स्मशात्रवानिति क. ध. पाठः ।।

    athaināmanvavekṣasva mṛgacaryāmivātmanaḥ| avīrācaritāṃ rājannabalasthairniṣevitām || śāstraiḥ śamavacanaiḥ| na jayāmaḥ smaśātravāniti ka. dha. pāṭhaḥ ||

  12. Verse 12

    यां न कृष्णो न बीभत्सुर्नाभिमन्युर्न सृञ्जयाः। न चाहमभिनन्दामि न च माद्रीसुतावुभौ ।।

    yāṃ na kṛṣṇo na bībhatsurnābhimanyurna sṛñjayāḥ| na cāhamabhinandāmi na ca mādrīsutāvubhau ||

  13. Verse 13

    भवान्धर्मो धर्म इति सततं व्रतकर्शितः। कच्चिद्राजन्न निर्वेदादापन्नः क्लीबजीविकाम् ।। मृगचर्यामिव। एनां वनचर्याम्। बलस्थैर्न निषेवितां बलवद्भिरसेवितामित्यर्थः ।।

    bhavāndharmo dharma iti satataṃ vratakarśitaḥ| kaccidrājanna nirvedādāpannaḥ klībajīvikām || mṛgacaryāmiva| enāṃ vanacaryām| balasthairna niṣevitāṃ balavadbhirasevitāmityarthaḥ ||

  14. Verse 14

    दुर्मनुष्या हि निर्वेदमफलं सर्वघातकम्। अशक्ताः श्रियमाहर्तुमात्मनः कुर्वते प्रियम् ।।

    durmanuṣyā hi nirvedamaphalaṃ sarvaghātakam| aśaktāḥ śriyamāhartumātmanaḥ kurvate priyam ||

  15. Verse 15

    स भवान्दृष्टिमाञ्शक्तः पश्यन्नस्मासु पौरुषम्। आनृशंस्यपरो राजन्नात्मार्थमवबुध्यसे ।।

    sa bhavāndṛṣṭimāñśaktaḥ paśyannasmāsu pauruṣam| ānṛśaṃsyaparo rājannātmārthamavabudhyase ||

  16. Verse 16

    अस्मानमी धार्तराष्ट्राः क्षममाणानहिंसतः। अशक्तानेव मन्यन्ते तद्दुःखं नाहवे वधः ।।

    asmānamī dhārtarāṣṭrāḥ kṣamamāṇānahiṃsataḥ| aśaktāneva manyante tadduḥkhaṃ nāhave vadhaḥ ||

  17. Verse 17

    तत्रचेद्युध्यमानानामजिह्ममनिवर्तिनाम्। सर्वशो हि वधः श्रेयान्प्रेत्य लोकांल्लभेमहि ।।

    tatracedyudhyamānānāmajihmamanivartinām| sarvaśo hi vadhaḥ śreyānpretya lokāṃllabhemahi ||

  18. Verse 18

    अधवा वयमेवैतान्निहत्य भरतर्षभ। आददीमहि गां सर्वां तथापि श्रेय एव नः ।। न आपन्न इति संबन्धः ।।

    adhavā vayamevaitānnihatya bharatarṣabha| ādadīmahi gāṃ sarvāṃ tathāpi śreya eva naḥ || na āpanna iti saṃbandhaḥ ||

  19. Verse 19

    सर्वथा कार्यमेतन्नः स्वधर्ममनुतिष्ठताम्। काङ्खतां विषुलां कीर्ति वैरं प्रतिचिकीर्षताम् ।।

    sarvathā kāryametannaḥ svadharmamanutiṣṭhatām| kāṅkhatāṃ viṣulāṃ kīrti vairaṃ praticikīrṣatām ||

  20. Verse 20

    आत्मार्थं युध्यमानानां जीविते कृत्यलक्षणे। अन्यैरपि हृते राज्ये प्रशंसैव न गर्हणा ।। गां पृथिवीम् ।।

    ātmārthaṃ yudhyamānānāṃ jīvite kṛtyalakṣaṇe| anyairapi hṛte rājye praśaṃsaiva na garhaṇā || gāṃ pṛthivīm ||

  21. Verse 21

    कर्शनार्थो हि यो धर्मो विप्राणामात्मनस्तथा। व्यसनं नाम तद्राजन्न धर्मः स कुवर्त्मतत् ।। कृत्यलक्षणे करणीयस्वरूपे ।।

    karśanārtho hi yo dharmo viprāṇāmātmanastathā| vyasanaṃ nāma tadrājanna dharmaḥ sa kuvartmatat || kṛtyalakṣaṇe karaṇīyasvarūpe ||

  22. Verse 22

    सर्वथा धर्मनित्यं तु पुरुषं धर्मदुर्बलम्। जहतस्तात धर्मार्थौ प्रेतं दुःखसुखे यथा ।। कुधर्मतत् इति पाठे कुधर्मं तनोतीति कुधर्मतत् कुधर्मबीजमित्यर्थः ।।

    sarvathā dharmanityaṃ tu puruṣaṃ dharmadurbalam| jahatastāta dharmārthau pretaṃ duḥkhasukhe yathā || kudharmatat iti pāṭhe kudharmaṃ tanotīti kudharmatat kudharmabījamityarthaḥ ||

  23. Verse 23

    यस्य धर्मो हि धर्मार्थँ क्लेशभाङ्ग स पण्डितः। न स धर्मस्य वेदार्थं सूर्यस्यान्धः प्रभामिव ।। धर्मार्थौ बलसाध्यहेमन्तप्रातःस्नानशत्रुजयसंभवौ ।।

    yasya dharmo hi dharmārtha~ kleśabhāṅga sa paṇḍitaḥ| na sa dharmasya vedārthaṃ sūryasyāndhaḥ prabhāmiva || dharmārthau balasādhyahemantaprātaḥsnānaśatrujayasaṃbhavau ||

  24. Verse 24

    यस्य चार्थार्थ एवार्थः स च नार्थस्य कोविदः। रक्ष्यते भृतकः पुण्यं यथा स्यात्तादृगेव सः ।। धर्मार्थे नत्वर्थकामार्थम्। अर्थं प्रयोजनम् ।।

    yasya cārthārtha evārthaḥ sa ca nārthasya kovidaḥ| rakṣyate bhṛtakaḥ puṇyaṃ yathā syāttādṛgeva saḥ || dharmārthe natvarthakāmārtham| arthaṃ prayojanam ||

  25. Verse 25

    अतिवेलं हि योऽर्थार्थी नेतरावनुतिष्ठति। स वध्यः सर्वभूतानां ब्रह्महेव जुगुप्सितः ।। यस्य चात्पार्थमेवार्थ इति झ. पाठः ।।

    ativelaṃ hi yo'rthārthī netarāvanutiṣṭhati| sa vadhyaḥ sarvabhūtānāṃ brahmaheva jugupsitaḥ || yasya cātpārthamevārtha iti jha. pāṭhaḥ ||

  26. Verse 26

    सततं यश्च कामार्थी नेतरावनुतिष्ठति। मित्राणि तस्य नश्यन्ति धर्मार्थाभ्यां च हीयते ।।

    satataṃ yaśca kāmārthī netarāvanutiṣṭhati| mitrāṇi tasya naśyanti dharmārthābhyāṃ ca hīyate ||

  27. Verse 27

    तस्य धर्मार्थहीनस्य कामान्ते निधनं ध्रुवम्। कामतो रममाणस्य मीनस्येवाम्भसः क्षये ।।

    tasya dharmārthahīnasya kāmānte nidhanaṃ dhruvam| kāmato ramamāṇasya mīnasyevāmbhasaḥ kṣaye ||

  28. Verse 28

    तस्माद्धर्मार्थयोर्नित्यं न प्रमान्द्यन्ति पण्डिताः। प्रकृतिः सा हि कामस्य पावकस्यारणिर्यथा ।। अतिवेलप्रत्यन्तम् ।।

    tasmāddharmārthayornityaṃ na pramāndyanti paṇḍitāḥ| prakṛtiḥ sā hi kāmasya pāvakasyāraṇiryathā || ativelapratyantam ||

  29. Verse 29

    सर्वथा धर्ममूलोऽर्थो धर्मश्चार्थपरिग्रहः। इतरेतरयोर्नीतौ विद्धि मेघोदधी यथा ।। साहि धर्मार्थरूपाहि ।।

    sarvathā dharmamūlo'rtho dharmaścārthaparigrahaḥ| itaretarayornītau viddhi meghodadhī yathā || sāhi dharmārtharūpāhi ||

  30. Verse 30

    द्रव्यार्थस्पर्शसंयोगे या प्रीतिरुपजायते। स कामश्चित्तसंकल्पः शरीरं नास्य दृश्यते ।। अर्थपरिग्रहोऽर्थार्थमेवालम्बनीयः। इतरेतरयोर्नीतौ। धर्मादर्थः प्रणीयतेऽर्थाच्च धर्म इत्यर्थः। मेघादुदधिपुष्टिरुदधेर्मेघपूर्तिरिव ।।

    dravyārthasparśasaṃyoge yā prītirupajāyate| sa kāmaścittasaṃkalpaḥ śarīraṃ nāsya dṛśyate || arthaparigraho'rthārthamevālambanīyaḥ| itaretarayornītau| dharmādarthaḥ praṇīyate'rthācca dharma ityarthaḥ| meghādudadhipuṣṭirudadhermeghapūrtiriva ||

  31. Verse 31

    अर्थार्थी पुरुषो राजन्बृहन्तं धर्ममिच्छति। अर्थमिच्छति कामार्थीन कामादन्यमिच्छति ।। द्रव्यस्य स्रक्रचन्दनादेः स्पर्शः। अर्थस्य स्वर्णादेः संयोगो लाभः ।।

    arthārthī puruṣo rājanbṛhantaṃ dharmamicchati| arthamicchati kāmārthīna kāmādanyamicchati || dravyasya srakracandanādeḥ sparśaḥ| arthasya svarṇādeḥ saṃyogo lābhaḥ ||

  32. Verse 32

    न हि कामेन कामोऽन्यः सिध्यते फलमेव तत्। उषयोगात्फलस्यैव काष्ठाद्भस्मेव पण्डितः ।। न कामादर्थमृच्छतीति क. ध. पाठः ।।

    na hi kāmena kāmo'nyaḥ sidhyate phalameva tat| uṣayogātphalasyaiva kāṣṭhādbhasmeva paṇḍitaḥ || na kāmādarthamṛcchatīti ka. dha. pāṭhaḥ ||

  33. Verse 33

    इमाञ्शकुनकान्राजन्हन्ति वैतंसिको यथा। एतद्रूपमधर्मस्य भूतेषु च विहिंसनम् ।। साव्यते फलमेव तदिति झ. पाठः. उपयोगः साक्षात्प्रीत्युत्पादनेन कृतार्थत्वम्। काष्ठाद्भस्म साध्यं नतु भस्मतोपि भस्मान्तरे साध्यमस्ति तद्वत् ।।

    imāñśakunakānrājanhanti vaitaṃsiko yathā| etadrūpamadharmasya bhūteṣu ca vihiṃsanam || sāvyate phalameva taditi jha. pāṭhaḥ. upayogaḥ sākṣātprītyutpādanena kṛtārthatvam| kāṣṭhādbhasma sādhyaṃ natu bhasmatopi bhasmāntare sādhyamasti tadvat ||

  34. Verse 34

    कामाल्लोभाच्च धर्मस्य प्रवृत्तिं यो न पश्ति। स वध्यः सर्वभूतानां प्रेत्य चेहैच दुर्मतिः ।।

    kāmāllobhācca dharmasya pravṛttiṃ yo na paśti| sa vadhyaḥ sarvabhūtānāṃ pretya cehaica durmatiḥ ||

  35. Verse 35

    व्यक्तं ते विदितो राजन्नर्थो द्रव्यपरिग्रहः। प्रकृतिं चापि वेत्थास्य विकृतिं चापि भूयसीम् ।।

    vyaktaṃ te vidito rājannartho dravyaparigrahaḥ| prakṛtiṃ cāpi vetthāsya vikṛtiṃ cāpi bhūyasīm ||

  36. Verse 36

    तस्य नाशं विनाशं वा जरया मरणेन वा। अनर्थ इति मन्यन्ते सोयमस्मासु वर्तते ।।

    tasya nāśaṃ vināśaṃ vā jarayā maraṇena vā| anartha iti manyante soyamasmāsu vartate ||

  37. Verse 37

    इन्द्रियाणां च पञ्चानां मनसो हृदयस्य च। विपये वर्तमानानां या प्रीतिरुपजायते ।।

    indriyāṇāṃ ca pañcānāṃ manaso hṛdayasya ca| vipaye vartamānānāṃ yā prītirupajāyate ||

  38. Verse 38

    स काम इति मे बुद्धिः कर्मणां फलमुत्तमम्। एवमेव पृथग्दृष्ट्वा धर्मार्थौ काममेव च ।।

    sa kāma iti me buddhiḥ karmaṇāṃ phalamuttamam| evameva pṛthagdṛṣṭvā dharmārthau kāmameva ca ||

  39. Verse 39

    न धर्मपर एव स्यान्न चार्थपरमो नरः। न कामपरमो वा स्यात्सर्वान्सेवेत सर्वदा ।।

    na dharmapara eva syānna cārthaparamo naraḥ| na kāmaparamo vā syātsarvānseveta sarvadā ||

  40. Verse 40

    धर्मं पूर्वे धनं मध्ये जघन्ये काममाचरेत्। अहन्यनुचरेदेवमेष शास्त्रकृतो विधिः ।। वैतंसिको वीतंसेन जीवतीति पक्षिहन्ता। वीतंसं बन्धनोपाये मृगाणां पक्षिणामपीति विश्वः ।।

    dharmaṃ pūrve dhanaṃ madhye jaghanye kāmamācaret| ahanyanucaredevameṣa śāstrakṛto vidhiḥ || vaitaṃsiko vītaṃsena jīvatīti pakṣihantā| vītaṃsaṃ bandhanopāye mṛgāṇāṃ pakṣiṇāmapīti viśvaḥ ||

  41. Verse 41

    कामं पूर्वे धनं मध्ये जघन्ये धर्ममाचरेत्। वयस्यनुचरेदेवमेष शास्त्रकृतो विधिः ।। धर्मं पूर्वे अहनि चरेत् ।।

    kāmaṃ pūrve dhanaṃ madhye jaghanye dharmamācaret| vayasyanucaredevameṣa śāstrakṛto vidhiḥ || dharmaṃ pūrve ahani caret ||

  42. Verse 42

    धर्मं चार्थं च कामं च यथावद्वदतांवर। विभज्य काले कालज्ञः सर्वान्सेवेत पण्डितः ।।

    dharmaṃ cārthaṃ ca kāmaṃ ca yathāvadvadatāṃvara| vibhajya kāle kālajñaḥ sarvānseveta paṇḍitaḥ ||

  43. Verse 43

    मोक्षो वा परमं श्रेय एष राजन्सुखार्थिनाम्। प्राप्तिं वा बुद्धिमास्थाय सोपायां कुरुनन्दन ।।

    mokṣo vā paramaṃ śreya eṣa rājansukhārthinām| prāptiṃ vā buddhimāsthāya sopāyāṃ kurunandana ||

  44. Verse 44

    तद्वाऽऽशु क्रियतां राजन्प्राप्तिर्वाप्यधिगम्यताम्। जीवितं ह्यातुरस्येव दुःखमन्तरवर्तिनः ।। कामं पूर्वेवयसि चरेत् ।।

    tadvā''śu kriyatāṃ rājanprāptirvāpyadhigamyatām| jīvitaṃ hyāturasyeva duḥkhamantaravartinaḥ || kāmaṃ pūrvevayasi caret ||

  45. Verse 45

    विदितश्चैव मे धर्मः सततं चरितश्च ते। जानन्तस्त्वयि शंसन्ति सुहृदः कर्मचोदनाम् ।। प्राप्तिर्महोदयो वा राज्यलाभजः तन्मोक्षाख्यं श्रेयः। दुःखं दुःखदम् ।।

    viditaścaiva me dharmaḥ satataṃ caritaśca te| jānantastvayi śaṃsanti suhṛdaḥ karmacodanām || prāptirmahodayo vā rājyalābhajaḥ tanmokṣākhyaṃ śreyaḥ| duḥkhaṃ duḥkhadam ||

  46. Verse 46

    दानं यज्ञाः सतां पूजा वेदधारणमार्जवम्। एष धर्मः परो राजन्फलवान्प्रेत्य चेंह च ।।

    dānaṃ yajñāḥ satāṃ pūjā vedadhāraṇamārjavam| eṣa dharmaḥ paro rājanphalavānpretya ceṃha ca ||

  47. Verse 47

    एष नार्थविहीनेन शक्यो राजन्निपेवितुम्। अखिलाः पुरुषव्याघ्र गुणाः स्युर्यद्यपीनरे ।।

    eṣa nārthavihīnena śakyo rājannipevitum| akhilāḥ puruṣavyāghra guṇāḥ syuryadyapīnare ||

  48. Verse 48

    धर्ममूलं जगद्राजन्नान्यद्धर्माद्विशिष्यते। धर्मश्चार्थेन महता शक्यो राजन्निषेवितुम् ।।

    dharmamūlaṃ jagadrājannānyaddharmādviśiṣyate| dharmaścārthena mahatā śakyo rājanniṣevitum ||

  49. Verse 49

    न चार्थो भैक्ष्यचर्येण नापि क्लैब्येन कर्हिचित्। वेत्तुं शक्यस्तथा राजन्केवलं धर्मबुद्धिना ।। कर्मचोदनां प्रवृत्तिजनकं वेदवाक्यं शंसन्ति कथयन्ति ।।

    na cārtho bhaikṣyacaryeṇa nāpi klaibyena karhicit| vettuṃ śakyastathā rājankevalaṃ dharmabuddhinā || karmacodanāṃ pravṛttijanakaṃ vedavākyaṃ śaṃsanti kathayanti ||

  50. Verse 50

    प्रतिष्द्धा हि ते याच्ञा यया सिध्यति वै द्विजः। तेजसैवार्थलिप्सायां यतस्व पुरुषर्षभ ।। क्लैब्येन कातर्येण। वेत्तुं लब्धुम् ।।

    pratiṣddhā hi te yācñā yayā sidhyati vai dvijaḥ| tejasaivārthalipsāyāṃ yatasva puruṣarṣabha || klaibyena kātaryeṇa| vettuṃ labdhum ||

  51. Verse 51

    भैक्ष्यचर्या न विहिता न च विट्शूद्रजीविका। क्षत्रियस् विशेषेण धर्मस्तु बलमौरसम् ।। द्विजः ब्राह्मणः ।।

    bhaikṣyacaryā na vihitā na ca viṭśūdrajīvikā| kṣatriyas viśeṣeṇa dharmastu balamaurasam || dvijaḥ brāhmaṇaḥ ||

  52. Verse 52

    स्वधर्मं प्रतिपद्यस्व जहि शत्रून्समागतान्। धार्तराष्ट्रवनं पार्थ मया पार्थेन नाशय ।।

    svadharmaṃ pratipadyasva jahi śatrūnsamāgatān| dhārtarāṣṭravanaṃ pārtha mayā pārthena nāśaya ||

  53. Verse 53

    उदारमेव विद्वांसो धर्मं प्राहुर्मनीषिणः। उदारं प्रतिपद्यस्व नावरे स्थातुमर्हसि ।। औरसं उत्साहः ।।

    udārameva vidvāṃso dharmaṃ prāhurmanīṣiṇaḥ| udāraṃ pratipadyasva nāvare sthātumarhasi || aurasaṃ utsāhaḥ ||

  54. Verse 54

    अनुबुध्यस्व राजेन्द्र वेत्थ धर्मान्सनातनान्। क्रूरकर्माऽभिजातोसि यस्मादुद्विजते जनः ।। उदारं ईश्वरभावम्। अवरे अनैश्वर्ये ।।

    anubudhyasva rājendra vettha dharmānsanātanān| krūrakarmā'bhijātosi yasmādudvijate janaḥ || udāraṃ īśvarabhāvam| avare anaiśvarye ||

  55. Verse 55

    प्रजापालनसंभूतं फलं तव न गर्हितम्। एष ते विहितो राजन्धात्रा धर्मः सनातनः ।।

    prajāpālanasaṃbhūtaṃ phalaṃ tava na garhitam| eṣa te vihito rājandhātrā dharmaḥ sanātanaḥ ||

  56. Verse 56

    तस्माद्विचलितः पार्थ लोके हास्यं गमिष्यसि। स्वधर्माद्धि मनुष्याणां चलनं न प्रशस्यते ।।

    tasmādvicalitaḥ pārtha loke hāsyaṃ gamiṣyasi| svadharmāddhi manuṣyāṇāṃ calanaṃ na praśasyate ||

  57. Verse 57

    स क्षात्रं हृदयं कृत्वा त्यक्त्वेदं शिथिलं मनः। वीर्यमास्थाय कौरव्य धुरमुद्वह धुर्यवत् ।।

    sa kṣātraṃ hṛdayaṃ kṛtvā tyaktvedaṃ śithilaṃ manaḥ| vīryamāsthāya kauravya dhuramudvaha dhuryavat ||

  58. Verse 58

    न हि केवलधर्मात्मा पृथिवीं जातु कश्चन। पार्थिवो व्यजयद्राजन्न भूतिं न पुनः श्रियम् ।।

    na hi kevaladharmātmā pṛthivīṃ jātu kaścana| pārthivo vyajayadrājanna bhūtiṃ na punaḥ śriyam ||

  59. Verse 59

    जिह्वां दत्ता बहूनां हि क्षुद्राणां लुब्धचेतसाम्। निकृत्या लभते राज्यमाहारमिव शल्यकः ।। क्रूरं हिंसात्मकं क्षात्रं कर्म यस्य ।।

    jihvāṃ dattā bahūnāṃ hi kṣudrāṇāṃ lubdhacetasām| nikṛtyā labhate rājyamāhāramiva śalyakaḥ || krūraṃ hiṃsātmakaṃ kṣātraṃ karma yasya ||

  60. Verse 60

    भ्रातर पूर्वजाताश्च सुसमृद्धाश्च सर्वशः। निकृत्या निर्जिता देवैरसुराः पाण्डवर्षभ ।।

    bhrātara pūrvajātāśca susamṛddhāśca sarvaśaḥ| nikṛtyā nirjitā devairasurāḥ pāṇḍavarṣabha ||

  61. Verse 61

    एवं बलवतः सर्वमिति बुद्ध्वा महीपते। जहि शत्रून्महाबाहो परां निकृतिमास्थितान् ।।

    evaṃ balavataḥ sarvamiti buddhvā mahīpate| jahi śatrūnmahābāho parāṃ nikṛtimāsthitān ||

  62. Verse 62

    न ह्यर्जुनसमः कश्चिद्युधि योद्धा धनुर्धरः। भविता वा पुमान्कश्चिन्मत्समो वा गदाधरः ।।

    na hyarjunasamaḥ kaścidyudhi yoddhā dhanurdharaḥ| bhavitā vā pumānkaścinmatsamo vā gadādharaḥ ||

  63. Verse 63

    सत्वेन कुरुते युद्धं राजन्सुबलवानपि। न प्रमाणेन नोत्साहात्सत्वस्थो भव पाण्डव ।। जिह्वां जिह्वायाः प्रियं साध्वन्नं उत्कोचमित्यर्थः। क्षुद्राणां शत्रुपक्षीयाणाम्। निकृत्या भेदरूपेण छलेन। शल्यकः व्याधः। स हि मृगेभ्यो भक्ष्यं दत्त्वा विश्वास्य हत्वा आहारं लभते तद्वत् ।।

    satvena kurute yuddhaṃ rājansubalavānapi| na pramāṇena notsāhātsatvastho bhava pāṇḍava || jihvāṃ jihvāyāḥ priyaṃ sādhvannaṃ utkocamityarthaḥ| kṣudrāṇāṃ śatrupakṣīyāṇām| nikṛtyā bhedarūpeṇa chalena| śalyakaḥ vyādhaḥ| sa hi mṛgebhyo bhakṣyaṃ dattvā viśvāsya hatvā āhāraṃ labhate tadvat ||

  64. Verse 64

    सत्वं हि मूलमर्थस् यवितथं यदतोऽन्यथा। न तु प्रसक्तं भवति वृक्षच्छायेन हैमनी ।।

    satvaṃ hi mūlamarthas yavitathaṃ yadato'nyathā| na tu prasaktaṃ bhavati vṛkṣacchāyena haimanī ||

  65. Verse 65

    अर्थत्यागोऽपि कार्यः स्यादर्थं श्रेयांसमिच्छता। बीजौपम्यन कौन्तेय मा ते भूदत्र संशयः ।।

    arthatyāgo'pi kāryaḥ syādarthaṃ śreyāṃsamicchatā| bījaupamyana kaunteya mā te bhūdatra saṃśayaḥ ||

  66. Verse 66

    अर्थेन तु समोऽनर्थो यत्र लब्धो महोदयः। न तत्र विपणः कार्यः खरकण्डूयनं हि तत् ।।

    arthena tu samo'nartho yatra labdho mahodayaḥ| na tatra vipaṇaḥ kāryaḥ kharakaṇḍūyanaṃ hi tat ||

  67. Verse 67

    एवमेव मनुष्येन्द्र धर्मं त्यक्त्वाऽल्पकं नरः। बृहन्तं धर्ममाप्नोति स बुद्ध इति निश्चितम् ।। सत्वेन बलेन। प्रमाणेन संधेन। उत्साहेन शत्रुपक्षीयैः सह संधानलक्षणेन ।।

    evameva manuṣyendra dharmaṃ tyaktvā'lpakaṃ naraḥ| bṛhantaṃ dharmamāpnoti sa buddha iti niścitam || satvena balena| pramāṇena saṃdhena| utsāhena śatrupakṣīyaiḥ saha saṃdhānalakṣaṇena ||

  68. Verse 68

    अमित्रं मित्रसंपन्नं मित्रैर्भिन्दन्ति पण्डितः।। भिन्नैर्मित्रैः परित्यक्तं दुर्बलं कुरुते वशे ।।

    amitraṃ mitrasaṃpannaṃ mitrairbhindanti paṇḍitaḥ|| bhinnairmitraiḥ parityaktaṃ durbalaṃ kurute vaśe ||

  69. Verse 69

    सत्वेन कुरुते युद्धं राजन्सुबलवानपि। नोद्यमेन न होत्राभिः सर्वाः स्वीकुरुते प्रजाः ।। एवमेव बीजौपम्येन ।।

    satvena kurute yuddhaṃ rājansubalavānapi| nodyamena na hotrābhiḥ sarvāḥ svīkurute prajāḥ || evameva bījaupamyena ||

  70. Verse 70

    सर्वथा संहतैरेव दुर्बलैर्बलवानपि। अमित्रः शक्यते हन्तुं मधुहा भ्रमरैरिव ।। होत्राभिः सान्त्वेन आह्वानैः ।।

    sarvathā saṃhataireva durbalairbalavānapi| amitraḥ śakyate hantuṃ madhuhā bhramarairiva || hotrābhiḥ sāntvena āhvānaiḥ ||

  71. Verse 71

    यथा राजन्प्रजाः सर्वाः सूर्यः पाति गभस्तिभिः। हन्ति चैव तथैव त्वं सदृशः सवितुर्भव ।। संहतैर्मिलितैः। मधुहा मध्वर्थं गतः। ओहाङ्गतौ इत्यस्य रूपम्। कालप्रतीक्षायां हि शत्रुर्बलवान् भूत्वाऽस्मान् जेष्यतीति भावः ।।

    yathā rājanprajāḥ sarvāḥ sūryaḥ pāti gabhastibhiḥ| hanti caiva tathaiva tvaṃ sadṛśaḥ saviturbhava || saṃhatairmilitaiḥ| madhuhā madhvarthaṃ gataḥ| ohāṅgatau ityasya rūpam| kālapratīkṣāyāṃ hi śatrurbalavān bhūtvā'smān jeṣyatīti bhāvaḥ ||

  72. Verse 72

    एतच्चापि तपो पाजन्पुराणमिति नः श्रुतम्। विधिना पालनं भूमेर्यत्कृतं नः पितामहैः ।। हन्ति रसशोषणेन। पाति वर्षेण ।।

    etaccāpi tapo pājanpurāṇamiti naḥ śrutam| vidhinā pālanaṃ bhūmeryatkṛtaṃ naḥ pitāmahaiḥ || hanti rasaśoṣaṇena| pāti varṣeṇa ||

  73. Verse 73

    न तथा तपसा राजँल्लोकान्प्राप्नोति क्षत्रियः। यथा सृष्टेन युद्धेन विजयेनेतरेण वा ।। पुराणं अनादि ।।

    na tathā tapasā rāja~llokānprāpnoti kṣatriyaḥ| yathā sṛṣṭena yuddhena vijayenetareṇa vā || purāṇaṃ anādi ||

  74. Verse 74

    अपेयात्किल भा सूर्याल्लक्ष्मीश्चन्द्रमसस्तथा। इतिलोको व्यवसितो दृष्ट्वेमां भवतोव्यथाम् ।। इतरेण मरणेन ।।

    apeyātkila bhā sūryāllakṣmīścandramasastathā| itiloko vyavasito dṛṣṭvemāṃ bhavatovyathām || itareṇa maraṇena ||

  75. Verse 75

    भवतश्च प्रशंसाभिर्निन्दाभिरितरस्य च। कथयन्त्यः परिषदः पृथग्राजन्समागताः ।।

    bhavataśca praśaṃsābhirnindābhiritarasya ca| kathayantyaḥ pariṣadaḥ pṛthagrājansamāgatāḥ ||

  76. Verse 76

    इदमभ्यधिकं राजन्ब्राह्मणाः कुरवश्च ते। समेताः कथयन्तीह मुदिताः सत्यसन्धताम् ।।

    idamabhyadhikaṃ rājanbrāhmaṇāḥ kuravaśca te| sametāḥ kathayantīha muditāḥ satyasandhatām ||

  77. Verse 77

    यन्न मोहान्न कार्पण्यान्न लोभान्न भयादपि। अनृतं किंचिदुक्तं ते न कामान्नार्थकारणात् ।।

    yanna mohānna kārpaṇyānna lobhānna bhayādapi| anṛtaṃ kiṃciduktaṃ te na kāmānnārthakāraṇāt ||

  78. Verse 78

    यदेनः कुरुते किंचिद्राजा भूमिमवाप्नुवन्। सर्वं तन्नुदते पश्चाद्यज्ञैर्विपुलदक्षिणैः ।। अपेयात् अपगच्छेत्। व्यवसितः निश्चितः ।।

    yadenaḥ kurute kiṃcidrājā bhūmimavāpnuvan| sarvaṃ tannudate paścādyajñairvipuladakṣiṇaiḥ || apeyāt apagacchet| vyavasitaḥ niścitaḥ ||

  79. Verse 79

    ब्राह्मणेभ्यो ददद्ग्रामान्गाश्च राजन्सहस्रशः। मुच्यते वीर पापेभ्यस्तमोभ्य इव चन्द्रमाः ।।

    brāhmaṇebhyo dadadgrāmāngāśca rājansahasraśaḥ| mucyate vīra pāpebhyastamobhya iva candramāḥ ||

  80. Verse 80

    पौरजानपदाः सर्वे प्रायशः कुरुनन्दन। सवृद्धबालाः सहिताः शंसन्ति त्वां युधिष्ठिर ।।

    paurajānapadāḥ sarve prāyaśaḥ kurunandana| savṛddhabālāḥ sahitāḥ śaṃsanti tvāṃ yudhiṣṭhira ||

  81. Verse 81

    श्वदृतौ क्षीरमासक्तं ब्रह्म वा वृषले यथा। सत्यं स्तेने बलं नार्यां राज्यं दुर्योधने तथा ।। एनः पापम्। अवाप्नुवन् अवाप्तिहेतोः ।।

    śvadṛtau kṣīramāsaktaṃ brahma vā vṛṣale yathā| satyaṃ stene balaṃ nāryāṃ rājyaṃ duryodhane tathā || enaḥ pāpam| avāpnuvan avāptihetoḥ ||

  82. Verse 82

    इतिलोके निर्वचनं पुरश्चरति भारत। अपि चैताः स्त्रियो बालाः स्वाध्यायमधिकुर्वते ।। श्वदृतौ सारमेयचर्मकोशे। ब्रह्म वेदः। वृषले शूद्रे ।।

    itiloke nirvacanaṃ puraścarati bhārata| api caitāḥ striyo bālāḥ svādhyāyamadhikurvate || śvadṛtau sārameyacarmakośe| brahma vedaḥ| vṛṣale śūdre ||

  83. Verse 83

    इमामवस्थां च गते सहास्माभिररिंदम्। हन्त नष्टाः स्म सर्वे वै भवतोपद्रवे सति ।। स्वाध्यायमधिकुर्वतेश्वदृताविति श्लोकं वेदवत् स्त्र्यादयो नित्यं पठन्तीत्यर्तः ।।

    imāmavasthāṃ ca gate sahāsmābhirariṃdam| hanta naṣṭāḥ sma sarve vai bhavatopadrave sati || svādhyāyamadhikurvateśvadṛtāviti ślokaṃ vedavat stryādayo nityaṃ paṭhantītyartaḥ ||

  84. Verse 84

    स भवान्रथमास्थाय सर्वोपकरणान्वितम्। त्वरमाणोऽभिनिर्यातु विप्रेभ्योऽर्थविभावकः ।। भवता हेतुना। उपद्रवे राज्यभ्रंशे ।।

    sa bhavānrathamāsthāya sarvopakaraṇānvitam| tvaramāṇo'bhiniryātu viprebhyo'rthavibhāvakaḥ || bhavatā hetunā| upadrave rājyabhraṃśe ||

  85. Verse 85

    वाचयित्वा द्विजश्रेष्ठानद्यैव गजसाह्वयम्। अस्त्रविद्भिः परिवृतोभ्रातृभिर्दृढधन्विभिः ।। अर्थविभावको जयार्जितामर्थं प्रदातुम् ।।

    vācayitvā dvijaśreṣṭhānadyaiva gajasāhvayam| astravidbhiḥ parivṛtobhrātṛbhirdṛḍhadhanvibhiḥ || arthavibhāvako jayārjitāmarthaṃ pradātum ||

  86. Verse 86

    आशीविषसमैर्वीरैर्मरुद्भिरिव वृत्रहा। अमित्रांस्तेजसा मृद्गन्नसुरानिव वृत्रहा। श्रियमादत्स्व कौन्तेय धार्तराष्ट्रान्महाबल ।। वाचयित्वा आशीर्वादान् ।।

    āśīviṣasamairvīrairmarudbhiriva vṛtrahā| amitrāṃstejasā mṛdgannasurāniva vṛtrahā| śriyamādatsva kaunteya dhārtarāṣṭrānmahābala || vācayitvā āśīrvādān ||

  87. Verse 87

    न हि गाण्डीवमुक्तानां शराणां गार्ध्रवाससाम्। स्पर्शमाशीविषाभानां मर्त्यः कश्चन संसहेत् ।।

    na hi gāṇḍīvamuktānāṃ śarāṇāṃ gārdhravāsasām| sparśamāśīviṣābhānāṃ martyaḥ kaścana saṃsahet ||

  88. Verse 88

    न स वीरो न मातङ्गो न च सोऽश्वोस्ति भारत। यः सहेत गदावेगं मम क्रुद्धस्य संयुगे ।।

    na sa vīro na mātaṅgo na ca so'śvosti bhārata| yaḥ saheta gadāvegaṃ mama kruddhasya saṃyuge ||

  89. Verse 89

    सृञ्जयैः सहकैकेयैर्वृष्णीनां वृषभेण च। कथंस्विद्युधि कौन्तेय न राज्यं प्राप्नुयामहे ।।

    sṛñjayaiḥ sahakaikeyairvṛṣṇīnāṃ vṛṣabheṇa ca| kathaṃsvidyudhi kaunteya na rājyaṃ prāpnuyāmahe ||

  90. Verse 90

    शत्रुहस्तगतां राजन्कथंस्विन्नाहरेर्महीम्। इह यत्नमुपाहृत्य बलेन महताऽन्वितः ।। धार्तराष्ट्रादिति च्छेदः ।।

    śatruhastagatāṃ rājankathaṃsvinnāharermahīm| iha yatnamupāhṛtya balena mahatā'nvitaḥ || dhārtarāṣṭrāditi cchedaḥ ||