Adhyaya 12
Vana Parva · 139 verses
139 verses · free forever
English has not yet been added to this adhyaya. You can read the Ganesha passage or Vana Parva 312–315 with English.
Uses your saved HI voice · Narration settings
Narration reads the opening of this section. Longer passages are split to keep playback responsive.
Verse 1
श्रीकृष्णेन स्वीयैः सह वने पाण्डवसमीपगमनम् ।। 1 ।। अर्जुनेन कृष्णस्तवनम् ।। 2 ।। स्वदुखनिवेदनपूर्वकं रुदन्त्या द्रौपद्याः कृष्णेन समाश्वासनम् ।। 3 ।। वैशम्पायन उवाच।। भोजाः प्रव्रजिताञ्श्रुत्वा वृष्णयश्चान्धकैः सह । पाण्डवान्दुःखसन्तप्तान्समाजग्मुर्महावने ।।१।। पाञ्चालस्य च दायादा धृष्टकेतुश्च चेदिपः । केकयाश्च महावीर्या भ्रातरो लोकविश्रुताः ।।२।। वने तेऽभिययुः पार्थान्क्रोधामर्शसमन्विताः । गर्हयन्तो धार्तराष्ट्रान्किं कुर्म इति चाब्रुवन् ।।३।। वासुदेवं पुरस्कृत्य सर्वे ते क्षत्रियर्षभाः । परिवार्योपविविशुर्धर्मराजं युधिष्ठिरम् ।।४।। वासुदेव उवाच।। दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः । दुःशासनचतुर्थानां भूमिः पास्यति शोणितम् ।।५।। ततः सर्वेऽभिषिञ्चामो धर्मराजं युधिष्ठिरम् । निकृत्योपचरन्वध्य एष धर्मः सनातनः ।।६।। वैशम्पायन उवाच।। पार्थानामभिषङ्गेण तथा क्रुद्धं जनार्दनम् । अर्जुनः शमयामासा दिधक्षन्तमिव प्रजाः ।।७।। सङ्क्रुद्धं केशवं दृष्ट्वा पूर्वदेहेषु फल्गुनः । कीर्तयामास कर्माणि सत्यकीर्तेर्महात्मनः ।।८।। पुरुषस्याप्रमेयस्य सत्यस्यामिततेजसः । प्रजापतिपतेर्विष्णोर्लोकनाथस्य धीमतः ।।९।। अर्जुन उवाच।। दश वर्षसहस्राणि यत्रसायङ्गृहो मुनिः । व्यचरस्त्वं पुरा कृष्ण पर्वते गन्धमादने ।।१०।। दश वर्षसहस्राणि दश वर्षशतानि च । पुष्करेष्ववसः कृष्ण त्वमपो भक्षयन्पुरा ।।११।। ऊर्ध्वबाहुर्विशालायां बदर्यां मधुसूदन । अतिष्ठ एकपादेन वायुभक्षः शतं समाः ।।१२।। अपकृष्टोत्तरासङ्गः कृशो धमनिसन्ततः । आसीः कृष्ण सरस्वत्यां सत्रे द्वादशवार्षिके ।।१३।। प्रभासं चाप्यथासाद्य तीर्थं पुण्यजनोचितम् । तथा कृष्ण महातेजा दिव्यं वर्षसहस्रकम् ।।१४।। आतिष्ठस्तप एकेन पादेन नियमे स्थितः ।।१४।। क्षेत्रज्ञः सर्वभूतानामादिरन्तश्च केशव । निधानं तपसां कृष्ण यज्ञस्त्वं च सनातनः ।।१५।। निहत्य नरकं भौममाहृत्य मणिकुण्डले । प्रथमोत्पादितं कृष्ण मेध्यमश्वमवासृजः ।।१६।। कृत्वा तत्कर्म लोकानामृषभः सर्वलोकजित् । अवधीस्त्वं रणे सर्वान्समेतान्दैत्यदानवान् ।।१७।। ततः सर्वेश्वरत्वं च सम्प्रदाय शचीपतेः । मानुषेषु महाबाहो प्रादुर्भूतोऽसि केशव ।।१८।। स त्वं नारायणो भूत्वा हरिरासीः परन्तप । ब्रह्मा सोमश्च सूर्यश्च धर्मो धाता यमोऽनलः ।।१९।। वायुर्वैश्रवणो रुद्रः कालः खं पृथिवी दिशः । अजश्चराचरगुरुः स्रष्टा त्वं पुरुषोत्तम ।।२०।। तुरायणादिभिर्देव क्रतुभिर्भूरिदक्षिणैः । अयजो भूरितेजा वै कृष्ण चैत्ररथे वने ।।२१।। शतं शतसहस्राणि सुवर्णस्य जनार्दन । एकैकस्मिंस्तदा यज्ञे परिपूर्णानि भागशः ।।२२।। अदितेरपि पुत्रत्वमेत्य यादवनन्दन । त्वं विष्णुरिति विख्यात इन्द्रादवरजो भुवि ।।२३।। शिशुर्भूत्वा दिवं खं च पृथिवीं च परन्तप । त्रिभिर्विक्रमणैः कृष्ण क्रान्तवानसि तेजसा ।।२४।। सम्प्राप्य दिवमाकाशमादित्यसदने स्थितः । अत्यरोचश्च भूतात्मन्भास्करं स्वेन तेजसा ।।२५।। सादिता मौरवाः पाशा निसुन्दनरकौ हतौ । कृतः क्षेमः पुनः पन्थाः पुरं प्राग्ज्योतिषं प्रति ।।२६।। जारूथ्यामाहुतिः क्राथः शिशुपालो जनैः सह । भीमसेनश्च शैब्यश्च शतधन्वा च निर्जितः ।।२७।। तथा पर्जन्यघोषेण रथेनादित्यवर्चसा । अवाक्षीर्महिषीं भोज्यां रणे निर्जित्य रुक्मिणम् ।।२८।। इन्द्रद्युम्नो हतः कोपाद्यवनश्च कशेरुमान् । हतः सौभपतिः शाल्वस्त्वया सौभं च पातितम् ।।२९।। इरावत्यां तथा भोजः कार्तवीर्यसमो युधि । गोपतिस्तालकेतुश्च त्वया विनिहतावुभौ ।।३०।। तां च भोगवतीं पुण्यामृषिकान्तां जनार्दन । द्वारकामात्मसात्कृत्वा समुद्रं गमयिष्यसि ।।३१।। न क्रोधो न च मात्सर्यं नानृतं मधुसूदन । त्वयि तिष्ठति दाशार्ह न नृशंस्यं कुतोऽनृजु ।।३२।। आसीनं चित्तमध्ये त्वां दीप्यमानं स्वतेजसा । आगम्य ऋषयः सर्वेऽयाचन्ताभयमच्युत ।।३३।। युगान्ते सर्वभूतानि सङ्क्षिप्य मधुसूदन । आत्मन्येवात्मसात्कृत्वा जगदास्से परन्तप ।।३४।। नैवं पूर्वे नापरे वा करिष्यन्ति कृतानि ते । कर्माणि यानि देव त्वं बाल एव महाद्युते ।।३५।। कृतवान्पुण्डरीकाक्ष बलदेवसहायवान् । वैराजभवने चापि ब्रह्मणा न्यवसः सह ।।३६।। वैशम्पायन उवाच।। एवमुक्त्वा तदात्मानमात्मा कृष्णस्य पाण्डवः । तूष्णीमासीत्ततः पार्थमित्युवाच जनार्दनः ।।३७।। ममैव त्वं तवैवाहं ये मदीयास्तवैव ते । यस्त्वां द्वेष्टि स मां द्वेष्टि यस्त्वामनु स मामनु ।।३८।। नरस्त्वमसि दुर्धर्ष हरिर्नारायणो ह्यहम् । लोकाल्लोकमिमं प्राप्तौ नरनारायणावृषी ।।३९।। अनन्यः पार्थ मत्तस्त्वमहं त्वत्तश्च भारत । नावयोरन्तरं शक्यं वेदितुं भरतर्षभ ।।४०।। तस्मिन्वीरसमावाये संरब्धेष्वथ राजसु । धृष्टद्युम्नमुखैर्वीरैर्भ्रातृभिः परिवारिता ।।४१।। पाञ्चाली पुण्डरीकाक्षमासीनं यादवैः सह । अभिगम्याब्रवीत्कृष्णा शरण्यं शरणैषिणी ।।४२।। पूर्वे प्रजानिसर्गे त्वामाहुरेकं प्रजापतिम् । स्रष्टारं सर्वभूतानामसितो देवलोऽब्रवीत् ।।४३।। विष्णुस्त्वमसि दुर्धर्ष त्वं यज्ञो मधुसूदन । यष्टा त्वमसि यष्टव्यो जामदग्न्यो यथाब्रवीत् ।।४४।। ऋषयस्त्वां क्षमामाहुः सत्यं च पुरुषोत्तम । सत्याद्यज्ञोऽसि सम्भूतः कश्यपस्त्वां यथाब्रवीत् ।।४५।। साध्यानामपि देवानां वसूनामीश्वरेश्वरः । लोकभावन लोकेश यथा त्वां नारदोऽब्रवीत् ।।४६।। दिवं ते शिरसा व्याप्तं पद्भ्यां च पृथिवी विभो । जठरं ते इमे लोकाः पुरुषोऽसि सनातनः ।।४७।। विद्यातपोऽभितप्तानां तपसा भावितात्मनाम् । आत्मदर्शनसिद्धानामृषीणामृषिसत्तम ।।४८।। राजर्षीणां पुण्यकृतामाहवेष्वनिवर्तिनाम् । सर्वधर्मोपपन्नानां त्वं गतिः पुरुषोत्तम ।।४९।। त्वं प्रभुस्त्वं विभुस्त्वं भूरात्मभूस्त्वं सनातनः । लोकपालाश्च लोकाश्च नक्षत्राणि दिशो दश ।।५०।। नभश्चन्द्रश्च सूर्यश्च त्वयि सर्वं प्रतिष्ठितम् ।।५०।। मर्त्यता चैव भूतानाममरत्वं दिवौकसाम् । त्वयि सर्वं महाबाहो लोककार्यं प्रतिष्ठितम् ।।५१।। सा तेऽहं दुःखमाख्यास्ये प्रणयान्मधुसूदन । ईशस्त्वं सर्वभूतानां ये दिव्या ये च मानुषाः ।।५२।। कथं नु भार्या पार्थानां तव कृष्ण सखी विभो । धृष्टद्युम्नस्य भगिनी सभां कृष्येत मादृशी ।।५३।। स्त्रीधर्मिणी वेपमाना रुधिरेण समुक्षिता । एकवस्त्रा विकृष्टास्मि दुःखिता कुरुसंसदि ।।५४।। राजमध्ये सभायां तु रजसाभिसमीरिताम् । दृष्ट्वा च मां धार्तराष्ट्राः प्राहसन्पापचेतसः ।।५५।। दासीभावेन भोक्तुं मामीषुस्ते मधुसूदन । जीवत्सु पाण्डुपुत्रेषु पाञ्चालेष्वथ वृष्णिषु ।।५६।। नन्वहं कृष्ण भीष्मस्य धृतराष्ट्रस्य चोभयोः । स्नुषा भवामि धर्मेण साहं दासीकृता बलात् ।।५७।। गर्हये पाण्डवांस्त्वेव युधि श्रेष्ठान्महाबलान् । ये क्लिश्यमानां प्रेक्षन्ते धर्मपत्नीं यशस्विनीम् ।।५८।। धिग्बलं भीमसेनस्य धिक्पार्थस्य धनुष्मताम् । यौ मां विप्रकृतां क्षुद्रैर्मर्षयेतां जनार्दन ।।५९।। शाश्वतोऽयं धर्मपथः सद्भिराचरितः सदा । यद्भार्यां परिरक्षन्ति भर्तारोऽल्पबला अपि ।।६०।। भार्यायां रक्ष्यमाणायां प्रजा भवति रक्षिता । प्रजायां रक्ष्यमाणायामात्मा भवति रक्षितः ।।६१।। आत्मा हि जायते तस्यां तस्माज्जाया भवत्युत । भर्ता च भार्यया रक्ष्यः कथं जायान्ममोदरे ।।६२।। नन्विमे शरणं प्राप्तान्न त्यजन्ति कदाचन । ते मां शरणमापन्नां नान्वपद्यन्त पाण्डवाः ।।६३।। पञ्चेमे पञ्चभिर्जाताः कुमाराश्चामितौजसः । एतेषामप्यवेक्षार्थं त्रातव्यास्मि जनार्दन ।।६४।। प्रतिविन्ध्यो युधिष्ठिरात्सुतसोमो वृकोदरात् । अर्जुनाच्छ्रुतकीर्तिस्तु शतानीकस्तु नाकुलिः ।।६५।। कनिष्ठाच्छ्रुतकर्मा तु सर्वे सत्यपराक्रमाः । प्रद्युम्नो यादृशः कृष्ण तादृशास्ते महारथाः ।।६६।। नन्विमे धनुषि श्रेष्ठा अजेया युधि शात्रवैः । किमर्थं धार्तराष्ट्राणां सहन्ते दुर्बलीयसाम् ।।६७।। अधर्मेण हृतं राज्यं सर्वे दासाः कृतास्तथा । सभायां परिकृष्टाहमेकवस्त्रा रजस्वला ।।६८।। नाधिज्यमपि यच्छक्यं कर्तुमन्येन गाण्डिवम् । अन्यत्रार्जुनभीमाभ्यां त्वया वा मधुसूदन ।।६९।। धिग्भीमसेनस्य बलं धिक्पार्थस्य च गाण्डिवम् । यत्र दुर्योधनः कृष्ण मुहूर्तमपि जीवति ।।७०।। य एतानाक्षिपद्राष्ट्रात्सह मात्राविहिंसकान् । अधीयानान्पुरा बालान्व्रतस्थान्मधुसूदन ।।७१।। भोजने भीमसेनस्य पापः प्राक्षेपयद्विषम् । कालकूटं नवं तीक्ष्णं सम्भृतं लोमहर्षणम् ।।७२।। तज्जीर्णमविकारेण सहान्नेन जनार्दन । सशेषत्वान्महाबाहो भीमस्य पुरुषोत्तम ।।७३।। प्रमाणकोट्यां विश्वस्तं तथा सुप्तं वृकोदरम् । बद्ध्वैनं कृष्ण गङ्गायां प्रक्षिप्य पुनराव्रजत् ।।७४।। यदा विबुद्धः कौन्तेयस्तदा सञ्छिद्य बन्धनम् । उदतिष्ठन्महाबाहुर्भीमसेनो महाबलः ।।७५।। आशीविषैः कृष्णसर्पैः सुप्तं चैनमदंशयत् । सर्वेष्वेवाङ्गदेशेषु न ममार च शत्रुहा ।।७६।। प्रतिबुद्धस्तु कौन्तेयः सर्वान्सर्पानपोथयत् । सारथिं चास्य दयितमपहस्तेन जघ्निवान् ।।७७।। पुनः सुप्तानुपाधाक्षीद्बालकान्वारणावते । शयानानार्यया सार्धं को नु तत्कर्तुमर्हति ।।७८।। यत्रार्या रुदती भीता पाण्डवानिदमब्रवीत् । महद्व्यसनमापन्ना शिखिना परिवारिता ।।७९।। हा हतास्मि कुतो न्वद्य भवेच्छान्तिरिहानलात् । अनाथा विनशिष्यामि बालकैः पुत्रकैः सह ।।८०।। तत्र भीमो महाबाहुर्वायुवेगपराक्रमः । आर्यामाश्वासयामास भ्रातॄंश्चापि वृकोदरः ।।८१।। वैनतेयो यथा पक्षी गरुडः पततां वरः । तथैवाभिपतिष्यामि भयं वो नेह विद्यते ।।८२।। आर्यामङ्केन वामेन राजानं दक्षिणेन च । अंसयोश्च यमौ कृत्वा पृष्ठे बीभत्सुमेव च ।।८३।। सहसोत्पत्य वेगेन सर्वानादाय वीर्यवान् । भ्रातॄनार्यां च बलवान्मोक्षयामास पावकात् ।।८४।। ते रात्रौ प्रस्थिताः सर्वे मात्रा सह यशस्विनः । अभ्यगच्छन्महारण्यं हिडिम्बवनमन्तिकात् ।।८५।। श्रान्ताः प्रसुप्तास्तत्रेमे मात्रा सह सुदुःखिताः । सुप्तांश्चैनानभ्यगच्छद्धिडिम्बा नाम राक्षसी ।।८६।। भीमस्य पादौ कृत्वा तु स्व उत्सङ्गे ततो बलात् । पर्यमर्दत संहृष्टा कल्याणी मृदुपाणिना ।।८७।। तामबुध्यदमेयात्मा बलवान्सत्यविक्रमः । पर्यपृच्छच्च तां भीमः किमिहेच्छस्यनिन्दिते ।।८८।। तयोः श्रुत्वा तु कथितमागच्छद्राक्षसाधमः । भीमरूपो महानादान्विसृजन्भीमदर्शनः ।।८९।। केन सार्धं कथयसि आनयैनं ममान्तिकम् । हिडिम्बे भक्षयिष्यावो न चिरं कर्तुमर्हसि ।।९०।। सा कृपासङ्गृहीतेन हृदयेन मनस्विनी । नैनमैच्छत्तदाख्यातुमनुक्रोशादनिन्दिता ।।९१।। स नादान्विनदन्घोरान्राक्षसः पुरुषादकः । अभ्यद्रवत वेगेन भीमसेनं तदा किल ।।९२।। तमभिद्रुत्य सङ्क्रुद्धो वेगेन महता बली । अगृह्णात्पाणिना पाणिं भीमसेनस्य राक्षसः ।।९३।। इन्द्राशनिसमस्पर्शं वज्रसंहननं दृढम् । संहत्य भीमसेनाय व्याक्षिपत्सहसा करम् ।।९४।। गृहीतं पाणिना पाणिं भीमसेनोऽथ रक्षसा । नामृष्यत महाबाहुस्तत्राक्रुध्यद्वृकोदरः ।।९५।। तत्रासीत्तुमुलं युद्धं भीमसेनहिडिम्बयोः । सर्वास्त्रविदुषोर्घोरं वृत्रवासवयोरिव ।।९६।। हत्वा हिडिम्बं भीमोऽथ प्रस्थितो भ्रातृभिः सह । हिडिम्बामग्रतः कृत्वा यस्यां जातो घटोत्कचः ।।९७।। ततश्च प्राद्रवन्सर्वे सह मात्रा यशस्विनः । एकचक्रामभिमुखाः संवृता ब्राह्मणव्रजैः ।।९८।। प्रस्थाने व्यास एषां च मन्त्री प्रियहितोऽभवत् । ततोऽगच्छन्नेकचक्रां पाण्डवाः संशितव्रताः ।।९९।। तत्राप्यासादयामासुर्बकं नाम महाबलम् । पुरुषादं प्रतिभयं हिडिम्बेनैव संमितम् ।।१००।। तं चापि विनिहत्योग्रं भीमः प्रहरतां वरः । सहितो भ्रातृभिः सर्वैर्द्रुपदस्य पुरं ययौ ।।१०१।। लब्धाहमपि तत्रैव वसता सव्यसाचिना । यथा त्वया जिता कृष्ण रुक्मिणी भीष्मकात्मजा ।।१०२।। एवं सुयुद्धे पार्थेन जिताहं मधुसूदन । स्वयंवरे महत्कर्म कृत्वा नसुकरं परैः ।।१०३।। एवं क्लेशैः सुबहुभिः क्लिश्यमानाः सुदुःखिताः । निवसामार्यया हीनाः कृष्ण धौम्यपुरःसराः ।।१०४।। त इमे सिंहविक्रान्ता वीर्येणाभ्यधिकाः परैः । विहीनैः परिक्लिश्यन्तीं समुपेक्षन्त मां कथम् ।।१०५।। एतादृशानि दुःखानि सहन्ते दुर्बलीयसाम् । दीर्घकालं प्रदीप्तानि पापानां क्षुद्रकर्मणाम् ।।१०६।। कुले महति जातास्मि दिव्येन विधिना किल । पाण्डवानां प्रिया भार्या स्नुषा पाण्डोर्महात्मनः ।।१०७।। कचग्रहमनुप्राप्ता सास्मि कृष्ण वरा सती । पञ्चानामिन्द्रकल्पानां प्रेक्षतां मधुसूदन ।।१०८।। इत्युक्त्वा प्रारुदत्कृष्णा मुखं प्रच्छाद्य पाणिना । पद्मकोशप्रकाशेन मृदुना मृदुभाषिणी ।।१०९।। स्तनावपतितौ पीनौ सुजातौ शुभलक्षणौ । अभ्यवर्षत पाञ्चाली दुःखजैरश्रुबिन्दुभिः ।।११०।। चक्षुषी परिमार्जन्ती निःश्वसन्ती पुनः पुनः । बाष्पपूर्णेन कण्ठेन क्रुद्धा वचनमब्रवीत् ।।१११।। नैव मे पतयः सन्ति न पुत्रा मधुसूदन । न भ्रातरो न च पिता नैव त्वं न च बान्धवाः ।।११२।। ये मां विप्रकृतां क्षुद्रैरुपेक्षध्वं विशोकवत् । न हि मे शाम्यते दुःखं कर्णो यत्प्राहसत्तदा ।।११३।। अथैनामब्रवीत्कृष्णस्तस्मिन्वीरसमागमे । रोदिष्यन्ति स्त्रियो ह्येवं येषां क्रुद्धासि भामिनि ।।११४।। बीभत्सुशरसञ्छन्नाञ्शोणितौघपरिप्लुतान् । निहताञ्जीवितं त्यक्त्वा शयानान्वसुधातले ।।११५।। यत्समर्थं पाण्डवानां तत्करिष्यामि मा शुचः । सत्यं ते प्रतिजानामि राज्ञां राज्ञी भविष्यसि ।।११६।। पतेद्द्यौर्हिमवाञ्शीर्येत्पृथिवी शकलीभवेत् । शुष्येत्तोयनिधिः कृष्णे न मे मोघं वचो भवेत् ।।११७।। धृष्टद्युम्न उवाच।। अहं द्रोणं हनिष्यामि शिखण्डी तु पितामहम् । दुर्योधनं भीमसेनः कर्णं हन्ता धनञ्जयः ।।११८।। रामकृष्णौ व्यपाश्रित्य अजेयाः स्म शुचिस्मिते । अपि वृत्रहणा युद्धे किं पुनर्धृतराष्ट्रजैः ।।११९।। वैशम्पायन उवाच।। इत्युक्तेऽभिमुखा वीरा वासुदेवमुपस्थिता । तेषां मध्ये महाबाहुः केशवो वाक्यमब्रवीत् ।।१२०।। 3.12.136 वैशंपायन उवाच। भोजाः प्रव्रजिताञ्श्रुत्वा वृष्णयश्चान्धकैः सह। पाण्डवान्दुःखसंतप्तान्समाजग्मुर्महावने ।।
śrīkṛṣṇena svīyaiḥ saha vane pāṇḍavasamīpagamanam || 1 || arjunena kṛṣṇastavanam || 2 || svadukhanivedanapūrvakaṃ rudantyā draupadyāḥ kṛṣṇena samāśvāsanam || 3 || vaiśampāyana uvāca|| bhojāḥ pravrajitāñśrutvā vṛṣṇayaścāndhakaiḥ saha | pāṇḍavānduḥkhasantaptānsamājagmurmahāvane ||1|| pāñcālasya ca dāyādā dhṛṣṭaketuśca cedipaḥ | kekayāśca mahāvīryā bhrātaro lokaviśrutāḥ ||2|| vane te'bhiyayuḥ pārthānkrodhāmarśasamanvitāḥ | garhayanto dhārtarāṣṭrānkiṃ kurma iti cābruvan ||3|| vāsudevaṃ puraskṛtya sarve te kṣatriyarṣabhāḥ | parivāryopaviviśurdharmarājaṃ yudhiṣṭhiram ||4|| vāsudeva uvāca|| duryodhanasya karṇasya śakuneśca durātmanaḥ | duḥśāsanacaturthānāṃ bhūmiḥ pāsyati śoṇitam ||5|| tataḥ sarve'bhiṣiñcāmo dharmarājaṃ yudhiṣṭhiram | nikṛtyopacaranvadhya eṣa dharmaḥ sanātanaḥ ||6|| vaiśampāyana uvāca|| pārthānāmabhiṣaṅgeṇa tathā kruddhaṃ janārdanam | arjunaḥ śamayāmāsā didhakṣantamiva prajāḥ ||7|| saṅkruddhaṃ keśavaṃ dṛṣṭvā pūrvadeheṣu phalgunaḥ | kīrtayāmāsa karmāṇi satyakīrtermahātmanaḥ ||8|| puruṣasyāprameyasya satyasyāmitatejasaḥ | prajāpatipaterviṣṇorlokanāthasya dhīmataḥ ||9|| arjuna uvāca|| daśa varṣasahasrāṇi yatrasāyaṅgṛho muniḥ | vyacarastvaṃ purā kṛṣṇa parvate gandhamādane ||10|| daśa varṣasahasrāṇi daśa varṣaśatāni ca | puṣkareṣvavasaḥ kṛṣṇa tvamapo bhakṣayanpurā ||11|| ūrdhvabāhurviśālāyāṃ badaryāṃ madhusūdana | atiṣṭha ekapādena vāyubhakṣaḥ śataṃ samāḥ ||12|| apakṛṣṭottarāsaṅgaḥ kṛśo dhamanisantataḥ | āsīḥ kṛṣṇa sarasvatyāṃ satre dvādaśavārṣike ||13|| prabhāsaṃ cāpyathāsādya tīrthaṃ puṇyajanocitam | tathā kṛṣṇa mahātejā divyaṃ varṣasahasrakam ||14|| ātiṣṭhastapa ekena pādena niyame sthitaḥ ||14|| kṣetrajñaḥ sarvabhūtānāmādirantaśca keśava | nidhānaṃ tapasāṃ kṛṣṇa yajñastvaṃ ca sanātanaḥ ||15|| nihatya narakaṃ bhaumamāhṛtya maṇikuṇḍale | prathamotpāditaṃ kṛṣṇa medhyamaśvamavāsṛjaḥ ||16|| kṛtvā tatkarma lokānāmṛṣabhaḥ sarvalokajit | avadhīstvaṃ raṇe sarvānsametāndaityadānavān ||17|| tataḥ sarveśvaratvaṃ ca sampradāya śacīpateḥ | mānuṣeṣu mahābāho prādurbhūto'si keśava ||18|| sa tvaṃ nārāyaṇo bhūtvā harirāsīḥ parantapa | brahmā somaśca sūryaśca dharmo dhātā yamo'nalaḥ ||19|| vāyurvaiśravaṇo rudraḥ kālaḥ khaṃ pṛthivī diśaḥ | ajaścarācaraguruḥ sraṣṭā tvaṃ puruṣottama ||20|| turāyaṇādibhirdeva kratubhirbhūridakṣiṇaiḥ | ayajo bhūritejā vai kṛṣṇa caitrarathe vane ||21|| śataṃ śatasahasrāṇi suvarṇasya janārdana | ekaikasmiṃstadā yajñe paripūrṇāni bhāgaśaḥ ||22|| aditerapi putratvametya yādavanandana | tvaṃ viṣṇuriti vikhyāta indrādavarajo bhuvi ||23|| śiśurbhūtvā divaṃ khaṃ ca pṛthivīṃ ca parantapa | tribhirvikramaṇaiḥ kṛṣṇa krāntavānasi tejasā ||24|| samprāpya divamākāśamādityasadane sthitaḥ | atyarocaśca bhūtātmanbhāskaraṃ svena tejasā ||25|| sāditā mauravāḥ pāśā nisundanarakau hatau | kṛtaḥ kṣemaḥ punaḥ panthāḥ puraṃ prāgjyotiṣaṃ prati ||26|| jārūthyāmāhutiḥ krāthaḥ śiśupālo janaiḥ saha | bhīmasenaśca śaibyaśca śatadhanvā ca nirjitaḥ ||27|| tathā parjanyaghoṣeṇa rathenādityavarcasā | avākṣīrmahiṣīṃ bhojyāṃ raṇe nirjitya rukmiṇam ||28|| indradyumno hataḥ kopādyavanaśca kaśerumān | hataḥ saubhapatiḥ śālvastvayā saubhaṃ ca pātitam ||29|| irāvatyāṃ tathā bhojaḥ kārtavīryasamo yudhi | gopatistālaketuśca tvayā vinihatāvubhau ||30|| tāṃ ca bhogavatīṃ puṇyāmṛṣikāntāṃ janārdana | dvārakāmātmasātkṛtvā samudraṃ gamayiṣyasi ||31|| na krodho na ca mātsaryaṃ nānṛtaṃ madhusūdana | tvayi tiṣṭhati dāśārha na nṛśaṃsyaṃ kuto'nṛju ||32|| āsīnaṃ cittamadhye tvāṃ dīpyamānaṃ svatejasā | āgamya ṛṣayaḥ sarve'yācantābhayamacyuta ||33|| yugānte sarvabhūtāni saṅkṣipya madhusūdana | ātmanyevātmasātkṛtvā jagadāsse parantapa ||34|| naivaṃ pūrve nāpare vā kariṣyanti kṛtāni te | karmāṇi yāni deva tvaṃ bāla eva mahādyute ||35|| kṛtavānpuṇḍarīkākṣa baladevasahāyavān | vairājabhavane cāpi brahmaṇā nyavasaḥ saha ||36|| vaiśampāyana uvāca|| evamuktvā tadātmānamātmā kṛṣṇasya pāṇḍavaḥ | tūṣṇīmāsīttataḥ pārthamityuvāca janārdanaḥ ||37|| mamaiva tvaṃ tavaivāhaṃ ye madīyāstavaiva te | yastvāṃ dveṣṭi sa māṃ dveṣṭi yastvāmanu sa māmanu ||38|| narastvamasi durdharṣa harirnārāyaṇo hyaham | lokāllokamimaṃ prāptau naranārāyaṇāvṛṣī ||39|| ananyaḥ pārtha mattastvamahaṃ tvattaśca bhārata | nāvayorantaraṃ śakyaṃ vedituṃ bharatarṣabha ||40|| tasminvīrasamāvāye saṃrabdheṣvatha rājasu | dhṛṣṭadyumnamukhairvīrairbhrātṛbhiḥ parivāritā ||41|| pāñcālī puṇḍarīkākṣamāsīnaṃ yādavaiḥ saha | abhigamyābravītkṛṣṇā śaraṇyaṃ śaraṇaiṣiṇī ||42|| pūrve prajānisarge tvāmāhurekaṃ prajāpatim | sraṣṭāraṃ sarvabhūtānāmasito devalo'bravīt ||43|| viṣṇustvamasi durdharṣa tvaṃ yajño madhusūdana | yaṣṭā tvamasi yaṣṭavyo jāmadagnyo yathābravīt ||44|| ṛṣayastvāṃ kṣamāmāhuḥ satyaṃ ca puruṣottama | satyādyajño'si sambhūtaḥ kaśyapastvāṃ yathābravīt ||45|| sādhyānāmapi devānāṃ vasūnāmīśvareśvaraḥ | lokabhāvana lokeśa yathā tvāṃ nārado'bravīt ||46|| divaṃ te śirasā vyāptaṃ padbhyāṃ ca pṛthivī vibho | jaṭharaṃ te ime lokāḥ puruṣo'si sanātanaḥ ||47|| vidyātapo'bhitaptānāṃ tapasā bhāvitātmanām | ātmadarśanasiddhānāmṛṣīṇāmṛṣisattama ||48|| rājarṣīṇāṃ puṇyakṛtāmāhaveṣvanivartinām | sarvadharmopapannānāṃ tvaṃ gatiḥ puruṣottama ||49|| tvaṃ prabhustvaṃ vibhustvaṃ bhūrātmabhūstvaṃ sanātanaḥ | lokapālāśca lokāśca nakṣatrāṇi diśo daśa ||50|| nabhaścandraśca sūryaśca tvayi sarvaṃ pratiṣṭhitam ||50|| martyatā caiva bhūtānāmamaratvaṃ divaukasām | tvayi sarvaṃ mahābāho lokakāryaṃ pratiṣṭhitam ||51|| sā te'haṃ duḥkhamākhyāsye praṇayānmadhusūdana | īśastvaṃ sarvabhūtānāṃ ye divyā ye ca mānuṣāḥ ||52|| kathaṃ nu bhāryā pārthānāṃ tava kṛṣṇa sakhī vibho | dhṛṣṭadyumnasya bhaginī sabhāṃ kṛṣyeta mādṛśī ||53|| strīdharmiṇī vepamānā rudhireṇa samukṣitā | ekavastrā vikṛṣṭāsmi duḥkhitā kurusaṃsadi ||54|| rājamadhye sabhāyāṃ tu rajasābhisamīritām | dṛṣṭvā ca māṃ dhārtarāṣṭrāḥ prāhasanpāpacetasaḥ ||55|| dāsībhāvena bhoktuṃ māmīṣuste madhusūdana | jīvatsu pāṇḍuputreṣu pāñcāleṣvatha vṛṣṇiṣu ||56|| nanvahaṃ kṛṣṇa bhīṣmasya dhṛtarāṣṭrasya cobhayoḥ | snuṣā bhavāmi dharmeṇa sāhaṃ dāsīkṛtā balāt ||57|| garhaye pāṇḍavāṃstveva yudhi śreṣṭhānmahābalān | ye kliśyamānāṃ prekṣante dharmapatnīṃ yaśasvinīm ||58|| dhigbalaṃ bhīmasenasya dhikpārthasya dhanuṣmatām | yau māṃ viprakṛtāṃ kṣudrairmarṣayetāṃ janārdana ||59|| śāśvato'yaṃ dharmapathaḥ sadbhirācaritaḥ sadā | yadbhāryāṃ parirakṣanti bhartāro'lpabalā api ||60|| bhāryāyāṃ rakṣyamāṇāyāṃ prajā bhavati rakṣitā | prajāyāṃ rakṣyamāṇāyāmātmā bhavati rakṣitaḥ ||61|| ātmā hi jāyate tasyāṃ tasmājjāyā bhavatyuta | bhartā ca bhāryayā rakṣyaḥ kathaṃ jāyānmamodare ||62|| nanvime śaraṇaṃ prāptānna tyajanti kadācana | te māṃ śaraṇamāpannāṃ nānvapadyanta pāṇḍavāḥ ||63|| pañceme pañcabhirjātāḥ kumārāścāmitaujasaḥ | eteṣāmapyavekṣārthaṃ trātavyāsmi janārdana ||64|| prativindhyo yudhiṣṭhirātsutasomo vṛkodarāt | arjunācchrutakīrtistu śatānīkastu nākuliḥ ||65|| kaniṣṭhācchrutakarmā tu sarve satyaparākramāḥ | pradyumno yādṛśaḥ kṛṣṇa tādṛśāste mahārathāḥ ||66|| nanvime dhanuṣi śreṣṭhā ajeyā yudhi śātravaiḥ | kimarthaṃ dhārtarāṣṭrāṇāṃ sahante durbalīyasām ||67|| adharmeṇa hṛtaṃ rājyaṃ sarve dāsāḥ kṛtāstathā | sabhāyāṃ parikṛṣṭāhamekavastrā rajasvalā ||68|| nādhijyamapi yacchakyaṃ kartumanyena gāṇḍivam | anyatrārjunabhīmābhyāṃ tvayā vā madhusūdana ||69|| dhigbhīmasenasya balaṃ dhikpārthasya ca gāṇḍivam | yatra duryodhanaḥ kṛṣṇa muhūrtamapi jīvati ||70|| ya etānākṣipadrāṣṭrātsaha mātrāvihiṃsakān | adhīyānānpurā bālānvratasthānmadhusūdana ||71|| bhojane bhīmasenasya pāpaḥ prākṣepayadviṣam | kālakūṭaṃ navaṃ tīkṣṇaṃ sambhṛtaṃ lomaharṣaṇam ||72|| tajjīrṇamavikāreṇa sahānnena janārdana | saśeṣatvānmahābāho bhīmasya puruṣottama ||73|| pramāṇakoṭyāṃ viśvastaṃ tathā suptaṃ vṛkodaram | baddhvainaṃ kṛṣṇa gaṅgāyāṃ prakṣipya punarāvrajat ||74|| yadā vibuddhaḥ kaunteyastadā sañchidya bandhanam | udatiṣṭhanmahābāhurbhīmaseno mahābalaḥ ||75|| āśīviṣaiḥ kṛṣṇasarpaiḥ suptaṃ cainamadaṃśayat | sarveṣvevāṅgadeśeṣu na mamāra ca śatruhā ||76|| pratibuddhastu kaunteyaḥ sarvānsarpānapothayat | sārathiṃ cāsya dayitamapahastena jaghnivān ||77|| punaḥ suptānupādhākṣīdbālakānvāraṇāvate | śayānānāryayā sārdhaṃ ko nu tatkartumarhati ||78|| yatrāryā rudatī bhītā pāṇḍavānidamabravīt | mahadvyasanamāpannā śikhinā parivāritā ||79|| hā hatāsmi kuto nvadya bhavecchāntirihānalāt | anāthā vinaśiṣyāmi bālakaiḥ putrakaiḥ saha ||80|| tatra bhīmo mahābāhurvāyuvegaparākramaḥ | āryāmāśvāsayāmāsa bhrātṝṃścāpi vṛkodaraḥ ||81|| vainateyo yathā pakṣī garuḍaḥ patatāṃ varaḥ | tathaivābhipatiṣyāmi bhayaṃ vo neha vidyate ||82|| āryāmaṅkena vāmena rājānaṃ dakṣiṇena ca | aṃsayośca yamau kṛtvā pṛṣṭhe bībhatsumeva ca ||83|| sahasotpatya vegena sarvānādāya vīryavān | bhrātṝnāryāṃ ca balavānmokṣayāmāsa pāvakāt ||84|| te rātrau prasthitāḥ sarve mātrā saha yaśasvinaḥ | abhyagacchanmahāraṇyaṃ hiḍimbavanamantikāt ||85|| śrāntāḥ prasuptāstatreme mātrā saha suduḥkhitāḥ | suptāṃścainānabhyagacchaddhiḍimbā nāma rākṣasī ||86|| bhīmasya pādau kṛtvā tu sva utsaṅge tato balāt | paryamardata saṃhṛṣṭā kalyāṇī mṛdupāṇinā ||87|| tāmabudhyadameyātmā balavānsatyavikramaḥ | paryapṛcchacca tāṃ bhīmaḥ kimihecchasyanindite ||88|| tayoḥ śrutvā tu kathitamāgacchadrākṣasādhamaḥ | bhīmarūpo mahānādānvisṛjanbhīmadarśanaḥ ||89|| kena sārdhaṃ kathayasi ānayainaṃ mamāntikam | hiḍimbe bhakṣayiṣyāvo na ciraṃ kartumarhasi ||90|| sā kṛpāsaṅgṛhītena hṛdayena manasvinī | nainamaicchattadākhyātumanukrośādaninditā ||91|| sa nādānvinadanghorānrākṣasaḥ puruṣādakaḥ | abhyadravata vegena bhīmasenaṃ tadā kila ||92|| tamabhidrutya saṅkruddho vegena mahatā balī | agṛhṇātpāṇinā pāṇiṃ bhīmasenasya rākṣasaḥ ||93|| indrāśanisamasparśaṃ vajrasaṃhananaṃ dṛḍham | saṃhatya bhīmasenāya vyākṣipatsahasā karam ||94|| gṛhītaṃ pāṇinā pāṇiṃ bhīmaseno'tha rakṣasā | nāmṛṣyata mahābāhustatrākrudhyadvṛkodaraḥ ||95|| tatrāsīttumulaṃ yuddhaṃ bhīmasenahiḍimbayoḥ | sarvāstraviduṣorghoraṃ vṛtravāsavayoriva ||96|| hatvā hiḍimbaṃ bhīmo'tha prasthito bhrātṛbhiḥ saha | hiḍimbāmagrataḥ kṛtvā yasyāṃ jāto ghaṭotkacaḥ ||97|| tataśca prādravansarve saha mātrā yaśasvinaḥ | ekacakrāmabhimukhāḥ saṃvṛtā brāhmaṇavrajaiḥ ||98|| prasthāne vyāsa eṣāṃ ca mantrī priyahito'bhavat | tato'gacchannekacakrāṃ pāṇḍavāḥ saṃśitavratāḥ ||99|| tatrāpyāsādayāmāsurbakaṃ nāma mahābalam | puruṣādaṃ pratibhayaṃ hiḍimbenaiva saṃmitam ||100|| taṃ cāpi vinihatyograṃ bhīmaḥ praharatāṃ varaḥ | sahito bhrātṛbhiḥ sarvairdrupadasya puraṃ yayau ||101|| labdhāhamapi tatraiva vasatā savyasācinā | yathā tvayā jitā kṛṣṇa rukmiṇī bhīṣmakātmajā ||102|| evaṃ suyuddhe pārthena jitāhaṃ madhusūdana | svayaṃvare mahatkarma kṛtvā nasukaraṃ paraiḥ ||103|| evaṃ kleśaiḥ subahubhiḥ kliśyamānāḥ suduḥkhitāḥ | nivasāmāryayā hīnāḥ kṛṣṇa dhaumyapuraḥsarāḥ ||104|| ta ime siṃhavikrāntā vīryeṇābhyadhikāḥ paraiḥ | vihīnaiḥ parikliśyantīṃ samupekṣanta māṃ katham ||105|| etādṛśāni duḥkhāni sahante durbalīyasām | dīrghakālaṃ pradīptāni pāpānāṃ kṣudrakarmaṇām ||106|| kule mahati jātāsmi divyena vidhinā kila | pāṇḍavānāṃ priyā bhāryā snuṣā pāṇḍormahātmanaḥ ||107|| kacagrahamanuprāptā sāsmi kṛṣṇa varā satī | pañcānāmindrakalpānāṃ prekṣatāṃ madhusūdana ||108|| ityuktvā prārudatkṛṣṇā mukhaṃ pracchādya pāṇinā | padmakośaprakāśena mṛdunā mṛdubhāṣiṇī ||109|| stanāvapatitau pīnau sujātau śubhalakṣaṇau | abhyavarṣata pāñcālī duḥkhajairaśrubindubhiḥ ||110|| cakṣuṣī parimārjantī niḥśvasantī punaḥ punaḥ | bāṣpapūrṇena kaṇṭhena kruddhā vacanamabravīt ||111|| naiva me patayaḥ santi na putrā madhusūdana | na bhrātaro na ca pitā naiva tvaṃ na ca bāndhavāḥ ||112|| ye māṃ viprakṛtāṃ kṣudrairupekṣadhvaṃ viśokavat | na hi me śāmyate duḥkhaṃ karṇo yatprāhasattadā ||113|| athaināmabravītkṛṣṇastasminvīrasamāgame | rodiṣyanti striyo hyevaṃ yeṣāṃ kruddhāsi bhāmini ||114|| bībhatsuśarasañchannāñśoṇitaughapariplutān | nihatāñjīvitaṃ tyaktvā śayānānvasudhātale ||115|| yatsamarthaṃ pāṇḍavānāṃ tatkariṣyāmi mā śucaḥ | satyaṃ te pratijānāmi rājñāṃ rājñī bhaviṣyasi ||116|| pateddyaurhimavāñśīryetpṛthivī śakalībhavet | śuṣyettoyanidhiḥ kṛṣṇe na me moghaṃ vaco bhavet ||117|| dhṛṣṭadyumna uvāca|| ahaṃ droṇaṃ haniṣyāmi śikhaṇḍī tu pitāmaham | duryodhanaṃ bhīmasenaḥ karṇaṃ hantā dhanañjayaḥ ||118|| rāmakṛṣṇau vyapāśritya ajeyāḥ sma śucismite | api vṛtrahaṇā yuddhe kiṃ punardhṛtarāṣṭrajaiḥ ||119|| vaiśampāyana uvāca|| ityukte'bhimukhā vīrā vāsudevamupasthitā | teṣāṃ madhye mahābāhuḥ keśavo vākyamabravīt ||120|| 3.12.136 vaiśaṃpāyana uvāca| bhojāḥ pravrajitāñśrutvā vṛṣṇayaścāndhakaiḥ saha| pāṇḍavānduḥkhasaṃtaptānsamājagmurmahāvane ||
Verse 2
पाञ्चालस्य च दायादो धृष्टकेतुश्च चेदिपः। केकयाश्च महावीर्या भ्रातरो लोकविश्रुताः ।।
pāñcālasya ca dāyādo dhṛṣṭaketuśca cedipaḥ| kekayāśca mahāvīryā bhrātaro lokaviśrutāḥ ||
Verse 3
वने द्रष्टुं ययुः पार्थान्क्रोधामर्षसमन्विताः। गर्हयन्तो धार्तराष्ट्रान्किं कुर्म इति चाब्रुवन् ।।
vane draṣṭuṃ yayuḥ pārthānkrodhāmarṣasamanvitāḥ| garhayanto dhārtarāṣṭrānkiṃ kurma iti cābruvan ||
Verse 4
वासुदेवं पुरस्कृत्य सर्वे ते क्षत्रियर्षभाः। परिवार्योपविविशुर्धर्मराजं युधिष्ठिरम्। अभिवाद्य कुरुश्रेष्ठं विषण्णः केशवोऽब्रवीत् ।।
vāsudevaṃ puraskṛtya sarve te kṣatriyarṣabhāḥ| parivāryopaviviśurdharmarājaṃ yudhiṣṭhiram| abhivādya kuruśreṣṭhaṃ viṣaṇṇaḥ keśavo'bravīt ||
Verse 5
वासुदेव उवाच। दुर्योधनस्य कर्णस् शकुनेश्च दुरात्मनः। दुःशासनचतुर्थानां भूमिः पास्यति शोणितम् ।।
vāsudeva uvāca| duryodhanasya karṇas śakuneśca durātmanaḥ| duḥśāsanacaturthānāṃ bhūmiḥ pāsyati śoṇitam ||
Verse 6
एतान्निहत्य समरे ये च तेषां पदानुगाः। तांश्च सर्वान्विनिर्जित्य सहितान्स नराधिपान् ।।
etānnihatya samare ye ca teṣāṃ padānugāḥ| tāṃśca sarvānvinirjitya sahitānsa narādhipān ||
Verse 7
ततः सर्वेऽभिषिञ्चामो धर्मराजं युधिष्ठिरम्। निकृत्याऽभिचरन्वध्य एष धर्मः सनातनः ।। ।। इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि द्वादशोऽध्यायः ।। 12 ।।
tataḥ sarve'bhiṣiñcāmo dharmarājaṃ yudhiṣṭhiram| nikṛtyā'bhicaranvadhya eṣa dharmaḥ sanātanaḥ || || iti śrīmanmahābhārate araṇyaparvaṇi arjunābhigamanaparvaṇi dvādaśo'dhyāyaḥ || 12 ||
Verse 8
वैशंपायन उवाच। पार्तानामभिषङ्गेण तथा क्रुद्धं जनार्दनम्। अर्जुनः शमयामास दिधक्षन्तमिव प्रजाः ।। निकृत्या छलेन ।।
vaiśaṃpāyana uvāca| pārtānāmabhiṣaṅgeṇa tathā kruddhaṃ janārdanam| arjunaḥ śamayāmāsa didhakṣantamiva prajāḥ || nikṛtyā chalena ||
Verse 9
संक्रुद्धं केशवं दृष्ट्वा पूर्वदेवेषु फल्गुनः। कीर्तयामास कर्माणि सत्यकीर्तेर्महात्मनः ।।
saṃkruddhaṃ keśavaṃ dṛṣṭvā pūrvadeveṣu phalgunaḥ| kīrtayāmāsa karmāṇi satyakīrtermahātmanaḥ ||
Verse 10
पुरुषस्याप्रमेयस्य सत्यस्यामिततेजसः। प्रजापतिपतेर्विष्णोर्लोकनाथस्य धीमतः ।।
puruṣasyāprameyasya satyasyāmitatejasaḥ| prajāpatipaterviṣṇorlokanāthasya dhīmataḥ ||
Verse 11
अर्जुन उवाच। दशवर्षसहस्राणि यत्रसायंगृहो मुनिः। व्यचरस्त्वं पुरा कृष्ण पर्वते गन्धमादने ।। अभिषङ्गेण दुःखेन पराभवेन वा ।।
arjuna uvāca| daśavarṣasahasrāṇi yatrasāyaṃgṛho muniḥ| vyacarastvaṃ purā kṛṣṇa parvate gandhamādane || abhiṣaṅgeṇa duḥkhena parābhavena vā ||
Verse 12
दशवर्षसहस्राणि दशवर्षशतानि च। पुष्करेष्ववसः कृष्णं त्वमपो भक्षयन्पुरा ।।
daśavarṣasahasrāṇi daśavarṣaśatāni ca| puṣkareṣvavasaḥ kṛṣṇaṃ tvamapo bhakṣayanpurā ||
Verse 13
ऊर्ध्वबाहुर्विशालायां बदर्यां मधुसूदन। अतिष्ठ एकपादेन वायुभक्षः शतं समाः ।।
ūrdhvabāhurviśālāyāṃ badaryāṃ madhusūdana| atiṣṭha ekapādena vāyubhakṣaḥ śataṃ samāḥ ||
Verse 14
कृष्णाजिनोत्तरासङ्गः कृशो धमनिसंततः। आसीः कृष्ण सरस्वत्यां सत्रेद्वादशवार्षिके ।। यत्र सायंकालस्तत्रैव गृहं यस्य स यत्रसायंगृहः ।।
kṛṣṇājinottarāsaṅgaḥ kṛśo dhamanisaṃtataḥ| āsīḥ kṛṣṇa sarasvatyāṃ satredvādaśavārṣike || yatra sāyaṃkālastatraiva gṛhaṃ yasya sa yatrasāyaṃgṛhaḥ ||
Verse 15
प्रभासमप्यथासाद्य तीर्थं पुण्यजनार्चितम्। तत्र कृष्ण महातेजा दिव्यं वर्षसहस्रकम् ।।
prabhāsamapyathāsādya tīrthaṃ puṇyajanārcitam| tatra kṛṣṇa mahātejā divyaṃ varṣasahasrakam ||
Verse 16
आतिष्ठस्त्वमथैकेन पादेन नियमस्थितः। लोकप्रवृत्तिहेतोस्त्वमिति व्यासो ममाब्रवीत् ।।
ātiṣṭhastvamathaikena pādena niyamasthitaḥ| lokapravṛttihetostvamiti vyāso mamābravīt ||
Verse 17
क्षेत्रज्ञः सर्वभूतानामादिरन्तश्च केशवं। निधानं तपसां कृष्ण यज्ञस्त्वं च सनातनः ।। उत्तरासङ्ग उत्तरीयवस्त्रम् ।।
kṣetrajñaḥ sarvabhūtānāmādirantaśca keśavaṃ| nidhānaṃ tapasāṃ kṛṣṇa yajñastvaṃ ca sanātanaḥ || uttarāsaṅga uttarīyavastram ||
Verse 18
योगकर्ता हृषीकेशः सांख्यकर्ता सनातनः। शीलस्त्वं सर्वयोगानां करणं नियमस्य च ।।
yogakartā hṛṣīkeśaḥ sāṃkhyakartā sanātanaḥ| śīlastvaṃ sarvayogānāṃ karaṇaṃ niyamasya ca ||
Verse 19
निहत्य नरकं भौममाहृत्य मणिकुण्डले। प्रथमोत्पादितं कृष्ण मेध्यमश्वमवासृजः ।। क्षेत्रज्ञः अन्तरात्मेत्य्रथः ।।
nihatya narakaṃ bhaumamāhṛtya maṇikuṇḍale| prathamotpāditaṃ kṛṣṇa medhyamaśvamavāsṛjaḥ || kṣetrajñaḥ antarātmetyrathaḥ ||
Verse 20
कृत्वातत्कर्म लोकानामृषभः सर्वलोकजित्। अवधीस्त्वं रणे सर्वान्समेतान्दैत्यदानवान् ।। भौमं भूमिपुत्रम्। मेध्यं यज्ञियम् ।।
kṛtvātatkarma lokānāmṛṣabhaḥ sarvalokajit| avadhīstvaṃ raṇe sarvānsametāndaityadānavān || bhaumaṃ bhūmiputram| medhyaṃ yajñiyam ||
Verse 21
ततः सर्वेश्वरत्वं च संप्रदाय शचीपतेः। मानुषेषु महाबाहो प्रादुर्भूतोऽसि केशव ।।
tataḥ sarveśvaratvaṃ ca saṃpradāya śacīpateḥ| mānuṣeṣu mahābāho prādurbhūto'si keśava ||
Verse 22
स त्वं नारायणो भूत्वा हरिरासीः परंतप। ब्रह्मा सोमश्च सूर्यश्च धर्मो धाता यमोऽनलः ।।
sa tvaṃ nārāyaṇo bhūtvā harirāsīḥ paraṃtapa| brahmā somaśca sūryaśca dharmo dhātā yamo'nalaḥ ||
Verse 23
वायुर्वैश्रवणो रुद्रः कालः खं पृथिवी दिशः। अजश्चराचरगुरुः स्रष्टा त्वं पुरुषोत्तम ।।
vāyurvaiśravaṇo rudraḥ kālaḥ khaṃ pṛthivī diśaḥ| ajaścarācaraguruḥ sraṣṭā tvaṃ puruṣottama ||
Verse 24
तुरायणादिभिर्देव क्रतुभिर्भूरदक्षिणैः। अयजो भूरितेजा वै कृष्ण चैत्ररथे वने ।।
turāyaṇādibhirdeva kratubhirbhūradakṣiṇaiḥ| ayajo bhūritejā vai kṛṣṇa caitrarathe vane ||
Verse 25
शतं शतसहस्राणि सुवर्णस्य जनार्दन। एकैकस्मिंस्तदा यज्ञे परिपूर्णानि दत्तवान् ।।
śataṃ śatasahasrāṇi suvarṇasya janārdana| ekaikasmiṃstadā yajñe paripūrṇāni dattavān ||
Verse 26
अदितेरपि पुत्रत्वमेत्य यादवनन्दन। त्वं विष्णुरिति विख्यात इन्द्रादवरजो विभुः ।।
aditerapi putratvametya yādavanandana| tvaṃ viṣṇuriti vikhyāta indrādavarajo vibhuḥ ||
Verse 27
शिशुर्भूत्वा दिवं खं च पृथिवीं च परंतप। त्रिभिर्विक्रमणैः कृष्ण क्रान्तवानसि तेजसा ।
śiśurbhūtvā divaṃ khaṃ ca pṛthivīṃ ca paraṃtapa| tribhirvikramaṇaiḥ kṛṣṇa krāntavānasi tejasā |
Verse 28
संप्राप्य दिवमाकाशमादित्यस्यन्दने स्थितः। अत्यरोचश्च भूतात्मन्भास्करं स्वेन तेजसा ।। तत्कर्म अश्वोत्सर्गाख्यम् ।।
saṃprāpya divamākāśamādityasyandane sthitaḥ| atyarocaśca bhūtātmanbhāskaraṃ svena tejasā || tatkarma aśvotsargākhyam ||
Verse 29
प्रादुर्भावसहस्रेषु तेषुतेषु त्वया विभो। अधर्मरुचयः कृष्ण निहताः शतशोऽसुराः ।।
prādurbhāvasahasreṣu teṣuteṣu tvayā vibho| adharmarucayaḥ kṛṣṇa nihatāḥ śataśo'surāḥ ||
Verse 30
सादिता मौखाः पाशा निशुम्भनरकौ हतौ। कृतः क्षेमः पुनः पन्थाः पुरं प्राग्ज्योतिषं प्रति ।। संप्राप्य सम्यक्व्याप्य। आदित्यस्यन्दने सूर्यदेहे भास्करमण्डलाभिमानिनं जीवम् ।।
sāditā maukhāḥ pāśā niśumbhanarakau hatau| kṛtaḥ kṣemaḥ punaḥ panthāḥ puraṃ prāgjyotiṣaṃ prati || saṃprāpya samyakvyāpya| ādityasyandane sūryadehe bhāskaramaṇḍalābhimāninaṃ jīvam ||
Verse 31
जारूथ्यामाहुतिः क्राथः शिशुपालो नृपैः सह। जरासन्धश्च शैब्यश्च शतधन्वा च निर्जितः ।। सादिताः छिन्नाः मौरवाः आन्त्रतन्तिमयाः। मुर वेष्टने अस्मादौणादिके उक्रप्रत्यये तद्धितः ।।
jārūthyāmāhutiḥ krāthaḥ śiśupālo nṛpaiḥ saha| jarāsandhaśca śaibyaśca śatadhanvā ca nirjitaḥ || sāditāḥ chinnāḥ mauravāḥ āntratantimayāḥ| mura veṣṭane asmādauṇādike ukrapratyaye taddhitaḥ ||
Verse 32
तथा पर्जन्यघोषेण रथेनादित्यवर्चसा। अहार्षी रुक्मिणीं भैष्मीं रणे निर्जित्य रुक्मिणे ।। जारूथ्यां नगर्याम् ।।
tathā parjanyaghoṣeṇa rathenādityavarcasā| ahārṣī rukmiṇīṃ bhaiṣmīṃ raṇe nirjitya rukmiṇe || jārūthyāṃ nagaryām ||
Verse 33
इन्द्रद्युम्नो हतः कोपाद्यवनश्च कशेरुमान्। हतः सौभपतिः साल्वस्त्वया सौभं च पातितम्
indradyumno hataḥ kopādyavanaśca kaśerumān| hataḥ saubhapatiḥ sālvastvayā saubhaṃ ca pātitam
Verse 34
एवमेते युधि हता भूयश्चान्याञ्शृमुष्व ह। इरावत्यां हतो भोजः कार्तवीर्यसमो युधि। गोपतिस्तालकेतुश्च त्वया विनिहतावुभौ ।।
evamete yudhi hatā bhūyaścānyāñśṛmuṣva ha| irāvatyāṃ hato bhojaḥ kārtavīryasamo yudhi| gopatistālaketuśca tvayā vinihatāvubhau ||
Verse 35
तां च भोगवतीं पुण्यामृषिकान्तां जनार्दन। द्वारकामात्मसात्कृत्वा समुद्रं गमयिष्यसि ।।
tāṃ ca bhogavatīṃ puṇyāmṛṣikāntāṃ janārdana| dvārakāmātmasātkṛtvā samudraṃ gamayiṣyasi ||
Verse 36
न क्रोधो न च मात्सर्यं नानृतं मधुसूदन। त्वयि तिष्ठति दाशार्ह न नृशंस्यं कुतोऽनृजु ।। सौभं खेचरं पुरम् ।।
na krodho na ca mātsaryaṃ nānṛtaṃ madhusūdana| tvayi tiṣṭhati dāśārha na nṛśaṃsyaṃ kuto'nṛju || saubhaṃ khecaraṃ puram ||
Verse 37
आसीनं चैत्यमध्ये त्वां दीप्यमानं स्वतेजसा। आगम्य ऋषयः सर्वेऽयाचन्ताभयमच्युत ।। नृशंस्यं निर्दयत्वम् ।।
āsīnaṃ caityamadhye tvāṃ dīpyamānaṃ svatejasā| āgamya ṛṣayaḥ sarve'yācantābhayamacyuta || nṛśaṃsyaṃ nirdayatvam ||
Verse 38
युगान्ते सर्वभूतानि संक्षिप्य मधुसूदन। आत्मनैवात्मसात्कृत्वा जगदासीः परंतप ।। चैत्यं आयतनं आध्यात्मिकं हृदयपुण्डरीकं। बाह्यं देवालयादि ।।
yugānte sarvabhūtāni saṃkṣipya madhusūdana| ātmanaivātmasātkṛtvā jagadāsīḥ paraṃtapa || caityaṃ āyatanaṃ ādhyātmikaṃ hṛdayapuṇḍarīkaṃ| bāhyaṃ devālayādi ||
Verse 39
युगादौ तव वार्ष्णेय नाभिपद्मादजायत। ब्रह्मा चराचरगुरुर्यस्येदं सकलं जगत्। तं हन्तुमुद्यतौ घोरौ दानवौ मधुकैटभौ ।।
yugādau tava vārṣṇeya nābhipadmādajāyata| brahmā carācaragururyasyedaṃ sakalaṃ jagat| taṃ hantumudyatau ghorau dānavau madhukaiṭabhau ||
Verse 40
तयोर्व्यतिक्रमं दृष्ट्वा क्रुद्धस्य भवतो हरेः। ललाटाज्जातवाञ्शंभुः शूलपाणिस्त्रिलोचनः ।।
tayorvyatikramaṃ dṛṣṭvā kruddhasya bhavato hareḥ| lalāṭājjātavāñśaṃbhuḥ śūlapāṇistrilocanaḥ ||
Verse 41
इत्थं तावपि देवेशौ त्वच्छरीरसमुद्भवौ। त्वन्नियोगकरावेताविति मे नारदोऽब्रवीत् ।।
itthaṃ tāvapi deveśau tvaccharīrasamudbhavau| tvanniyogakarāvetāviti me nārado'bravīt ||
Verse 42
तथा नारायण पुरा क्रतुभिर्भूरिदक्षिणैः। इष्टवांस्त्वं महासत्रं कृष्ण चैत्ररथे वने ।।
tathā nārāyaṇa purā kratubhirbhūridakṣiṇaiḥ| iṣṭavāṃstvaṃ mahāsatraṃ kṛṣṇa caitrarathe vane ||
Verse 43
नैवं परे नापरे वा करिष्यन्ति कृतानि वा। यानि कर्माणि देव त्वं बाल एव महाबलः ।।
naivaṃ pare nāpare vā kariṣyanti kṛtāni vā| yāni karmāṇi deva tvaṃ bāla eva mahābalaḥ ||
Verse 44
कृतवान्पुण्डरीकाक्ष बलदेवसहायवान्। वैराजभवने चापि ब्रह्मणा न्यवसः सह ।।
kṛtavānpuṇḍarīkākṣa baladevasahāyavān| vairājabhavane cāpi brahmaṇā nyavasaḥ saha ||
Verse 45
वैशंपायन उवाच। एवमुक्त्वा महात्मानमात्मा कृष्णस्य पाण्डवः। तूष्णीमासीत्ततः पार्थमित्युवाच जनार्दनः ।।
vaiśaṃpāyana uvāca| evamuktvā mahātmānamātmā kṛṣṇasya pāṇḍavaḥ| tūṣṇīmāsīttataḥ pārthamityuvāca janārdanaḥ ||
Verse 46
ममैव त्वं तवैवाहं ये मदीयास्तवैव ते। यस्त्वां द्वेष्टि स मां द्वेष्टि यस्त्वामनु स मामनु ।।
mamaiva tvaṃ tavaivāhaṃ ye madīyāstavaiva te| yastvāṃ dveṣṭi sa māṃ dveṣṭi yastvāmanu sa māmanu ||
Verse 47
नरस्त्वमसि दुर्धर्ष हरिर्नारायणो ह्यहम्। काले लोकमिमं प्राप्तौ नरनारायणावृषी ।।
narastvamasi durdharṣa harirnārāyaṇo hyaham| kāle lokamimaṃ prāptau naranārāyaṇāvṛṣī ||
Verse 48
अनन्यः पार्थ मत्तस्त्वं त्वत्तश्चाहं तथैव च। नावयोरन्तरं शक्यं वेदितुं भरतर्षभ ।।
ananyaḥ pārtha mattastvaṃ tvattaścāhaṃ tathaiva ca| nāvayorantaraṃ śakyaṃ vedituṃ bharatarṣabha ||
Verse 49
वैशंपायन उवाच। इत्युक्त्वा पुण्डरीकाक्षः पाण्डवं सुप्रियं वचः। प्रीयमाणो हृषीकेशस्तूष्णीं तत्र बभूव सः ।।
vaiśaṃpāyana uvāca| ityuktvā puṇḍarīkākṣaḥ pāṇḍavaṃ supriyaṃ vacaḥ| prīyamāṇo hṛṣīkeśastūṣṇīṃ tatra babhūva saḥ ||
Verse 50
एवमुक्ते तु वचने केशेवेन महात्मना। तस्मिन्वीरसमावाये संरब्धेष्वथ राजसु ।। आत्मनैव निमित्तान्तरं विना ।।
evamukte tu vacane keśevena mahātmanā| tasminvīrasamāvāye saṃrabdheṣvatha rājasu || ātmanaiva nimittāntaraṃ vinā ||
Verse 51
धृष्टद्युम्नमुखैर्वीरैर्भ्रातृभिः परिवारिता। पाञ्चाली पुण्डरीकाक्षमासीनं यादवैः सह। अभिगम्याब्रवीत्कृष्णा शरण्यं शरणैषिणी ।।
dhṛṣṭadyumnamukhairvīrairbhrātṛbhiḥ parivāritā| pāñcālī puṇḍarīkākṣamāsīnaṃ yādavaiḥ saha| abhigamyābravītkṛṣṇā śaraṇyaṃ śaraṇaiṣiṇī ||
Verse 52
द्रौपद्युवाच। वासुदेव हृषीकेश वासवावरजाच्युत। देवदेवोसि देवानामिति द्वैपायनोऽब्रवीत् ।।
draupadyuvāca| vāsudeva hṛṣīkeśa vāsavāvarajācyuta| devadevosi devānāmiti dvaipāyano'bravīt ||
Verse 53
पूर्वे प्रजाभिसर्गे त्वामाहुरेकं प्रजापतिम्। स्रष्टारं सर्वलोकानामसितो देवलोऽब्रवीत् ।।
pūrve prajābhisarge tvāmāhurekaṃ prajāpatim| sraṣṭāraṃ sarvalokānāmasito devalo'bravīt ||
Verse 54
विष्णुस्त्वमसि दुर्धर्ष त्वं यज्ञो मधुसूदन। यष्टात्वमसि त्वमसि यष्टव्यो जामदग्न्यो यथाऽब्रवीत् ।।
viṣṇustvamasi durdharṣa tvaṃ yajño madhusūdana| yaṣṭātvamasi tvamasi yaṣṭavyo jāmadagnyo yathā'bravīt ||
Verse 55
ऋषयस्त्वां क्षमामाहुः सत्यं च परुषोत्तम। सत्याद्यज्ञोसि संभूतः कश्यपस्त्वां यथाऽब्रवीत् ।।
ṛṣayastvāṃ kṣamāmāhuḥ satyaṃ ca paruṣottama| satyādyajñosi saṃbhūtaḥ kaśyapastvāṃ yathā'bravīt ||
Verse 56
साध्यानामपि देवानां शिवानामीश्वरेश्वर। लोकभावन लोकेश यथा त्वां नारदोऽब्रवीत् ।।
sādhyānāmapi devānāṃ śivānāmīśvareśvara| lokabhāvana lokeśa yathā tvāṃ nārado'bravīt ||
Verse 57
ब्रह्मशंकरशक्राद्यैर्देववृन्दैः पुनः पुनः। क्रीडसे त्वं नरव्याघ्र बालः क्रीडनकैरिव ।।
brahmaśaṃkaraśakrādyairdevavṛndaiḥ punaḥ punaḥ| krīḍase tvaṃ naravyāghra bālaḥ krīḍanakairiva ||
Verse 58
द्यौश्च ते शिरसा व्याप्ता पद्भ्यां च पृथिवीप्रभो। जठरे खमिमे लोकाः पुरुषोसि सनातनः ।।
dyauśca te śirasā vyāptā padbhyāṃ ca pṛthivīprabho| jaṭhare khamime lokāḥ puruṣosi sanātanaḥ ||
Verse 59
विद्यातपोभितप्तानां तपसा भावितात्मनाम्। आत्मदर्शनतृप्तानामृषीणामसि सत्तमः ।।
vidyātapobhitaptānāṃ tapasā bhāvitātmanām| ātmadarśanatṛptānāmṛṣīṇāmasi sattamaḥ ||
Verse 60
राजर्षीणां पुण्यकृतामाहवेष्वनिवर्तिनाम्। सर्वधर्मोपपन्नानां त्वं गतिः पुरुषर्षभ। त्वं प्रभुस्त्वं विभुश्च त्वं भूतात्मा त्वं विचेष्टसे ।।
rājarṣīṇāṃ puṇyakṛtāmāhaveṣvanivartinām| sarvadharmopapannānāṃ tvaṃ gatiḥ puruṣarṣabha| tvaṃ prabhustvaṃ vibhuśca tvaṃ bhūtātmā tvaṃ viceṣṭase ||
Verse 61
लोकपालाश्च लोकाश्च नक्षत्राणि दिशे दश। नभश्चन्द्रश्च सूर्यश्च त्वयि सर्वं प्रतिष्ठितम् ।।
lokapālāśca lokāśca nakṣatrāṇi diśe daśa| nabhaścandraśca sūryaśca tvayi sarvaṃ pratiṣṭhitam ||
Verse 62
मंर्त्यता चैव भूतानाममरत्वं दिवौकसाम्। त्वयि सर्वं महाबाहो लोककार्यं प्रतिष्ठितम् ।।
maṃrtyatā caiva bhūtānāmamaratvaṃ divaukasām| tvayi sarvaṃ mahābāho lokakāryaṃ pratiṣṭhitam ||
Verse 63
सा तेऽहं दुःखमाख्यास्ये प्रणयान्मधुसूदन। ईशस्त्वं सर्वभूतानां ये दिव्या ये च मानुषाः ।।
sā te'haṃ duḥkhamākhyāsye praṇayānmadhusūdana| īśastvaṃ sarvabhūtānāṃ ye divyā ye ca mānuṣāḥ ||
Verse 64
कथं नु भार्या पार्थानां तव कृष्ण सखी विभो। धृष्टद्युम्नस्य भगिनी सभां कृष्येत मादृशी ।।
kathaṃ nu bhāryā pārthānāṃ tava kṛṣṇa sakhī vibho| dhṛṣṭadyumnasya bhaginī sabhāṃ kṛṣyeta mādṛśī ||
Verse 65
स्त्रीधर्मिणी वेपमाना शोणितेन समुक्षिता। एकवस्त्रा विकृष्टाऽस्मि दुःखिता कुरुसंसदि ।। समावाये समूहे। संरब्धेषु कुपितेषु ।।
strīdharmiṇī vepamānā śoṇitena samukṣitā| ekavastrā vikṛṣṭā'smi duḥkhitā kurusaṃsadi || samāvāye samūhe| saṃrabdheṣu kupiteṣu ||
Verse 66
राज्ञां मध्ये सभायां तु रजसाऽतिपरिप्लुता। दृष्ट्वा च मां धार्तराष्ट्राः प्राहसन्पापचेतसः ।।
rājñāṃ madhye sabhāyāṃ tu rajasā'tipariplutā| dṛṣṭvā ca māṃ dhārtarāṣṭrāḥ prāhasanpāpacetasaḥ ||
Verse 67
दासीभावेन मां भोक्तुमीष्सुते मधुसूदन। जीवत्सु पाण्डुपुत्रेषु पाञ्चालेषु च वृष्णिषु ।। स्त्रीधर्मिणी रजस्वला ।।
dāsībhāvena māṃ bhoktumīṣsute madhusūdana| jīvatsu pāṇḍuputreṣu pāñcāleṣu ca vṛṣṇiṣu || strīdharmiṇī rajasvalā ||
Verse 68
नन्वहं कृष्ण भीष्मस्य धृतराष्ट्रस्य चोभयोः। स्नुषा भवामि धर्मेण साऽहं दासीकृता बलात् ।। ईषुः ऐच्छन् ।।
nanvahaṃ kṛṣṇa bhīṣmasya dhṛtarāṣṭrasya cobhayoḥ| snuṣā bhavāmi dharmeṇa sā'haṃ dāsīkṛtā balāt || īṣuḥ aicchan ||
Verse 69
गर्हयेपाण्डवांस्त्वेव युधि श्रेष्ठान्महाबलान्। यत्क्लिश्यमानां प्रेक्षन्ते धर्मपत्नीं यशस्विनीम् ।। स्नुषा वधूः ।।
garhayepāṇḍavāṃstveva yudhi śreṣṭhānmahābalān| yatkliśyamānāṃ prekṣante dharmapatnīṃ yaśasvinīm || snuṣā vadhūḥ ||
Verse 70
धिग्बलं भीमसेनस्य धिक्पार्थस् च गाण्डिवम्। यौ मां विप्रकृतां क्षुद्रैर्मर्षयेतां जनार्दन ।। धर्मपत्नीं यज्ञसंयोगिनीम् ।।
dhigbalaṃ bhīmasenasya dhikpārthas ca gāṇḍivam| yau māṃ viprakṛtāṃ kṣudrairmarṣayetāṃ janārdana || dharmapatnīṃ yajñasaṃyoginīm ||
Verse 71
शाश्वतोऽयं धर्मपथः सद्भिराचरितः सदा। यद्भार्यां परिरक्षन्ति भर्तारोऽल्पबला अपि ।।
śāśvato'yaṃ dharmapathaḥ sadbhirācaritaḥ sadā| yadbhāryāṃ parirakṣanti bhartāro'lpabalā api ||
Verse 72
भार्यायां रक्ष्यमाणायां प्रजा भवति रक्षिता। प्रजायां रक्ष्यमाणायामात्मा भवति रक्षितः ।।
bhāryāyāṃ rakṣyamāṇāyāṃ prajā bhavati rakṣitā| prajāyāṃ rakṣyamāṇāyāmātmā bhavati rakṣitaḥ ||
Verse 73
आत्मा हि जायेत तस्यां तस्मज्जाया भवत्युत। भर्ता च भार्यया रक्ष्यः कथं जायान्ममोदरे ।।
ātmā hi jāyeta tasyāṃ tasmajjāyā bhavatyuta| bhartā ca bhāryayā rakṣyaḥ kathaṃ jāyānmamodare ||
Verse 74
नन्विमे शरणं प्राप्तं न त्यजन्ति कदाचन। ते मां शरणमापन्नां नान्वपद्यन्त पाण्डवाः ।। विप्रकृतां दुःखंप्रापिताम्। मर्षयेतां क्षमेताम् ।।
nanvime śaraṇaṃ prāptaṃ na tyajanti kadācana| te māṃ śaraṇamāpannāṃ nānvapadyanta pāṇḍavāḥ || viprakṛtāṃ duḥkhaṃprāpitām| marṣayetāṃ kṣametām ||
Verse 75
पञ्चभिः पतिभिर्जाताः कुमासरा मे महौजसः। एतेषामप्यवेक्षार्थं त्रातव्याऽस्मि जनार्दन ।।
pañcabhiḥ patibhirjātāḥ kumāsarā me mahaujasaḥ| eteṣāmapyavekṣārthaṃ trātavyā'smi janārdana ||
Verse 76
प्रतिविन्ध्यो युधिष्ठिरात्सुतसोमो वृकोदरात्। अर्जुनाच्छ्रुतकीर्तिश्च शतानीकस्तु नाकुलिः ।।
prativindhyo yudhiṣṭhirātsutasomo vṛkodarāt| arjunācchrutakīrtiśca śatānīkastu nākuliḥ ||
Verse 77
कनिष्ठाच्छ्रुतकर्मा च सर्वे सत्यपराक्रमा। प्रद्युम्नो यादृशः कृष्ण तादृशास्ते महारथाः ।।
kaniṣṭhācchrutakarmā ca sarve satyaparākramā| pradyumno yādṛśaḥ kṛṣṇa tādṛśāste mahārathāḥ ||
Verse 78
नन्विमे धनुषि श्रेष्ठा अजेया युधि शात्रवैः। किमर्थं धार्तराष्ट्राणां सहन्ते दुर्बलीयसाम् ।। नान्वपद्यन्त नानुगृहीतवन्तः ।।
nanvime dhanuṣi śreṣṭhā ajeyā yudhi śātravaiḥ| kimarthaṃ dhārtarāṣṭrāṇāṃ sahante durbalīyasām || nānvapadyanta nānugṛhītavantaḥ ||
Verse 79
अधर्मेण हृतं राज्यं सर्वे दासाः कृतास्तथा। सभायां परिकृष्टाऽहमेकवस्त्रा रजस्वला ।।
adharmeṇa hṛtaṃ rājyaṃ sarve dāsāḥ kṛtāstathā| sabhāyāṃ parikṛṣṭā'hamekavastrā rajasvalā ||
Verse 80
नाधिज्यमपि यच्छक्यं कर्तुमन्येन गाण्डिवम्। अन्यत्रार्जुनभीमाभ्यां त्वया वा मधुसूदन ।। राष्ट्राणमपराधम्। दुर्बलीयसां दुर्बलतराणाम् ।।
nādhijyamapi yacchakyaṃ kartumanyena gāṇḍivam| anyatrārjunabhīmābhyāṃ tvayā vā madhusūdana || rāṣṭrāṇamaparādham| durbalīyasāṃ durbalatarāṇām ||
Verse 81
धिग्बलं भीमसेनस्य धिक्पार्थस्य च पौरुषम्। यत्र दुर्योधनः कृष्ण मुहूर्तमपि जीवति ।।
dhigbalaṃ bhīmasenasya dhikpārthasya ca pauruṣam| yatra duryodhanaḥ kṛṣṇa muhūrtamapi jīvati ||
Verse 82
य एतानाक्षिपद्राष्टात्सह मात्राऽविहिंसकान्। अधीयानान्पुरा बालान्व्रतस्थान्मधुसूदन ।।
ya etānākṣipadrāṣṭātsaha mātrā'vihiṃsakān| adhīyānānpurā bālānvratasthānmadhusūdana ||
Verse 83
भोजने भीमसेनस्य पापः प्राक्षिपयद्विषम्। कालकूटं नवं तीक्ष्णं संभृतं रोमहर्षणम् ।।
bhojane bhīmasenasya pāpaḥ prākṣipayadviṣam| kālakūṭaṃ navaṃ tīkṣṇaṃ saṃbhṛtaṃ romaharṣaṇam ||
Verse 84
तज्जीर्णमविकारेण सहान्नेन जनार्दन। सशेषत्वान्महाबाहो भीमस्य पुरुषोत्तम ।। अधिज्यमारोपितगुणम् ।।
tajjīrṇamavikāreṇa sahānnena janārdana| saśeṣatvānmahābāho bhīmasya puruṣottama || adhijyamāropitaguṇam ||
Verse 85
प्रमाणकोट्यां विश्वस्तं तथा सुप्तं वृकोदरम्। बद्ध्वैनं कृष्ण गङ्गायां प्रक्षिप्य पुरमाव्रजत् ।। सशेषत्वात्। आयुष इति शेषः ।।
pramāṇakoṭyāṃ viśvastaṃ tathā suptaṃ vṛkodaram| baddhvainaṃ kṛṣṇa gaṅgāyāṃ prakṣipya puramāvrajat || saśeṣatvāt| āyuṣa iti śeṣaḥ ||
Verse 86
यदा विबुद्धः कौन्तेयस्तदा संछिद्य बन्धनम्। उदतिष्ठन्महाबाहुर्भीमसेनो महाबलः ।।
yadā vibuddhaḥ kaunteyastadā saṃchidya bandhanam| udatiṣṭhanmahābāhurbhīmaseno mahābalaḥ ||
Verse 87
आशीविषैः कृष्णसर्पैः सुप्तंचैनमदंशयत्। सर्वेष्वेवाङ्गदेशेषु न ममार च शत्रुहा ।।
āśīviṣaiḥ kṛṣṇasarpaiḥ suptaṃcainamadaṃśayat| sarveṣvevāṅgadeśeṣu na mamāra ca śatruhā ||
Verse 88
प्रतिबुद्धस्तु कौन्तेयः सर्वान्सर्पानपोथयत्। सारथिं चास्य दयितमपहस्तेन जघ्निवान् ।। प्रमाणकोट्यां प्रमाणाख्यो गङ्गातीरस्थो वटविशेषस्तत्प्रदेशे ।।
pratibuddhastu kaunteyaḥ sarvānsarpānapothayat| sārathiṃ cāsya dayitamapahastena jaghnivān || pramāṇakoṭyāṃ pramāṇākhyo gaṅgātīrastho vaṭaviśeṣastatpradeśe ||
Verse 89
पुनः सुप्तानुपाधाक्षीद्बालकान्वारणावते। शयानानार्यया सार्धं को नु तत्कर्तुमर्हति ।। अपोथयत् प्रहृतवान्। अपहस्तेन हस्तपृष्ठेन ।।
punaḥ suptānupādhākṣīdbālakānvāraṇāvate| śayānānāryayā sārdhaṃ ko nu tatkartumarhati || apothayat prahṛtavān| apahastena hastapṛṣṭhena ||
Verse 90
यत्रार्या रुदती भीता पाण्डवानिदमब्रवीत्। महद्व्यसनमापन्ना शिखिना परिवारिता ।।
yatrāryā rudatī bhītā pāṇḍavānidamabravīt| mahadvyasanamāpannā śikhinā parivāritā ||
Verse 91
हा हतास्मि कुंतोन्वद्य भवेच्छान्तिरिहानलात्। अनाथा विनशिष्यामि बालकैः पुत्रकैः सह ।।
hā hatāsmi kuṃtonvadya bhavecchāntirihānalāt| anāthā vinaśiṣyāmi bālakaiḥ putrakaiḥ saha ||
Verse 92
तत्र भीमो महाबाहुर्वायुवेगपराक्रमः। आर्यामाश्वासयामास भ्रातॄंश्चापि वृकोदरः ।।
tatra bhīmo mahābāhurvāyuvegaparākramaḥ| āryāmāśvāsayāmāsa bhrātṝṃścāpi vṛkodaraḥ ||
Verse 93
वैनतेयो यथा पक्षी गरुत्मान्पततांवरः। तथैवाभिपतिष्यामि भयंवो नेह विद्यते ।। उपाधाक्षीत् दाहार्थं उपहृतवान्। आर्या श्वश्रूः ।।
vainateyo yathā pakṣī garutmānpatatāṃvaraḥ| tathaivābhipatiṣyāmi bhayaṃvo neha vidyate || upādhākṣīt dāhārthaṃ upahṛtavān| āryā śvaśrūḥ ||
Verse 94
आर्यामङ्केन वामेन राजानं दक्षिणेन च। अंसयोश्च यमौ कृत्वा पृष्ठे बीभत्सुमेव च ।।
āryāmaṅkena vāmena rājānaṃ dakṣiṇena ca| aṃsayośca yamau kṛtvā pṛṣṭhe bībhatsumeva ca ||
Verse 95
सहसोत्पत्य वेगेन सर्वानादाय वीर्यवान्। भ्रातॄनार्यां च बलवान्मोक्षयामास पावकात् ।।
sahasotpatya vegena sarvānādāya vīryavān| bhrātṝnāryāṃ ca balavānmokṣayāmāsa pāvakāt ||
Verse 96
ते रात्रौ प्रस्थितां सर्वे सह मात्रा यशस्विनः। अभ्यगच्छन्महारण्ये हिडिम्बवनमन्तिकात् ।।
te rātrau prasthitāṃ sarve saha mātrā yaśasvinaḥ| abhyagacchanmahāraṇye hiḍimbavanamantikāt ||
Verse 97
श्रान्ताः प्रसुप्तास्तत्रेमे मात्रा सह सुदुःखिताः। सुप्तांश्चैनानभ्यगच्छद्धिडिम्बा नाम राक्षसी ।।
śrāntāḥ prasuptāstatreme mātrā saha suduḥkhitāḥ| suptāṃścainānabhyagacchaddhiḍimbā nāma rākṣasī ||
Verse 98
सा दृष्ट्वा पाण्डवांस्तत्र सुप्तान्मात्रा सह क्षितौ। हृच्छयेनाभिभूतात्मा भीमसेनमकामयत् ।।
sā dṛṣṭvā pāṇḍavāṃstatra suptānmātrā saha kṣitau| hṛcchayenābhibhūtātmā bhīmasenamakāmayat ||
Verse 99
भीमस्य पादौ कृत्वा तु स्वउत्सङ्गे ततोऽबला। पर्यमर्दत संहृष्टा कल्याणी मृदुपाणिना ।।
bhīmasya pādau kṛtvā tu svautsaṅge tato'balā| paryamardata saṃhṛṣṭā kalyāṇī mṛdupāṇinā ||
Verse 100
तामबुद्ध्यदमेयात्मा बलवान्सत्यविक्रमः। पर्यपृच्छत तां भीमः किमिहेच्छस्यनिन्दिते ।।
tāmabuddhyadameyātmā balavānsatyavikramaḥ| paryapṛcchata tāṃ bhīmaḥ kimihecchasyanindite ||
Verse 101
एवमुक्ता तु भीमेन राक्षसी कामरूपिणी। भीमसेनं महात्मानमाह चैवमनिन्दिता ।।
evamuktā tu bhīmena rākṣasī kāmarūpiṇī| bhīmasenaṃ mahātmānamāha caivamaninditā ||
Verse 102
पलायध्वमितः क्षिप्रं मम भ्रातैष वीर्यवान्। आगमिष्यति वो हन्तुं तस्माद्गच्छत माचिरम् ।।
palāyadhvamitaḥ kṣipraṃ mama bhrātaiṣa vīryavān| āgamiṣyati vo hantuṃ tasmādgacchata māciram ||
Verse 103
अथ भीमोऽभ्युवाचैनां साभिमानमिदं वचः। नोद्विजेयमहं तस्मान्निहनिष्येऽहमागतम् ।।
atha bhīmo'bhyuvācaināṃ sābhimānamidaṃ vacaḥ| nodvijeyamahaṃ tasmānnihaniṣye'hamāgatam ||
Verse 104
तयोः श्रुत्वा तु संजल्पमागच्छद्राक्षसाधमः। भीमरूपो महानादान्विसृजन्भीमदर्शनः ।।
tayoḥ śrutvā tu saṃjalpamāgacchadrākṣasādhamaḥ| bhīmarūpo mahānādānvisṛjanbhīmadarśanaḥ ||
Verse 105
राक्षस उवाच। केन सार्धं कथयसि आनयैनं ममान्तिकम्। हिडिम्बे भक्षयिष्यामो न चिरं कर्तुमर्हसि ।।
rākṣasa uvāca| kena sārdhaṃ kathayasi ānayainaṃ mamāntikam| hiḍimbe bhakṣayiṣyāmo na ciraṃ kartumarhasi ||
Verse 106
सा कृपासंगृहीतेन हृदयेन मनस्विनी। नैनमैच्छत्तदाकर्तुमनुक्रोशादनिन्दिता ।। वैनतेयः विनतापुत्रः ।।
sā kṛpāsaṃgṛhītena hṛdayena manasvinī| nainamaicchattadākartumanukrośādaninditā || vainateyaḥ vinatāputraḥ ||
Verse 107
स नादान्विनदन्घोरान्राक्षसः पुरुषादकः। अभ्यद्रवत वेगेन भीमसेनं तदा किल ।।
sa nādānvinadanghorānrākṣasaḥ puruṣādakaḥ| abhyadravata vegena bhīmasenaṃ tadā kila ||
Verse 108
तमभिद्रुत्य संक्रुद्धो वेगेन महता बली। अगृह्णात्पाणिना पाणिं भीमसेनस्य राक्षसः ।।
tamabhidrutya saṃkruddho vegena mahatā balī| agṛhṇātpāṇinā pāṇiṃ bhīmasenasya rākṣasaḥ ||
Verse 109
इन्द्राशनिसमस्पर्शं वज्रसंहननं दृढम्। संहत्य भीमसेनाय व्याक्षिपत्सहसा करम् ।। कृपासंगृहीतेन श्नेहवशेन ।।
indrāśanisamasparśaṃ vajrasaṃhananaṃ dṛḍham| saṃhatya bhīmasenāya vyākṣipatsahasā karam || kṛpāsaṃgṛhītena śnehavaśena ||
Verse 110
गृहीतं पाणिना पाणिं भीमसेनस्य रक्षसा। नामृष्यत महाबाहुस्तत्राक्रुद्ध्यद्वृकोदरः ।।
gṛhītaṃ pāṇinā pāṇiṃ bhīmasenasya rakṣasā| nāmṛṣyata mahābāhustatrākruddhyadvṛkodaraḥ ||
Verse 111
तदासीत्तुमुलं युद्धं भीमसेनहिडिम्बयोः। सर्वास्त्रविदुषोर्घोरं वृत्रवासवयोरिव ।।
tadāsīttumulaṃ yuddhaṃ bhīmasenahiḍimbayoḥ| sarvāstraviduṣorghoraṃ vṛtravāsavayoriva ||
Verse 112
विक्रीड्य सुचिरं भीमो राक्षसेन सहानघ। निजघान महावीर्यस्तं तदा निर्बलं बली ।।
vikrīḍya suciraṃ bhīmo rākṣasena sahānagha| nijaghāna mahāvīryastaṃ tadā nirbalaṃ balī ||
Verse 113
हत्वा हिडिम्बं भीमोऽथ प्रस्थितो भ्रातृभिः सह। हिडिम्बामग्रतः कृत्वा यस्यां जातो घटोत्कटः ।।
hatvā hiḍimbaṃ bhīmo'tha prasthito bhrātṛbhiḥ saha| hiḍimbāmagrataḥ kṛtvā yasyāṃ jāto ghaṭotkaṭaḥ ||
Verse 114
ततः संप्राद्रवन्सर्वे सह मात्रा परंतपाः। एकचक्रामभिमुखाः संवृता ब्राह्मणव्रजैः ।।
tataḥ saṃprādravansarve saha mātrā paraṃtapāḥ| ekacakrāmabhimukhāḥ saṃvṛtā brāhmaṇavrajaiḥ ||
Verse 115
प्रस्थाने व्यास एषां च मन्त्री प्रियहिते रतः। ततोऽगच्छन्नेकचक्रां पाणअडवाः संशितव्रताः ।।
prasthāne vyāsa eṣāṃ ca mantrī priyahite rataḥ| tato'gacchannekacakrāṃ pāṇaaḍavāḥ saṃśitavratāḥ ||
Verse 116
तत्राप्यासादयामासुर्बकं नाम महाबलम्। पुरुषादं प्रतिभयं हिडिम्बेनैव संमितम् ।।
tatrāpyāsādayāmāsurbakaṃ nāma mahābalam| puruṣādaṃ pratibhayaṃ hiḍimbenaiva saṃmitam ||
Verse 117
तं चापि विनिहत्योग्रं भीमः प्रहरतां वरः। सहितो भ्रातृभिः सर्वैर्द्रुपदस्य पुरं ययौ ।।
taṃ cāpi vinihatyograṃ bhīmaḥ praharatāṃ varaḥ| sahito bhrātṛbhiḥ sarvairdrupadasya puraṃ yayau ||
Verse 118
लब्धाऽहमपि तत्रैव वसता सव्यसाचिना। यथा त्वया जिता कृष्णरुक्मिणी भीष्मकात्मजा ।।
labdhā'hamapi tatraiva vasatā savyasācinā| yathā tvayā jitā kṛṣṇarukmiṇī bhīṣmakātmajā ||
Verse 119
एवं सुयुद्धे पार्थेन जिताऽहं मधुसूदन। स्वयंवरे महत्कर्म कृत्वा न सुकरं परैः ।। संहृत्य मुष्टीकृत्य ।।
evaṃ suyuddhe pārthena jitā'haṃ madhusūdana| svayaṃvare mahatkarma kṛtvā na sukaraṃ paraiḥ || saṃhṛtya muṣṭīkṛtya ||
Verse 120
एवं क्लेशैः सुबहुभिः क्लिश्यमाना सुदुःखिता। निवसाम्यार्यया हीना कृष्ण धौम्यपुरःसुरा ।।
evaṃ kleśaiḥ subahubhiḥ kliśyamānā suduḥkhitā| nivasāmyāryayā hīnā kṛṣṇa dhaumyapuraḥsurā ||
Verse 121
त इमे सिंहविक्रान्ता वीर्येणाभ्यधिकाः परैः। निहीनैः परिक्लिश्यन्ति समुपेक्षन्ति मां कथं।
ta ime siṃhavikrāntā vīryeṇābhyadhikāḥ paraiḥ| nihīnaiḥ parikliśyanti samupekṣanti māṃ kathaṃ|
Verse 122
एतादृशानि दुःखानि महन्ती दुर्बलीयसाम्। दीर्घकालं प्रदीप्ताऽस्मि पापानां पापकर्मणाम् ।।
etādṛśāni duḥkhāni mahantī durbalīyasām| dīrghakālaṃ pradīptā'smi pāpānāṃ pāpakarmaṇām ||
Verse 123
कुले महतिजाताऽस्मि दिव्येन विधिना किल। पाण्डवानां प्रिया भार्या स्नुषा पाण्डोर्महात्मनः ।।
kule mahatijātā'smi divyena vidhinā kila| pāṇḍavānāṃ priyā bhāryā snuṣā pāṇḍormahātmanaḥ ||
Verse 124
केशग्रहमनुप्राप्ता का नु जीवेत मादृशी। पञ्चानामिन्द्रकल्पानां प्रेक्षतां मधुसूदन ।।
keśagrahamanuprāptā kā nu jīveta mādṛśī| pañcānāmindrakalpānāṃ prekṣatāṃ madhusūdana ||
Verse 125
इत्युक्त्वा प्रारुदत्कृष्णा मुखं प्रच्छाद्य पाणिना। पद्मकोशप्रकाशेन मृदुना मृदुभाषिणी ।।
ityuktvā prārudatkṛṣṇā mukhaṃ pracchādya pāṇinā| padmakośaprakāśena mṛdunā mṛdubhāṣiṇī ||
Verse 126
स्तनावपतितौ पीनौ सुजातौ शुभलक्षणौ। अभ्यवर्षत पाञ्चाली दुःखजैरश्रुबिन्दुभिः ।।
stanāvapatitau pīnau sujātau śubhalakṣaṇau| abhyavarṣata pāñcālī duḥkhajairaśrubindubhiḥ ||
Verse 127
चक्षुषी परिमार्जन्ती निःश्वसन्ती पुनःपुनः। बाष्पपूर्णेन कणअठेन क्रुद्धा वचनमब्रवीत् ।।
cakṣuṣī parimārjantī niḥśvasantī punaḥpunaḥ| bāṣpapūrṇena kaṇaaṭhena kruddhā vacanamabravīt ||
Verse 128
नैव मे पतयः सन्ति न पुत्रा न च बान्धवाः। न भ्रातरो न च पिता नैव त्वं मधुसूदन ।।
naiva me patayaḥ santi na putrā na ca bāndhavāḥ| na bhrātaro na ca pitā naiva tvaṃ madhusūdana ||
Verse 129
ये मां विप्रकृतां क्षुद्रैरुपेक्षध्वं विशोकवत्। न च मे शाम्यते दुःखं कर्णो यत्प्राहसत्तदा ।। एवं क्लेशैः सुबहुभिः क्लिश्यमानाः सुदुःखिताः। निवसामार्यया हीनाः कृष्ण धौम्यपुरस्सरा इति क. ट. द. पाठः ।।
ye māṃ viprakṛtāṃ kṣudrairupekṣadhvaṃ viśokavat| na ca me śāmyate duḥkhaṃ karṇo yatprāhasattadā || evaṃ kleśaiḥ subahubhiḥ kliśyamānāḥ suduḥkhitāḥ| nivasāmāryayā hīnāḥ kṛṣṇa dhaumyapurassarā iti ka. ṭa. da. pāṭhaḥ ||
Verse 130
चतुर्भिः कारणैः कृष्ण त्वया रक्ष्याऽस्मि नित्यशः। संबन्धाद्गौरवात्सख्यात्प्रभुत्वेनैव केशव ।। विशोकवद्विशोका इव ।।
caturbhiḥ kāraṇaiḥ kṛṣṇa tvayā rakṣyā'smi nityaśaḥ| saṃbandhādgauravātsakhyātprabhutvenaiva keśava || viśokavadviśokā iva ||
Verse 131
वैशंपायन उवाच। अथ तामब्रवीत्कृष्णस्तस्मिन्वीरसमागमे। रोदिष्यन्ति स्त्रियो ह्येवं येषां क्रुद्धासि नामिनि ।।
vaiśaṃpāyana uvāca| atha tāmabravītkṛṣṇastasminvīrasamāgame| rodiṣyanti striyo hyevaṃ yeṣāṃ kruddhāsi nāmini ||
Verse 132
बीभत्सुशरसंछन्नाञ्शोणितौघपरिप्लुतान्। निहतान्वल्लभान्वीक्ष्य शयानान्वसुधातले ।।
bībhatsuśarasaṃchannāñśoṇitaughapariplutān| nihatānvallabhānvīkṣya śayānānvasudhātale ||
Verse 133
यत्समर्थं पाण्डवनां तत्करिष्यामि मा शुचः। सत्यं ते प्रतिजानामि राज्ञां राज्ञी भविष्यसि ।।
yatsamarthaṃ pāṇḍavanāṃ tatkariṣyāmi mā śucaḥ| satyaṃ te pratijānāmi rājñāṃ rājñī bhaviṣyasi ||
Verse 134
पतेद्द्यौर्हिमवाञ्शीर्येत्पृथिवी शकली भवेत्। शुष्येत्तोयनिधिः कृष्णे न मे मोघं वचो भवेत् ।।
pateddyaurhimavāñśīryetpṛthivī śakalī bhavet| śuṣyettoyanidhiḥ kṛṣṇe na me moghaṃ vaco bhavet ||
Verse 135
तच्छ्रुत्वा द्रौपदी वाक्यं प्रतिवाक्यमथाच्युतात्। साचीकृतमवैक्षत्सा पाञ्चाली मध्यमं पतिम् ।।
tacchrutvā draupadī vākyaṃ prativākyamathācyutāt| sācīkṛtamavaikṣatsā pāñcālī madhyamaṃ patim ||
Verse 136
आबभाषे महाराज द्रौपदीमर्जुनस्तदा। मा रोदीः शुभताम्राक्षि यदाह मधुसूदनः। तथा तद्भविता देवि नान्यथा वरवर्णिनि ।।
ābabhāṣe mahārāja draupadīmarjunastadā| mā rodīḥ śubhatāmrākṣi yadāha madhusūdanaḥ| tathā tadbhavitā devi nānyathā varavarṇini ||
Verse 137
धृष्टद्युम्न उवाच। अहं द्रोणं हनिष्यामि शिखण्डी तु पितामहम्। दुर्योधनं भीमसेनः कर्णं हन्ता धनिजयः ।।
dhṛṣṭadyumna uvāca| ahaṃ droṇaṃ haniṣyāmi śikhaṇḍī tu pitāmaham| duryodhanaṃ bhīmasenaḥ karṇaṃ hantā dhanijayaḥ ||
Verse 138
रामकृष्णौ व्यपाश्रित्य अजेयाः स्म रणए स्वसः। अपि वृत्रहणा युद्धे किं पुनर्धृतराष्ट्रजैः ।। संबन्धात् पितृष्वस्रीयभार्यात्वात्। गौरवादग्निकुण्डोद्भवत्वात्। सख्यात् भक्तिमत्त्वात्। प्रभुत्वेन सामर्थ्यवत्त्वेन त्वदीयेन ।।
rāmakṛṣṇau vyapāśritya ajeyāḥ sma raṇae svasaḥ| api vṛtrahaṇā yuddhe kiṃ punardhṛtarāṣṭrajaiḥ || saṃbandhāt pitṛṣvasrīyabhāryātvāt| gauravādagnikuṇḍodbhavatvāt| sakhyāt bhaktimattvāt| prabhutvena sāmarthyavattvena tvadīyena ||
Verse 139
वैशंपायन उवाच। इत्युक्तेऽभिमुखा वीरा वासुदेवमुपास्थितः। तेषां मध्ये महाबाहुः केशवो वाक्यमब्रवीत् ।।
vaiśaṃpāyana uvāca| ityukte'bhimukhā vīrā vāsudevamupāsthitaḥ| teṣāṃ madhye mahābāhuḥ keśavo vākyamabravīt ||