Lipi
Sign in
Classic reading room ↗

Adhyaya 11

Vana Parva · 75 verses

75 verses · free forever

English has not yet been added to this adhyaya. You can read the Ganesha passage or Vana Parva 312–315 with English.

Show
Listen to this section

Uses your saved HI voice · Narration settings

Narration reads the opening of this section. Longer passages are split to keep playback responsive.

  1. Verse 1

    मैत्रेयचोदितेन विदुरेण धृतराष्ट्राय भीमकृतकिर्मीरवधप्रकारकथनम् ।। धृतराष्ट्र उवाच।। किर्मीरस्य वधं क्षत्तः श्रोतुमिच्छामि कथ्यताम् । रक्षसा भीमसेनस्य कथमासीत्समागमः ।।१।। विदुर उवाच।। शृणु भीमस्य कर्मेदमतिमानुषकर्मणः । श्रुतपूर्वं मया तेषां कथान्तेषु पुनः पुनः ।।२।। इतः प्रयाता राजेन्द्र पाण्डवा द्यूतनिर्जिताः । जग्मुस्त्रिभिरहोरात्रैः काम्यकं नाम तद्वनम् ।।३।। रात्रौ निशीथे स्वाभीले गतेऽर्धसमये नृप । प्रचारे पुरुषादानां रक्षसां भीमकर्मणाम् ।।४।। तद्वनं तापसा नित्यं शेषाश्च वनचारिणः । दूरात्परिहरन्ति स्म पुरुषादभयात्किल ।।५।। तेषां प्रविशतां तत्र मार्गमावृत्य भारत । दीप्ताक्षं भीषणं रक्षः सोल्मुकं प्रत्यदृश्यत ।।६।। बाहू महान्तौ कृत्वा तु तथास्यं च भयानकम् । स्थितमावृत्य पन्थानं येन यान्ति कुरूद्वहाः ।।७।। दष्टोष्ठदंष्ट्रं ताम्राक्षं प्रदीप्तोर्ध्वशिरोरुहम् । सार्करश्मितडिच्चक्रं सबलाकमिवाम्बुदम् ।।८।। सृजन्तं राक्षसीं मायां महारावविराविणम् । मुञ्चन्तं विपुलं नादं सतोयमिव तोयदम् ।।९।। तस्य नादेन सन्त्रस्ताः पक्षिणः सर्वतोदिशम् । विमुक्तनादाः सम्पेतुः स्थलजा जलजैः सह ।।१०।। सम्प्रद्रुतमृगद्वीपिमहिषर्क्षसमाकुलम् । तद्वनं तस्य नादेन सम्प्रस्थितमिवाभवत् ।।११।। तस्योरुवाताभिहता ताम्रपल्लवबाहवः । विदूरजाताश्च लताः समाश्लिष्यन्त पादपान् ।।१२।। तस्मिन्क्षणेऽथ प्रववौ मारुतो भृशदारुणः । रजसा संवृतं तेन नष्टर्ष्कमभवन्नभः ।।१३।। पञ्चानां पाण्डुपुत्राणामविज्ञातो महारिपुः । पञ्चानामिन्द्रियाणां तु शोकवेग इवातुलः ।।१४।। स दृष्ट्वा पाण्डवान्दूरात्कृष्णाजिनसमावृतान् । आवृणोत्तद्वनद्वारं मैनाक इव पर्वतः ।।१५।। तं समासाद्य वित्रस्ता कृष्णा कमललोचना । अदृष्टपूर्वं सन्त्रासान्न्यमीलयत लोचने ।।१६।। दुःशासनकरोत्सृष्टविप्रकीर्णशिरोरुहा । पञ्चपर्वतमध्यस्था नदीवाकुलतां गता ।।१७।। मोमुह्यमानां तां तत्र जगृहुः पञ्च पाण्डवाः । इन्द्रियाणि प्रसक्तानि विषयेषु यथा रतिम् ।।१८।। अथ तां राक्षसीं मायामुत्थितां घोरदर्शनाम् । रक्षोघ्नैर्विविधैर्मन्त्रैर्धौम्यः सम्यक्प्रयोजितैः ।।१९।। पश्यतां पाण्डुपुत्राणां नाशयामास वीर्यवान् ।।१९।। स नष्टमायोऽतिबलः क्रोधविस्फारितेक्षणः । काममूर्तिधरः क्षुद्रः कालकल्पो व्यदृश्यत ।।२०।। तमुवाच ततो राजा दीर्घप्रज्ञो युधिष्ठिरः । को भवान्कस्य वा किं ते क्रियतां कार्यमुच्यताम् ।।२१।। प्रत्युवाचाथ तद्रक्षो धर्मराजं युधिष्ठिरम् । अहं बकस्य वै भ्राता किर्मीर इति विश्रुतः ।।२२।। वनेऽस्मिन्काम्यके शून्ये निवसामि गतज्वरः । युधि निर्जित्य पुरुषानाहारं नित्यमाचरन् ।।२३।। के यूयमिह सम्प्राप्ता भक्ष्यभूता ममान्तिकम् । युधि निर्जित्य वः सर्वान्भक्षयिष्ये गतज्वरः ।।२४।। युधिष्ठिरस्तु तच्छ्रुत्वा वचस्तस्य दुरात्मनः । आचचक्षे ततः सर्वं गोत्रनामादि भारत ।।२५।। पाण्डवो धर्मराजोऽहं यदि ते श्रोत्रमागतः । सहितो भ्रातृभिः सर्वैर्भीमसेनार्जुनादिभिः ।।२६।। हृतराज्यो वने वासं वस्तुं कृतमतिस्ततः । वनमभ्यागतो घोरमिदं तव परिग्रहम् ।।२७।। किर्मीरस्त्वब्रवीदेनं दिष्ट्या देवैरिदं मम । उपपादितमद्येह चिरकालान्मनोगतम् ।।२८।। भीमसेनवधार्थं हि नित्यमभ्युद्यतायुधः । चरामि पृथिवीं कृत्स्नां नैनमासादयाम्यहम् ।।२९।। सोऽयमासादितो दिष्ट्या भ्रातृहा काङ्क्षितश्चिरम् । अनेन हि मम भ्राता बको विनिहतः प्रियः ।।३०।। वेत्रकीयगृहे राजन्ब्राह्मणच्छद्मरूपिणा । विद्याबलमुपाश्रित्य न ह्यस्त्यस्यौरसं बलम् ।।३१।। हिडिम्बश्च सखा मह्यं दयितो वनगोचरः । हतो दुरात्मनानेन स्वसा चास्य हृता पुरा ।।३२।। सोऽयमभ्यागतो मूढो ममेदं गहनं वनम् । प्रचारसमयेऽस्माकमर्धरात्रे समास्थिते ।।३३।। अद्यास्य यातयिष्यामि तद्वैरं चिरसम्भृतम् । तर्पयिष्यामि च बकं रुधिरेणास्य भूरिणा ।।३४।। अद्याहमनृणो भूत्वा भ्रातुः सख्युस्तथैव च । शान्तिं लब्धास्मि परमां हत्व राक्षसकण्टकम् ।।३५।। यदि तेन पुरा मुक्तो भीमसेनो बकेन वै । अद्यैनं भक्षयिष्यामि पश्यतस्ते युधिष्ठिर ।।३६।। एनं हि विपुलप्राणमद्य हत्वा वृकोदरम् । सम्भक्ष्य जरयिष्यामि यथागस्त्यो महासुरम् ।।३७।। एवमुक्तस्तु धर्मात्मा सत्यसन्धो युधिष्ठिरः । नैतदस्तीति सक्रोधो भर्त्सयामास राक्षसम् ।।३८।। ततो भीमो महाबाहुरारुज्य तरसा द्रुम । दशव्याममिवोद्विद्धं निष्पत्रमकरोत्तदा ।।३९।। चकार सज्यं गाण्डीवं वज्रनिष्पेषगौरवम् । निमेषान्तरमात्रेण तथैव विजयोऽर्जुनः ।।४०।। निवार्य भीमो जिष्णुं तु तद्रक्षो घोरदर्शनम् । अभिद्रुत्याब्रवीद्वाक्यं तिष्ठ तिष्ठेति भारत ।।४१।। इत्युक्त्वैनमभिक्रुद्धः कक्ष्यामुत्पीड्य पाण्डवः । निष्पिष्य पाणिना पाणिं संदष्टोष्ठपुटो बली ।।४२।। तमभ्यधावद्वेगेन भीमो वृक्षायुधस्तदा ।।४२।। यमदण्डप्रतीकाशं ततस्तं तस्य मूर्धनि । पातयामास वेगेन कुलिशं मघवानिव ।।४३।। असम्भ्रान्तं तु तद्रक्षः समरे प्रत्यदृश्यत । चिक्षेप चोल्मुकं दीप्तमशनिं ज्वलितामिव ।।४४।। तदुदस्तमलातं तु भीमः प्रहरतां वरः । पदा सव्येन चिक्षेप तद्रक्षः पुनराव्रजत् ।।४५।। किर्मीरश्चापि सहसा वृक्षमुत्पाट्य पाण्डवम् । दण्डपाणिरिव क्रुद्धः समरे प्रत्ययुध्यत ।।४६।। तद्वृक्षयुद्धमभवन्महीरुहविनाशनम् । वालिसुग्रीवयोर्भ्रात्रोर्यथा श्रीकाङ्क्षिणोः पुरा ।।४७।। शीर्षयोः पतिता वृक्षा बिभिदुर्नैकधा तयोः । यथैवोत्पलपद्मानि मत्तयोर्द्विपयोस्तथा ।।४८।। मुञ्जवज्जर्जरीभूता बहवस्तत्र पादपाः । चीराणीव व्युदस्तानि रेजुस्तत्र महावने ।।४९।। तद्वृक्षयुद्धमभवत्सुमुहूर्तं विशां पते । राक्षसानां च मुख्यस्य नराणामुत्तमस्य च ।।५०।। ततः शिलां समुत्क्षिप्य भीमस्य युधि तिष्ठतः । प्राहिणोद्राक्षसः क्रुद्धो भीमसेनश्चचाल ह ।।५१।। तं शिलाताडनजडं पर्यधावत्स राक्षसः । बाहुविक्षिप्तकिरणः स्वर्भानुरिव भास्करम् ।।५२।। तावन्योन्यं समाश्लिष्य प्रकर्षन्तौ परस्परम् । उभावपि चकाशेते प्रयुद्धौ वृषभाविव ।।५३।। तयोरासीत्सुतुमुलः सम्प्रहारः सुदारुणः । नखदंष्ट्रायुधवतोर्व्याघ्रयोरिव दृप्तयोः ।।५४।। दुर्योधननिकाराच्च बाहुवीर्याच्च दर्पितः । कृष्णानयनदृष्टश्च व्यवर्धत वृकोदरः ।।५५।। अभिपत्याथ बाहुभ्यां प्रत्यगृह्णादमर्षितः । मातङ्ग इव मातङ्गं प्रभिन्नकरटामुखः ।।५६।। तं चाप्याथ ततो रक्षः प्रतिजग्राह वीर्यवान् । तमाक्षिपद्भीमसेनो बलेन बलिनां वरः ।।५७।। तयोर्भुजविनिष्पेषादुभयोर्बलिनोस्तदा । शब्दः समभवद्घोरो वेणुस्फोटसमो युधि ।।५८।। अथैनमाक्षिप्य बलाद्गृह्य मध्ये वृकोदरः । धूनयामास वेगेन वायुश्चण्ड इव द्रुमम् ।।५९।। स भीमेन परामृष्टो दुर्बलो बलिना रणे । व्यस्पन्दत यथाप्राणं विचकर्ष च पाण्डवम् ।।६०।। तत एनं परिश्रान्तमुपलभ्य वृकोदरः । योक्त्रयामास बाहुभ्यां पशुं रशनया यथा ।।६१।। विनदन्तं महानादं भिन्नभेरीसमस्वनम् । भ्रामयामास सुचिरं विस्फुरन्तमचेतसम् ।।६२।। तं विषीदन्तमाज्ञाय राक्षसं पाण्डुनन्दनः । प्रगृह्य तरसा दोर्भ्यां पशुमारममारयत् ।।६३।। आक्रम्य स कटीदेशे जानुना राक्षसाधमम् । अपीडयत बाहुभ्यां कण्ठं तस्य वृकोदरः ।।६४।। अथ तं जडसर्वाङ्गं व्यावृत्तनयनोल्बणम् । भूतले पातयामास वाक्यं चेदमुवाच ह ।।६५।। हिडिम्बबकयोः पाप न त्वमश्रुप्रमार्जनम् । करिष्यसि गतश्चासि यमस्य सदनं प्रति ।।६६।। इत्येवमुक्त्वा पुरुषप्रवीर; स्तं राक्षसं क्रोधविवृत्तनेत्रः । प्रस्रस्तवस्त्राभरणं स्फुरन्त; मुद्भ्रान्तचित्तं व्यसुमुत्ससर्ज ।।६७।। तस्मिन्हते तोयदतुल्यरूपे; कृष्णां पुरस्कृत्य नरेन्द्रपुत्राः । भीमं प्रशस्याथ गुणैरनेकै; र्हृष्टास्ततो द्वैतवनाय जग्मुः ।।६८।। एवं विनिहतः सङ्ख्ये किर्मीरो मनुजाधिप । भीमेन वचनात्तस्य धर्मराजस्य कौरव ।।६९।। ततो निष्कण्टकं कृत्वा वनं तदपराजितः । द्रौपद्या सह धर्मज्ञो वसतिं तामुवास ह ।।७०।। समाश्वास्य च ते सर्वे द्रौपदीं भरतर्षभाः । प्रहृष्टमनसः प्रीत्या प्रशशंसुर्वृकोदरम् ।।७१।। भीमबाहुबलोत्पिष्टे विनष्टे राक्षसे ततः । विविशुस्तद्वनं वीराः क्षेमं निहतकण्टकम् ।।७२।। स मया गच्छता मार्गे विनिकीर्णो भयावहः । वने महति दुष्टात्मा दृष्टो भीमबलाद्धतः ।।७३।। तत्राश्रौषमहं चैतत्कर्म भीमस्य भारत । ब्राह्मणानां कथयतां ये तत्रासन्समागताः ।।७४।। वैशम्पायन उवाच।। एवं विनिहतं सङ्ख्ये किर्मीरं राक्षसोत्तमम् । श्रुत्वा ध्यानपरो राजा निशश्वासार्तवत्तदा ।।७५।। 3.11.75 धृतराष्ट्र उवाच। किर्मीरस्य वधं क्षत्तः श्रोतुमिच्छामि कथ्यताम्। रक्षसा भीमसेनस्य कथमासीत्समागमः ।।

    maitreyacoditena vidureṇa dhṛtarāṣṭrāya bhīmakṛtakirmīravadhaprakārakathanam || dhṛtarāṣṭra uvāca|| kirmīrasya vadhaṃ kṣattaḥ śrotumicchāmi kathyatām | rakṣasā bhīmasenasya kathamāsītsamāgamaḥ ||1|| vidura uvāca|| śṛṇu bhīmasya karmedamatimānuṣakarmaṇaḥ | śrutapūrvaṃ mayā teṣāṃ kathānteṣu punaḥ punaḥ ||2|| itaḥ prayātā rājendra pāṇḍavā dyūtanirjitāḥ | jagmustribhirahorātraiḥ kāmyakaṃ nāma tadvanam ||3|| rātrau niśīthe svābhīle gate'rdhasamaye nṛpa | pracāre puruṣādānāṃ rakṣasāṃ bhīmakarmaṇām ||4|| tadvanaṃ tāpasā nityaṃ śeṣāśca vanacāriṇaḥ | dūrātpariharanti sma puruṣādabhayātkila ||5|| teṣāṃ praviśatāṃ tatra mārgamāvṛtya bhārata | dīptākṣaṃ bhīṣaṇaṃ rakṣaḥ solmukaṃ pratyadṛśyata ||6|| bāhū mahāntau kṛtvā tu tathāsyaṃ ca bhayānakam | sthitamāvṛtya panthānaṃ yena yānti kurūdvahāḥ ||7|| daṣṭoṣṭhadaṃṣṭraṃ tāmrākṣaṃ pradīptordhvaśiroruham | sārkaraśmitaḍiccakraṃ sabalākamivāmbudam ||8|| sṛjantaṃ rākṣasīṃ māyāṃ mahārāvavirāviṇam | muñcantaṃ vipulaṃ nādaṃ satoyamiva toyadam ||9|| tasya nādena santrastāḥ pakṣiṇaḥ sarvatodiśam | vimuktanādāḥ sampetuḥ sthalajā jalajaiḥ saha ||10|| sampradrutamṛgadvīpimahiṣarkṣasamākulam | tadvanaṃ tasya nādena samprasthitamivābhavat ||11|| tasyoruvātābhihatā tāmrapallavabāhavaḥ | vidūrajātāśca latāḥ samāśliṣyanta pādapān ||12|| tasminkṣaṇe'tha pravavau māruto bhṛśadāruṇaḥ | rajasā saṃvṛtaṃ tena naṣṭarṣkamabhavannabhaḥ ||13|| pañcānāṃ pāṇḍuputrāṇāmavijñāto mahāripuḥ | pañcānāmindriyāṇāṃ tu śokavega ivātulaḥ ||14|| sa dṛṣṭvā pāṇḍavāndūrātkṛṣṇājinasamāvṛtān | āvṛṇottadvanadvāraṃ maināka iva parvataḥ ||15|| taṃ samāsādya vitrastā kṛṣṇā kamalalocanā | adṛṣṭapūrvaṃ santrāsānnyamīlayata locane ||16|| duḥśāsanakarotsṛṣṭaviprakīrṇaśiroruhā | pañcaparvatamadhyasthā nadīvākulatāṃ gatā ||17|| momuhyamānāṃ tāṃ tatra jagṛhuḥ pañca pāṇḍavāḥ | indriyāṇi prasaktāni viṣayeṣu yathā ratim ||18|| atha tāṃ rākṣasīṃ māyāmutthitāṃ ghoradarśanām | rakṣoghnairvividhairmantrairdhaumyaḥ samyakprayojitaiḥ ||19|| paśyatāṃ pāṇḍuputrāṇāṃ nāśayāmāsa vīryavān ||19|| sa naṣṭamāyo'tibalaḥ krodhavisphāritekṣaṇaḥ | kāmamūrtidharaḥ kṣudraḥ kālakalpo vyadṛśyata ||20|| tamuvāca tato rājā dīrghaprajño yudhiṣṭhiraḥ | ko bhavānkasya vā kiṃ te kriyatāṃ kāryamucyatām ||21|| pratyuvācātha tadrakṣo dharmarājaṃ yudhiṣṭhiram | ahaṃ bakasya vai bhrātā kirmīra iti viśrutaḥ ||22|| vane'sminkāmyake śūnye nivasāmi gatajvaraḥ | yudhi nirjitya puruṣānāhāraṃ nityamācaran ||23|| ke yūyamiha samprāptā bhakṣyabhūtā mamāntikam | yudhi nirjitya vaḥ sarvānbhakṣayiṣye gatajvaraḥ ||24|| yudhiṣṭhirastu tacchrutvā vacastasya durātmanaḥ | ācacakṣe tataḥ sarvaṃ gotranāmādi bhārata ||25|| pāṇḍavo dharmarājo'haṃ yadi te śrotramāgataḥ | sahito bhrātṛbhiḥ sarvairbhīmasenārjunādibhiḥ ||26|| hṛtarājyo vane vāsaṃ vastuṃ kṛtamatistataḥ | vanamabhyāgato ghoramidaṃ tava parigraham ||27|| kirmīrastvabravīdenaṃ diṣṭyā devairidaṃ mama | upapāditamadyeha cirakālānmanogatam ||28|| bhīmasenavadhārthaṃ hi nityamabhyudyatāyudhaḥ | carāmi pṛthivīṃ kṛtsnāṃ nainamāsādayāmyaham ||29|| so'yamāsādito diṣṭyā bhrātṛhā kāṅkṣitaściram | anena hi mama bhrātā bako vinihataḥ priyaḥ ||30|| vetrakīyagṛhe rājanbrāhmaṇacchadmarūpiṇā | vidyābalamupāśritya na hyastyasyaurasaṃ balam ||31|| hiḍimbaśca sakhā mahyaṃ dayito vanagocaraḥ | hato durātmanānena svasā cāsya hṛtā purā ||32|| so'yamabhyāgato mūḍho mamedaṃ gahanaṃ vanam | pracārasamaye'smākamardharātre samāsthite ||33|| adyāsya yātayiṣyāmi tadvairaṃ cirasambhṛtam | tarpayiṣyāmi ca bakaṃ rudhireṇāsya bhūriṇā ||34|| adyāhamanṛṇo bhūtvā bhrātuḥ sakhyustathaiva ca | śāntiṃ labdhāsmi paramāṃ hatva rākṣasakaṇṭakam ||35|| yadi tena purā mukto bhīmaseno bakena vai | adyainaṃ bhakṣayiṣyāmi paśyataste yudhiṣṭhira ||36|| enaṃ hi vipulaprāṇamadya hatvā vṛkodaram | sambhakṣya jarayiṣyāmi yathāgastyo mahāsuram ||37|| evamuktastu dharmātmā satyasandho yudhiṣṭhiraḥ | naitadastīti sakrodho bhartsayāmāsa rākṣasam ||38|| tato bhīmo mahābāhurārujya tarasā druma | daśavyāmamivodviddhaṃ niṣpatramakarottadā ||39|| cakāra sajyaṃ gāṇḍīvaṃ vajraniṣpeṣagauravam | nimeṣāntaramātreṇa tathaiva vijayo'rjunaḥ ||40|| nivārya bhīmo jiṣṇuṃ tu tadrakṣo ghoradarśanam | abhidrutyābravīdvākyaṃ tiṣṭha tiṣṭheti bhārata ||41|| ityuktvainamabhikruddhaḥ kakṣyāmutpīḍya pāṇḍavaḥ | niṣpiṣya pāṇinā pāṇiṃ saṃdaṣṭoṣṭhapuṭo balī ||42|| tamabhyadhāvadvegena bhīmo vṛkṣāyudhastadā ||42|| yamadaṇḍapratīkāśaṃ tatastaṃ tasya mūrdhani | pātayāmāsa vegena kuliśaṃ maghavāniva ||43|| asambhrāntaṃ tu tadrakṣaḥ samare pratyadṛśyata | cikṣepa colmukaṃ dīptamaśaniṃ jvalitāmiva ||44|| tadudastamalātaṃ tu bhīmaḥ praharatāṃ varaḥ | padā savyena cikṣepa tadrakṣaḥ punarāvrajat ||45|| kirmīraścāpi sahasā vṛkṣamutpāṭya pāṇḍavam | daṇḍapāṇiriva kruddhaḥ samare pratyayudhyata ||46|| tadvṛkṣayuddhamabhavanmahīruhavināśanam | vālisugrīvayorbhrātroryathā śrīkāṅkṣiṇoḥ purā ||47|| śīrṣayoḥ patitā vṛkṣā bibhidurnaikadhā tayoḥ | yathaivotpalapadmāni mattayordvipayostathā ||48|| muñjavajjarjarībhūtā bahavastatra pādapāḥ | cīrāṇīva vyudastāni rejustatra mahāvane ||49|| tadvṛkṣayuddhamabhavatsumuhūrtaṃ viśāṃ pate | rākṣasānāṃ ca mukhyasya narāṇāmuttamasya ca ||50|| tataḥ śilāṃ samutkṣipya bhīmasya yudhi tiṣṭhataḥ | prāhiṇodrākṣasaḥ kruddho bhīmasenaścacāla ha ||51|| taṃ śilātāḍanajaḍaṃ paryadhāvatsa rākṣasaḥ | bāhuvikṣiptakiraṇaḥ svarbhānuriva bhāskaram ||52|| tāvanyonyaṃ samāśliṣya prakarṣantau parasparam | ubhāvapi cakāśete prayuddhau vṛṣabhāviva ||53|| tayorāsītsutumulaḥ samprahāraḥ sudāruṇaḥ | nakhadaṃṣṭrāyudhavatorvyāghrayoriva dṛptayoḥ ||54|| duryodhananikārācca bāhuvīryācca darpitaḥ | kṛṣṇānayanadṛṣṭaśca vyavardhata vṛkodaraḥ ||55|| abhipatyātha bāhubhyāṃ pratyagṛhṇādamarṣitaḥ | mātaṅga iva mātaṅgaṃ prabhinnakaraṭāmukhaḥ ||56|| taṃ cāpyātha tato rakṣaḥ pratijagrāha vīryavān | tamākṣipadbhīmaseno balena balināṃ varaḥ ||57|| tayorbhujaviniṣpeṣādubhayorbalinostadā | śabdaḥ samabhavadghoro veṇusphoṭasamo yudhi ||58|| athainamākṣipya balādgṛhya madhye vṛkodaraḥ | dhūnayāmāsa vegena vāyuścaṇḍa iva drumam ||59|| sa bhīmena parāmṛṣṭo durbalo balinā raṇe | vyaspandata yathāprāṇaṃ vicakarṣa ca pāṇḍavam ||60|| tata enaṃ pariśrāntamupalabhya vṛkodaraḥ | yoktrayāmāsa bāhubhyāṃ paśuṃ raśanayā yathā ||61|| vinadantaṃ mahānādaṃ bhinnabherīsamasvanam | bhrāmayāmāsa suciraṃ visphurantamacetasam ||62|| taṃ viṣīdantamājñāya rākṣasaṃ pāṇḍunandanaḥ | pragṛhya tarasā dorbhyāṃ paśumāramamārayat ||63|| ākramya sa kaṭīdeśe jānunā rākṣasādhamam | apīḍayata bāhubhyāṃ kaṇṭhaṃ tasya vṛkodaraḥ ||64|| atha taṃ jaḍasarvāṅgaṃ vyāvṛttanayanolbaṇam | bhūtale pātayāmāsa vākyaṃ cedamuvāca ha ||65|| hiḍimbabakayoḥ pāpa na tvamaśrupramārjanam | kariṣyasi gataścāsi yamasya sadanaṃ prati ||66|| ityevamuktvā puruṣapravīra; staṃ rākṣasaṃ krodhavivṛttanetraḥ | prasrastavastrābharaṇaṃ sphuranta; mudbhrāntacittaṃ vyasumutsasarja ||67|| tasminhate toyadatulyarūpe; kṛṣṇāṃ puraskṛtya narendraputrāḥ | bhīmaṃ praśasyātha guṇairanekai; rhṛṣṭāstato dvaitavanāya jagmuḥ ||68|| evaṃ vinihataḥ saṅkhye kirmīro manujādhipa | bhīmena vacanāttasya dharmarājasya kaurava ||69|| tato niṣkaṇṭakaṃ kṛtvā vanaṃ tadaparājitaḥ | draupadyā saha dharmajño vasatiṃ tāmuvāsa ha ||70|| samāśvāsya ca te sarve draupadīṃ bharatarṣabhāḥ | prahṛṣṭamanasaḥ prītyā praśaśaṃsurvṛkodaram ||71|| bhīmabāhubalotpiṣṭe vinaṣṭe rākṣase tataḥ | viviśustadvanaṃ vīrāḥ kṣemaṃ nihatakaṇṭakam ||72|| sa mayā gacchatā mārge vinikīrṇo bhayāvahaḥ | vane mahati duṣṭātmā dṛṣṭo bhīmabalāddhataḥ ||73|| tatrāśrauṣamahaṃ caitatkarma bhīmasya bhārata | brāhmaṇānāṃ kathayatāṃ ye tatrāsansamāgatāḥ ||74|| vaiśampāyana uvāca|| evaṃ vinihataṃ saṅkhye kirmīraṃ rākṣasottamam | śrutvā dhyānaparo rājā niśaśvāsārtavattadā ||75|| 3.11.75 dhṛtarāṣṭra uvāca| kirmīrasya vadhaṃ kṣattaḥ śrotumicchāmi kathyatām| rakṣasā bhīmasenasya kathamāsītsamāgamaḥ ||

  2. Verse 2

    विदुर उवाच। शृणु भीमस्य कर्मेदमतिमानषकर्मणः। श्रुतपूर्वं मया तेषां कथान्तेषु पुनः पुनः ।।

    vidura uvāca| śṛṇu bhīmasya karmedamatimānaṣakarmaṇaḥ| śrutapūrvaṃ mayā teṣāṃ kathānteṣu punaḥ punaḥ ||

  3. Verse 3

    इतः प्रयाता राजेन्द्र पाण्डवा द्यूतनिर्जिताः। जग्मुस्त्रिभिरहोरात्रैः काम्यकं नाम तद्वनम् ।।

    itaḥ prayātā rājendra pāṇḍavā dyūtanirjitāḥ| jagmustribhirahorātraiḥ kāmyakaṃ nāma tadvanam ||

  4. Verse 4

    रात्रौ निशीथे त्वाभीले गतेऽर्धसमये नृप। प्रचारे पुरुषादानां रक्षसां घोरकर्मणाम् ।।

    rātrau niśīthe tvābhīle gate'rdhasamaye nṛpa| pracāre puruṣādānāṃ rakṣasāṃ ghorakarmaṇām ||

  5. Verse 5

    तद्वनं तापसा नित्यमशेषा वनचारिणः। दूरात्परिहरन्ति स्म पुरुषादभयात्किल ।।

    tadvanaṃ tāpasā nityamaśeṣā vanacāriṇaḥ| dūrātpariharanti sma puruṣādabhayātkila ||

  6. Verse 6

    तेषां प्रविशतां तत्र मार्गमावृत्य भारत। दीप्ताक्षं भीषणं रक्षः मोल्मुकं प्रत्यपद्यत ।।

    teṣāṃ praviśatāṃ tatra mārgamāvṛtya bhārata| dīptākṣaṃ bhīṣaṇaṃ rakṣaḥ molmukaṃ pratyapadyata ||

  7. Verse 7

    बाहू महान्तौ कृत्वा च तथास्यं च भयानकम्। स्थितमावृत्यपन्थानं येन यान्ति कुरूद्वहाः ।।

    bāhū mahāntau kṛtvā ca tathāsyaṃ ca bhayānakam| sthitamāvṛtyapanthānaṃ yena yānti kurūdvahāḥ ||

  8. Verse 8

    दष्टोष्ठदंष्ट्रं ताम्राक्षं प्रदीप्तोर्ध्वशिरोरुहम्। सार्करश्मितडिच्चक्रं सबलाकमिवाम्बुदम् ।।

    daṣṭoṣṭhadaṃṣṭraṃ tāmrākṣaṃ pradīptordhvaśiroruham| sārkaraśmitaḍiccakraṃ sabalākamivāmbudam ||

  9. Verse 9

    सृजन्तं राक्षसीं मायां महानादनिनादितम्। मुञ्चन्तं विपुलान्नादान्सतोयमिव तोयदम् ।। आभिले भयंकरे। अर्द्धसमयेऽर्द्धज्ञाने गतेसति। लोके तन्द्रावति सतीत्यर्थः ।।

    sṛjantaṃ rākṣasīṃ māyāṃ mahānādanināditam| muñcantaṃ vipulānnādānsatoyamiva toyadam || ābhile bhayaṃkare| arddhasamaye'rddhajñāne gatesati| loke tandrāvati satītyarthaḥ ||

  10. Verse 10

    तस्य नादेन संत्रस्ताः पक्षिणः सर्वतोदिशम्। विमुक्तनादाः संपेतुः स्थलजा जलजैः सह ।।

    tasya nādena saṃtrastāḥ pakṣiṇaḥ sarvatodiśam| vimuktanādāḥ saṃpetuḥ sthalajā jalajaiḥ saha ||

  11. Verse 11

    संप्रद्रुतमृगद्वीपिमहिषर्क्षसमाकुलम्। तद्वनं तस्य नादेन संप्रस्थितमिवाभवत् ।।

    saṃpradrutamṛgadvīpimahiṣarkṣasamākulam| tadvanaṃ tasya nādena saṃprasthitamivābhavat ||

  12. Verse 12

    तस्योरुवाताभिहतास्ताम्रपल्लवबाहवः। विदूरजाताश्च लताः समाश्लिष्यन्ति पादपान् ।।

    tasyoruvātābhihatāstāmrapallavabāhavaḥ| vidūrajātāśca latāḥ samāśliṣyanti pādapān ||

  13. Verse 13

    तस्मिन्क्षणेऽथ प्रववौ मारुतो भृशदारुणः। रजसा संवृतं तेन नष्टर्क्षमभवन्नभः ।।

    tasminkṣaṇe'tha pravavau māruto bhṛśadāruṇaḥ| rajasā saṃvṛtaṃ tena naṣṭarkṣamabhavannabhaḥ ||

  14. Verse 14

    पञ्चानां पाण्डुपुत्राणामविज्ञातो महारिपुः। पञ्चानामिन्द्रियाणां तु शोकावेश इवातुलः ।।

    pañcānāṃ pāṇḍuputrāṇāmavijñāto mahāripuḥ| pañcānāmindriyāṇāṃ tu śokāveśa ivātulaḥ ||

  15. Verse 15

    स दृष्ट्वा पाण्डवान्दूरात्कृष्णाजिनसमावृतान्। आवृणोत्तद्वनद्वारं मैनाक इव पर्वतः ।।

    sa dṛṣṭvā pāṇḍavāndūrātkṛṣṇājinasamāvṛtān| āvṛṇottadvanadvāraṃ maināka iva parvataḥ ||

  16. Verse 16

    तं समासाद्य वित्रस्ता कृष्णा कमललोचना। अदृष्टपूर्वं संत्रासान्न्यमीलयत लोचने ।।

    taṃ samāsādya vitrastā kṛṣṇā kamalalocanā| adṛṣṭapūrvaṃ saṃtrāsānnyamīlayata locane ||

  17. Verse 17

    दुःशासनकरोत्सृष्टविप्रकीर्णशिरोरुहा। पञ्चपर्वतमध्यस्था नदीवाकुलतां गता ।।

    duḥśāsanakarotsṛṣṭaviprakīrṇaśiroruhā| pañcaparvatamadhyasthā nadīvākulatāṃ gatā ||

  18. Verse 18

    विमुह्यमानां तां तत्र जगृहुः पञ्च पाण्डवाः। इन्द्रियाणि प्रसक्तानि विषयेषु यथारतिम् ।।

    vimuhyamānāṃ tāṃ tatra jagṛhuḥ pañca pāṇḍavāḥ| indriyāṇi prasaktāni viṣayeṣu yathāratim ||

  19. Verse 19

    अथ तां राक्षसीं मायामुत्थितां घोरदर्शनाम्। रक्षोघ्नैर्विविधैर्मन्त्रैर्धौम्यः सम्यक्प्रयोजितैः ।।

    atha tāṃ rākṣasīṃ māyāmutthitāṃ ghoradarśanām| rakṣoghnairvividhairmantrairdhaumyaḥ samyakprayojitaiḥ ||

  20. Verse 20

    पश्यतां पाण्डुपुत्राणां नाशयामास वीर्यवान्। स नष्टमायोऽतिबलः क्रोधविस्फारितेक्षणः ।।

    paśyatāṃ pāṇḍuputrāṇāṃ nāśayāmāsa vīryavān| sa naṣṭamāyo'tibalaḥ krodhavisphāritekṣaṇaḥ ||

  21. Verse 21

    काममूर्तिधरः क्रूरः कालकल्पो व्यदृश्यत। तमुवाच ततो राजा दीर्घप्रज्ञो युधिष्ठिरः ।।

    kāmamūrtidharaḥ krūraḥ kālakalpo vyadṛśyata| tamuvāca tato rājā dīrghaprajño yudhiṣṭhiraḥ ||

  22. Verse 22

    को भवान्कस्य वा किं ते क्रियतां कार्यमुच्यताम्। प्रत्युवाचाथ तद्रक्षो धर्मराजं युधिष्ठिरम् ।।

    ko bhavānkasya vā kiṃ te kriyatāṃ kāryamucyatām| pratyuvācātha tadrakṣo dharmarājaṃ yudhiṣṭhiram ||

  23. Verse 23

    अहं वकस्य वै भ्राता किर्मीर इति विश्रुतः। वनेऽस्मिन्काम्यके शून्ये निवसामि गतज्वरः ।।

    ahaṃ vakasya vai bhrātā kirmīra iti viśrutaḥ| vane'sminkāmyake śūnye nivasāmi gatajvaraḥ ||

  24. Verse 24

    युधि निर्जित्य पुरुषानाहारं नित्यमाचरन्। के यूयमभिसंप्राप्ता भक्ष्यभूता ममान्तिकम्। युधि निर्जित्यवः सर्वान्भक्षयिष्ये गतज्वरः ।।

    yudhi nirjitya puruṣānāhāraṃ nityamācaran| ke yūyamabhisaṃprāptā bhakṣyabhūtā mamāntikam| yudhi nirjityavaḥ sarvānbhakṣayiṣye gatajvaraḥ ||

  25. Verse 25

    विदुर उवाच। युधिष्ठिरस्तु तच्छ्रुत्वा वचस्तस्य दुरात्मनः। आचचक्षे ततः सर्वं गोत्रनामादि भारत ।।

    vidura uvāca| yudhiṣṭhirastu tacchrutvā vacastasya durātmanaḥ| ācacakṣe tataḥ sarvaṃ gotranāmādi bhārata ||

  26. Verse 26

    पाण्डवो धर्मराजोऽहं यदि ते श्रोत्रमागतः। सहितो भ्रातृभिः सर्वैर्भीमसेनार्जुनादिभिः ।।

    pāṇḍavo dharmarājo'haṃ yadi te śrotramāgataḥ| sahito bhrātṛbhiḥ sarvairbhīmasenārjunādibhiḥ ||

  27. Verse 27

    हृतराज्यो वने वासं वस्तुं कृतमतिस्ततः। वनमभ्यागतो घोरमिदं तव परिग्रहम् ।।

    hṛtarājyo vane vāsaṃ vastuṃ kṛtamatistataḥ| vanamabhyāgato ghoramidaṃ tava parigraham ||

  28. Verse 28

    विस्मयं परमं गत्वा राक्षसो घोरदर्शनः। किर्मीरस्त्वब्रवीदेनं दिष्ट्या देवैरिदं मम। उपपादितमद्येह चिरकालान्मनोरथम् ।।

    vismayaṃ paramaṃ gatvā rākṣaso ghoradarśanaḥ| kirmīrastvabravīdenaṃ diṣṭyā devairidaṃ mama| upapāditamadyeha cirakālānmanoratham ||

  29. Verse 29

    भीमसेनवधार्थं हि नित्यमभ्युद्यतायुधः। चरामि पृथिवीं कृत्स्नां नैनं चासादयाम्यहम् ।।

    bhīmasenavadhārthaṃ hi nityamabhyudyatāyudhaḥ| carāmi pṛthivīṃ kṛtsnāṃ nainaṃ cāsādayāmyaham ||

  30. Verse 30

    सोयमासादितो दिष्ट्या भ्रातृहा काङ्क्षितश्चिरम्। अनेन हि मम भ्राता बको विनिहतः प्रियः ।।

    soyamāsādito diṣṭyā bhrātṛhā kāṅkṣitaściram| anena hi mama bhrātā bako vinihataḥ priyaḥ ||

  31. Verse 31

    वैत्रकीयवने राजन्ब्राह्मणच्छद्मरूपिणा। विद्याबलमुपाश्रित्य न ह्मस्त्यस्यौरसं बलम् ।। भयानके इतिविश्वः ।।

    vaitrakīyavane rājanbrāhmaṇacchadmarūpiṇā| vidyābalamupāśritya na hmastyasyaurasaṃ balam || bhayānake itiviśvaḥ ||

  32. Verse 32

    हिडिम्बश्च सखा मह्मं दयितो वनगोचरः। हतो दुरात्मनाऽनेन स्वसा चास्य हृता पुरा ।। दैत्रकीयवने एकचक्रायाम् ।।

    hiḍimbaśca sakhā mahmaṃ dayito vanagocaraḥ| hato durātmanā'nena svasā cāsya hṛtā purā || daitrakīyavane ekacakrāyām ||

  33. Verse 33

    सोयमभ्यागतो मूढो ममेदं गहनं वनम्। प्रचारसमयेऽस्माकमर्द्धरात्रे स्थिते समे ।।

    soyamabhyāgato mūḍho mamedaṃ gahanaṃ vanam| pracārasamaye'smākamarddharātre sthite same ||

  34. Verse 34

    अद्यास्य यातयिष्यामि तद्वैरं चिरसंभृतम्। तर्पयिष्यामि च बकं रुधिरेणास्य भूरिणा ।।

    adyāsya yātayiṣyāmi tadvairaṃ cirasaṃbhṛtam| tarpayiṣyāmi ca bakaṃ rudhireṇāsya bhūriṇā ||

  35. Verse 35

    अद्याहमनृणो भूत्वा भ्रातुः सख्युस्तथैव च। शान्तिं लब्धास्मि परमां हत्वा राक्षसकण्टकम् ।। महां मम ।।

    adyāhamanṛṇo bhūtvā bhrātuḥ sakhyustathaiva ca| śāntiṃ labdhāsmi paramāṃ hatvā rākṣasakaṇṭakam || mahāṃ mama ||

  36. Verse 36

    यदि तेन पुरा मुक्तो भीमसेनो बकेन वै। अद्यैनं भक्षयिष्यामि पश्यतस्ते युधिष्ठिर ।।

    yadi tena purā mukto bhīmaseno bakena vai| adyainaṃ bhakṣayiṣyāmi paśyataste yudhiṣṭhira ||

  37. Verse 37

    एनं हि विपुलप्राणमद्य हत्वा वृकोदरम्। संभक्ष्य जरयिष्यामि यथाऽगस्त्यो महासुरम् ।। लब्धास्मि लप्स्यामि ।।

    enaṃ hi vipulaprāṇamadya hatvā vṛkodaram| saṃbhakṣya jarayiṣyāmi yathā'gastyo mahāsuram || labdhāsmi lapsyāmi ||

  38. Verse 38

    एवमुक्तस्तु धर्मात्मा सत्यसन्धो युधिष्ठिरः। नैतदस्तीति सक्रोधो भर्त्सयामास राक्षसम् ।।

    evamuktastu dharmātmā satyasandho yudhiṣṭhiraḥ| naitadastīti sakrodho bhartsayāmāsa rākṣasam ||

  39. Verse 39

    ततो भीमो महाबाहुरारुज्यतरसा द्रुमम्। दशव्याममथोद्विद्धं निष्पत्रमकरोत्तदा ।। महासुरं वातापिम् ।।

    tato bhīmo mahābāhurārujyatarasā drumam| daśavyāmamathodviddhaṃ niṣpatramakarottadā || mahāsuraṃ vātāpim ||

  40. Verse 40

    चकार सज्यं गाण्डीवं वज्रनिष्पेषगौरवम्। निमेषान्तरमात्रेण तथैव विजयोऽर्जुनः ।। आरुज्यभङ्त्वा। दशव्यामं विस्तारितयोः करयोस्तिर्यगन्तरम्। उद्विद्धं उत्पाटितम् ।।

    cakāra sajyaṃ gāṇḍīvaṃ vajraniṣpeṣagauravam| nimeṣāntaramātreṇa tathaiva vijayo'rjunaḥ || ārujyabhaṅtvā| daśavyāmaṃ vistāritayoḥ karayostiryagantaram| udviddhaṃ utpāṭitam ||

  41. Verse 41

    निवार्य भीमो जिष्णुं तं तद्रक्षो मेघनिःस्वनम्। अभिद्रुत्याब्रवीद्वाक्यं तिष्ठतिष्ठेति भारत ।।

    nivārya bhīmo jiṣṇuṃ taṃ tadrakṣo meghaniḥsvanam| abhidrutyābravīdvākyaṃ tiṣṭhatiṣṭheti bhārata ||

  42. Verse 42

    इत्युक्त्वैनमतिक्रुद्धः कक्ष्यामुत्पीड्य पाण्डवः। निष्पिष्य पाणिना पाणिं संदष्टौष्ठपुटो बली। तमभ्यधावद्वेगेन भीमो वृक्षायुधस्तदा ।। वज्रेण निष्पेषश्चूर्णीभावो यस्य पर्वतस्य तद्वत् गौरवं गुरुत्वं यस्य तत्तथा ।

    ityuktvainamatikruddhaḥ kakṣyāmutpīḍya pāṇḍavaḥ| niṣpiṣya pāṇinā pāṇiṃ saṃdaṣṭauṣṭhapuṭo balī| tamabhyadhāvadvegena bhīmo vṛkṣāyudhastadā || vajreṇa niṣpeṣaścūrṇībhāvo yasya parvatasya tadvat gauravaṃ gurutvaṃ yasya tattathā |

  43. Verse 43

    यमदण्डप्रतीकाशं ततस्तं तस्य मूर्धनि। पातयामास वेगेन कुलिशं मघवानिव ।।

    yamadaṇḍapratīkāśaṃ tatastaṃ tasya mūrdhani| pātayāmāsa vegena kuliśaṃ maghavāniva ||

  44. Verse 44

    असंभ्रान्तं तु तद्रक्षः समरे प्रत्यदृश्यत। चिक्षेप चोल्मुकं दीप्तमशनिं ज्वलितामिव ।।

    asaṃbhrāntaṃ tu tadrakṣaḥ samare pratyadṛśyata| cikṣepa colmukaṃ dīptamaśaniṃ jvalitāmiva ||

  45. Verse 45

    तदुदस्तमलातं तु भीमः प्रहरतां वरः। पदा सव्येन चिक्षेप तद्रक्षः पुनराव्रजत् ।। कक्ष्यामुत्पीड्य परिधानवस्त्रं दृढीकृत्य ।।

    tadudastamalātaṃ tu bhīmaḥ praharatāṃ varaḥ| padā savyena cikṣepa tadrakṣaḥ punarāvrajat || kakṣyāmutpīḍya paridhānavastraṃ dṛḍhīkṛtya ||

  46. Verse 46

    किर्मीरश्चापि सहसा वृक्षमुत्पाट्य पाण्डवम्। दण्डपाणिरिव क्रुद्धः समरे प्रत्यधावत ।।

    kirmīraścāpi sahasā vṛkṣamutpāṭya pāṇḍavam| daṇḍapāṇiriva kruddhaḥ samare pratyadhāvata ||

  47. Verse 47

    तद्वृक्षयुद्धमभवन्महीरुहविनाशनम्। वालिसुग्रीवयोर्भ्रात्रोर्यथा स्त्रीकाङ्क्षिणोः पुरा ।।

    tadvṛkṣayuddhamabhavanmahīruhavināśanam| vālisugrīvayorbhrātroryathā strīkāṅkṣiṇoḥ purā ||

  48. Verse 48

    शीर्षयोः पतिता वृक्षा विभिदुर्नैकधा तयोः। यथैवोत्पलपत्राणि मत्तयोर्द्विपयोस्तथा ।।

    śīrṣayoḥ patitā vṛkṣā vibhidurnaikadhā tayoḥ| yathaivotpalapatrāṇi mattayordvipayostathā ||

  49. Verse 49

    मूर्ध्निजर्झरभूतास्तु बहवस्तत्र पादपाः। चीराणीव व्युदस्तानि रेजुस्तत्र महावने ।। उदस्तं उत्क्षिप्तम्। अलातं उल्मुकम्। रक्षः राक्षसम् ।।

    mūrdhnijarjharabhūtāstu bahavastatra pādapāḥ| cīrāṇīva vyudastāni rejustatra mahāvane || udastaṃ utkṣiptam| alātaṃ ulmukam| rakṣaḥ rākṣasam ||

  50. Verse 50

    तद्वृक्षयुद्धमभवन्महूर्तं भरतर्षभ। राक्षसानां च मुख्यस्य नराणामुत्तमस्य च ।।

    tadvṛkṣayuddhamabhavanmahūrtaṃ bharatarṣabha| rākṣasānāṃ ca mukhyasya narāṇāmuttamasya ca ||

  51. Verse 51

    ततः शिलां समुत्क्षिप्य भीमस्य युधि तिष्ठतः। प्राहिणोद्रासः क्रुद्धो भीमसेनश्चचाल ह ।।

    tataḥ śilāṃ samutkṣipya bhīmasya yudhi tiṣṭhataḥ| prāhiṇodrāsaḥ kruddho bhīmasenaścacāla ha ||

  52. Verse 52

    तं शिलाताडनजडं पर्यधावत राक्षसः। बाहुविक्षिप्तकिरणः स्वर्भानुरिव भास्करम् ।।

    taṃ śilātāḍanajaḍaṃ paryadhāvata rākṣasaḥ| bāhuvikṣiptakiraṇaḥ svarbhānuriva bhāskaram ||

  53. Verse 53

    तावन्योन्यं समाश्लिश्य प्रकर्षन्तौ परस्परम्। उभावपि चकाशेते प्रवृद्धौ वृषभाविव ।।

    tāvanyonyaṃ samāśliśya prakarṣantau parasparam| ubhāvapi cakāśete pravṛddhau vṛṣabhāviva ||

  54. Verse 54

    तयोरासीत्सुतुमुलः संप्रहारः सुदारुणः। नखदंष्ट्रायुधवतोर्व्याघ्रयोरिव दृप्तयोः ।।

    tayorāsītsutumulaḥ saṃprahāraḥ sudāruṇaḥ| nakhadaṃṣṭrāyudhavatorvyāghrayoriva dṛptayoḥ ||

  55. Verse 55

    दुर्योधननिकाराच्च बाहुवीर्याच्च दर्पितः। कृष्णानयनदृष्टश्च व्यवर्धत वृकोदरः ।। चीराणि वृक्षद ल्कलानि ।।

    duryodhananikārācca bāhuvīryācca darpitaḥ| kṛṣṇānayanadṛṣṭaśca vyavardhata vṛkodaraḥ || cīrāṇi vṛkṣada lkalāni ||

  56. Verse 56

    अभिहत्याथ बाहुभ्यां प्रत्यगृह्णादमर्षितः। मातङ्गमिव मातङ्गः प्रभिननकरटामुखम् ।। निकारात् परिभवात्। कृष्णाया आनय दृष्टं येन स तथा। द्रौपद्याकर्षणेन कुपित इत्यर्थः ।।

    abhihatyātha bāhubhyāṃ pratyagṛhṇādamarṣitaḥ| mātaṅgamiva mātaṅgaḥ prabhinanakaraṭāmukham || nikārāt paribhavāt| kṛṣṇāyā ānaya dṛṣṭaṃ yena sa tathā| draupadyākarṣaṇena kupita ityarthaḥ ||

  57. Verse 57

    स चाप्येनं ततो रक्षः प्रतिजग्राह वीर्यबान्। तमाक्षिपद्भीमसेनो बलेन बलिनां वरः ।।

    sa cāpyenaṃ tato rakṣaḥ pratijagrāha vīryabān| tamākṣipadbhīmaseno balena balināṃ varaḥ ||

  58. Verse 58

    तयोर्भुजविनिष्पेषादुभयोर्बलिनोस्तदा। शब्दः समभवद्घोरो वेणुस्फोटसमो युधि ।।

    tayorbhujaviniṣpeṣādubhayorbalinostadā| śabdaḥ samabhavadghoro veṇusphoṭasamo yudhi ||

  59. Verse 59

    अथैनमाक्षिप्य बलाद्गृद्य मध्ये वृकोदरः। धूनयामास वेगेन वायुश्चण्ड इव द्रुमम् ।।

    athainamākṣipya balādgṛdya madhye vṛkodaraḥ| dhūnayāmāsa vegena vāyuścaṇḍa iva drumam ||

  60. Verse 60

    स भीमेन परामृष्टो दुर्बलो बलिनां रणे। व्यस्पन्दत यथाप्राणं विचकर्ष च पाण्डवम् ।। प्रभिन्नकटामुखं प्रभिन्ने व्यक्तीभूते करटयोर्गण्डयोर्मुखे मदनिर्गममार्गौ यस्य तम् ।।

    sa bhīmena parāmṛṣṭo durbalo balināṃ raṇe| vyaspandata yathāprāṇaṃ vicakarṣa ca pāṇḍavam || prabhinnakaṭāmukhaṃ prabhinne vyaktībhūte karaṭayorgaṇḍayormukhe madanirgamamārgau yasya tam ||

  61. Verse 61

    तत एनं परिश्रान्तमुपलक्ष्य वृकोदरः। योक्रयामास बाहुभ्यां पशुं रशनया यथा ।। व्यस्पनदत किंचिच्चलनं कृतवान् ।।

    tata enaṃ pariśrāntamupalakṣya vṛkodaraḥ| yokrayāmāsa bāhubhyāṃ paśuṃ raśanayā yathā || vyaspanadata kiṃciccalanaṃ kṛtavān ||

  62. Verse 62

    विनदन्तं महानादं भिन्नभिरीस्वनं बली। भ्रामयामास सुचिरं विस्फुरन्तमचेतसम् ।।

    vinadantaṃ mahānādaṃ bhinnabhirīsvanaṃ balī| bhrāmayāmāsa suciraṃ visphurantamacetasam ||

  63. Verse 63

    तं विषीदन्तमाज्ञाय राक्षसं पाण्डुनन्दनः। प्रगृह्य तरसा दोर्भ्यां पशुमारममारयत् । योक्रयामास बबन्ध। रशनया पशुमिव ।।

    taṃ viṣīdantamājñāya rākṣasaṃ pāṇḍunandanaḥ| pragṛhya tarasā dorbhyāṃ paśumāramamārayat | yokrayāmāsa babandha| raśanayā paśumiva ||

  64. Verse 64

    आक्रम्य च कटीदेशे जानुना राक्षसाधमम्। पीडयामास पाणिभ्यां तस्य कण्ठंवृकोदरः ।।

    ākramya ca kaṭīdeśe jānunā rākṣasādhamam| pīḍayāmāsa pāṇibhyāṃ tasya kaṇṭhaṃvṛkodaraḥ ||

  65. Verse 65

    अथ जर्जरसर्वाङ्गं व्यावृत्तनयनोल्बणम्। भूतले भ्रामयामास वाक्यं चेदमुवाच ह ।।

    atha jarjarasarvāṅgaṃ vyāvṛttanayanolbaṇam| bhūtale bhrāmayāmāsa vākyaṃ cedamuvāca ha ||

  66. Verse 66

    हिडिम्बबकयोः पाप न त्वमश्रुप्रमार्जनम्। करिष्यसि गतश्चापि यमस्य सदनं प्रति ।।

    hiḍimbabakayoḥ pāpa na tvamaśrupramārjanam| kariṣyasi gataścāpi yamasya sadanaṃ prati ||

  67. Verse 67

    इत्येवमुक्त्वा पुरुषप्रवीर- स्तं राक्षसं क्रोधपरीतचेताः। विस्रस्तवस्त्राभरणं स्फुरन्त- मुद्धान्तचित्तं व्यसुमुत्ससर्ज ।।

    ityevamuktvā puruṣapravīra- staṃ rākṣasaṃ krodhaparītacetāḥ| visrastavastrābharaṇaṃ sphuranta- muddhāntacittaṃ vyasumutsasarja ||

  68. Verse 68

    तस्मिन्हते तोयदतुल्यरूपे कृष्णां पुरस्कृत्य नरेन्द्रपुत्राः। भीमं प्रशस्याथ गुणैरनेकै- र्हृष्टास्ततो द्वैतवनाय जग्मुः ।।

    tasminhate toyadatulyarūpe kṛṣṇāṃ puraskṛtya narendraputrāḥ| bhīmaṃ praśasyātha guṇairanekai- rhṛṣṭāstato dvaitavanāya jagmuḥ ||

  69. Verse 69

    विदुर उवाच। एवं विनिहतः सङ्ख्ये किर्मोरो मनुजाधिप। भीमेन वचनात्तस् धर्मराजस्य कौरव ।।

    vidura uvāca| evaṃ vinihataḥ saṅkhye kirmoro manujādhipa| bhīmena vacanāttas dharmarājasya kaurava ||

  70. Verse 70

    ततो निष्कष्टकं कृत्वा वनं तदयराजितः। द्रौपद्या सह धर्मज्ञो वसतिं तामुवास ह ।।

    tato niṣkaṣṭakaṃ kṛtvā vanaṃ tadayarājitaḥ| draupadyā saha dharmajño vasatiṃ tāmuvāsa ha ||

  71. Verse 71

    समाश्वास्य च ते सर्वे द्रौपदीं भरतर्षभाः। प्रहृष्टमनसः प्रीत्या प्रसशंसुर्वृकोदरम् ।।

    samāśvāsya ca te sarve draupadīṃ bharatarṣabhāḥ| prahṛṣṭamanasaḥ prītyā prasaśaṃsurvṛkodaram ||

  72. Verse 72

    भीमबाहुबलोत्पिष्टे विनष्टे राक्षसे ततः। विविशुस्ते वनं वीराः क्षेमं निहतकण्टकम् ।।

    bhīmabāhubalotpiṣṭe vinaṣṭe rākṣase tataḥ| viviśuste vanaṃ vīrāḥ kṣemaṃ nihatakaṇṭakam ||

  73. Verse 73

    स मया गच्छता मार्गे विनिकीर्णो भयावहः। वने महति दुष्टात्मा दृष्टो भीमबलाद्धतः ।।

    sa mayā gacchatā mārge vinikīrṇo bhayāvahaḥ| vane mahati duṣṭātmā dṛṣṭo bhīmabalāddhataḥ ||

  74. Verse 74

    तत्राश्रौषमहं चैतत्कर्म भीमस् भारत। ब्राह्मणानां कथयतां ये तत्रासन्समागताः ।।

    tatrāśrauṣamahaṃ caitatkarma bhīmas bhārata| brāhmaṇānāṃ kathayatāṃ ye tatrāsansamāgatāḥ ||

  75. Verse 75

    वैशंपायन उवाच। एवं विनिहतं सङ्ख्ये किर्मीरं रक्षसां वरम्। श्रुत्वा ध्यानपरो राजा निशश्वासार्तवत्तदा ।।

    vaiśaṃpāyana uvāca| evaṃ vinihataṃ saṅkhye kirmīraṃ rakṣasāṃ varam| śrutvā dhyānaparo rājā niśaśvāsārtavattadā ||