Adhyaya 352
Shanti Parva · 18 verses
18 verses · free forever
English has not yet been added to this adhyaya. You can read the Ganesha passage or Vana Parva 312–315 with English.
Uses your saved HI voice · Narration settings
Narration reads the opening of this section. Longer passages are split to keep playback responsive.
Verse 1
श्रीकृष्णेनार्जुनंप्रति हृषीकेशादिस्वनामनिर्वचनम्।। 1।। तथा रुद्गनारायणयुद्धवर्णनम्।। 2।। श्रीभगवानुवाच॥ सूर्याचन्द्रमसौ शश्वत्केशैर्मे अंशुसञ्ज्ञितैः । बोधयंस्तापयंश्चैव जगदुत्तिष्ठतः पृथक् ॥१॥(३४२.६६) बोधनात्तापनाच्चैव जगतो हर्षणं भवेत् । अग्नीषोमकृतैरेभिः कर्मभिः पाण्डुनन्दन ॥२॥ हृषीकेशोऽहमीशानो वरदो लोकभावनः ॥२॥ इडोपहूतयोगेन हरे भागं क्रतुष्वहम् । वर्णश्च मे हरिश्रेष्ठस्तस्माद्धरिरहं स्मृतः ॥३॥ धाम सारो हि लोकानामृतं चैव विचारितम् । ऋतधामा ततो विप्रैः सत्यश्चाहं प्रकीर्तितः ॥४॥ नष्टां च धरणीं पूर्वमविन्दं वै गुहागताम् । गोविन्द इति मां देवा वाग्भिः समभितुष्टुवुः ॥५॥ शिपिविष्टेति चाख्यायां हीनरोमा च यो भवेत् । तेनाविष्टं हि यत्किञ्चिच्छिपिविष्टं हि तत्स्मृतम् ॥६॥ यास्को मामृषिरव्यग्रो नैकयज्ञेषु गीतवान् । शिपिविष्ट इति ह्यस्माद्गुह्यनामधरो ह्यहम् ॥७॥ स्तुत्वा मां शिपिविष्टेति यास्को ऋषिरुदारधीः । मत्प्रसादादधो नष्टं निरुक्तमभिजग्मिवान् ॥८॥ न हि जातो न जायेऽहं न जनिष्ये कदाचन । क्षेत्रज्ञः सर्वभूतानां तस्मादहमजः स्मृतः ॥९॥ नोक्तपूर्वं मया क्षुद्रमश्लीलं वा कदाचन । ऋता ब्रह्मसुता सा मे सत्या देवी सरस्वती ॥१०॥ सच्चासच्चैव कौन्तेय मयावेशितमात्मनि । पौष्करे ब्रह्मसदने सत्यं मामृषयो विदुः ॥११॥ सत्त्वान्न च्युतपूर्वोऽहं सत्त्वं वै विद्धि मत्कृतम् । जन्मनीहाभवत्सत्त्वं पौर्विकं मे धनञ्जय ॥१२॥ निराशीःकर्मसंयुक्तं सात्वतं मां प्रकल्पय । सात्वतज्ञानदृष्टोऽहं सात्वतः सात्वतां पतिः ॥१३॥ कृषामि मेदिनीं पार्थ भूत्वा कार्ष्णायसो महान् । कृष्णो वर्णश्च मे यस्मात्तस्मात्कृष्णोऽहमर्जुन ॥१४॥ मया संश्लेषिता भूमिरद्भिर्व्योम च वायुना । वायुश्च तेजसा सार्धं वैकुण्ठत्वं ततो मम ॥१५॥ निर्वाणं परमं सौख्यं धर्मोऽसौ पर उच्यते । तस्मान्न च्युतपूर्वोऽहमच्युतस्तेन कर्मणा ॥१६॥ पृथिवीनभसी चोभे विश्रुते विश्वलौकिके । तयोः सन्धारणार्थं हि मामधोक्षजमञ्जसा ॥१७॥ निरुक्तं वेदविदुषो ये च शब्दार्थचिन्तकाः । ते मां गायन्ति प्राग्वंशे अधोक्षज इति स्थितिः ॥१८॥ शब्द एकमतैरेष व्याहृतः परमर्षिभिः । नान्यो ह्यधोक्षजो लोके ऋते नारायणं प्रभुम् ॥१९॥ घृतं ममार्चिषो लोके जन्तूनां प्राणधारणम् । घृतार्चिरहमव्यग्रैर्वेदज्ञैः परिकीर्तितः ॥२०॥ त्रयो हि धातवः ख्याताः कर्मजा इति च स्मृताः । पित्तं श्लेष्मा च वायुश्च एष सङ्घात उच्यते ॥२१॥ एतैश्च धार्यते जन्तुरेतैः क्षीणैश्च क्षीयते । आयुर्वेदविदस्तस्मात्त्रिधातुं मां प्रचक्षते ॥२२॥ वृषो हि भगवान्धर्मः ख्यातो लोकेषु भारत । नैघण्टुकपदाख्यातं विद्धि मां वृषमुत्तमम् ॥२३॥ कपिर्वराहः श्रेष्ठश्च धर्मश्च वृष उच्यते । तस्माद्वृषाकपिं प्राह कश्यपो मां प्रजापतिः ॥२४॥ न चादिं न मध्यं तथा नैव चान्तं; कदाचिद्विदन्ते सुराश्चासुराश्च । अनाद्यो ह्यमध्यस्तथा चाप्यनन्तः; प्रगीतोऽहमीशो विभुर्लोकसाक्षी ॥२५॥ शुचीनि श्रवणीयानि शृणोमीह धनञ्जय । न च पापानि गृह्णामि ततोऽहं वै शुचिश्रवाः ॥२६॥ एकशृङ्गः पुरा भूत्वा वराहो दिव्यदर्शनः । इमामुद्धृतवान्भूमिमेकशृङ्गस्ततो ह्यहम् ॥२७॥ तथैवासं त्रिककुदो वाराहं रूपमास्थितः । त्रिककुत्तेन विख्यातः शरीरस्य तु मापनात् ॥२८॥ विरिञ्च इति यः प्रोक्तः कपिलज्ञानचिन्तकैः । स प्रजापतिरेवाहं चेतनात्सर्वलोककृत् ॥२९॥ विद्यासहायवन्तं मामादित्यस्थं सनातनम् । कपिलं प्राहुराचार्याः साङ्ख्या निश्चितनिश्चयाः ॥३०॥ हिरण्यगर्भो द्युतिमानेष यश्छन्दसि स्तुतः । योगैः सम्पूज्यते नित्यं स एवाहं विभुः स्मृतः ॥३१॥ एकविंशतिशाखं च ऋग्वेदं मां प्रचक्षते । सहस्रशाखं यत्साम ये वै वेदविदो जनाः ॥३२॥ गायन्त्यारण्यके विप्रा मद्भक्तास्तेऽपि दुर्लभाः ॥३२॥ षट्पञ्चाशतमष्टौ च सप्तत्रिंशतमित्युत । यस्मिञ्शाखा यजुर्वेदे सोऽहमाध्वर्यवे स्मृतः ॥३३॥ पञ्चकल्पमथर्वाणं कृत्याभिः परिबृंहितम् । कल्पयन्ति हि मां विप्रा अथर्वाणविदस्तथा ॥३४॥ शाखाभेदाश्च ये केचिद्याश्च शाखासु गीतयः । स्वरवर्णसमुच्चाराः सर्वांस्तान्विद्धि मत्कृतान् ॥३५॥ यत्तद्धयशिरः पार्थ समुदेति वरप्रदम् । सोऽहमेवोत्तरे भागे क्रमाक्षरविभागवित् ॥३६॥ रामादेशितमार्गेण मत्प्रसादान्महात्मना । पाञ्चालेन क्रमः प्राप्तस्तस्माद्भूतात्सनातनात् ॥३७॥ बाभ्रव्यगोत्रः स बभौ प्रथमः क्रमपारगः ॥३७॥ नारायणाद्वरं लब्ध्वा प्राप्य योगमनुत्तमम् । क्रमं प्रणीय शिक्षां च प्रणयित्वा स गालवः ॥३८॥ कण्डरीकोऽथ राजा च ब्रह्मदत्तः प्रतापवान् । जातीमरणजं दुःखं स्मृत्वा स्मृत्वा पुनः पुनः ॥३९॥ सप्तजातिषु मुख्यत्वाद्योगानां सम्पदं गतः ॥३९॥ पुराहमात्मजः पार्थ प्रथितः कारणान्तरे । धर्मस्य कुरुशार्दूल ततोऽहं धर्मजः स्मृतः ॥४०॥ नरनारायणौ पूर्वं तपस्तेपतुरव्ययम् । धर्मयानं समारूढौ पर्वते गन्धमादने ॥४१॥ तत्कालसमयं चैव दक्षयज्ञो बभूव ह । न चैवाकल्पयद्भागं दक्षो रुद्रस्य भारत ॥४२॥ ततो दधीचिवचनाद्दक्षयज्ञमपाहरत् । ससर्ज शूलं क्रोधेन प्रज्वलन्तं मुहुर्मुहुः ॥४३॥ तच्छूलं भस्मसात्कृत्वा दक्षयज्ञं सविस्तरम् । आवयोः सहसागच्छद्बदर्याश्रममन्तिकात् ॥४४॥ वेगेन महता पार्थ पतन्नारायणोरसि ॥४४॥ ततः स्वतेजसाविष्टाः केशा नारायणस्य ह । बभूवुर्मुञ्जवर्णास्तु ततोऽहं मुञ्जकेशवान् ॥४५॥ तच्च शूलं विनिर्धूतं हुङ्कारेण महात्मना । जगाम शङ्करकरं नारायणसमाहतम् ॥४६॥ अथ रुद्र उपाधावत्तावृषी तपसान्वितौ । तत एनं समुद्धूतं कण्ठे जग्राह पाणिना ॥४७॥ नारायणः स विश्वात्मा तेनास्य शितिकण्ठता ॥४७॥ अथ रुद्रविघातार्थमिषीकां जगृहे नरः । मन्त्रैश्च संयुयोजाशु सोऽभवत्परशुर्महान् ॥४८॥ क्षिप्तश्च सहसा रुद्रे खण्डनं प्राप्तवांस्तदा । ततोऽहं खण्डपरशुः स्मृतः परशुखण्डनात् ॥४९॥ अर्जुन उवाच॥ अस्मिन्युद्धे तु वार्ष्णेय त्रैलोक्यमथने तदा । जयं कः प्राप्तवांस्तत्र शंसैतन्मे जनार्दन ॥५०॥ श्रीभगवानुवाच॥ तयोः संलग्नयोर्युद्धे रुद्रनारायणात्मनोः । उद्विग्नाः सहसा कृत्स्ना लोकाः सर्वेऽभवंस्तदा ॥५१॥ नागृह्णात्पावकः शुभ्रं मखेषु सुहुतं हविः । वेदा न प्रतिभान्ति स्म ऋषीणां भावितात्मनाम् ॥५२॥ देवान्रजस्तमश्चैव समाविविशतुस्तदा । वसुधा सञ्चकम्पेऽथ नभश्च विपफाल ह ॥५३॥ निष्प्रभाणि च तेजांसि ब्रह्मा चैवासनाच्च्युतः । अगाच्छोषं समुद्रश्च हिमवांश्च व्यशीर्यत ॥५४॥ तस्मिन्नेवं समुत्पन्ने निमित्ते पाण्डुनन्दन । ब्रह्मा वृतो देवगणैरृषिभिश्च महात्मभिः ॥५५॥ आजगामाशु तं देशं यत्र युद्धमवर्तत ॥५५॥ साञ्जलिप्रग्रहो भूत्वा चतुर्वक्त्रो निरुक्तगः । उवाच वचनं रुद्रं लोकानामस्तु वै शिवम् ॥५६॥ न्यस्यायुधानि विश्वेश जगतो हितकाम्यया ॥५६॥ यदक्षरमथाव्यक्तमीशं लोकस्य भावनम् । कूटस्थं कर्तृनिर्द्वंद्वमकर्तेति च यं विदुः ॥५७॥ व्यक्तिभावगतस्यास्य एका मूर्तिरियं शिवा । नरो नारायणश्चैव जातौ धर्मकुलोद्वहौ ॥५८॥ तपसा महता युक्तौ देवश्रेष्ठौ महाव्रतौ । अहं प्रसादजस्तस्य कस्मिंश्चित्कारणान्तरे ॥५९॥ त्वं चैव क्रोधजस्तात पूर्वसर्गे सनातनः ॥५९॥ मया च सार्धं वरदं विबुधैश्च महर्षिभिः । प्रसादयाशु लोकानां शान्तिर्भवतु माचिरम् ॥६०॥ ब्रह्मणा त्वेवमुक्तस्तु रुद्रः क्रोधाग्निमुत्सृजन् । प्रसादयामास ततो देवं नारायणं प्रभुम् ॥६१॥ शरणं च जगामाद्यं वरेण्यं वरदं हरिम् ॥६१॥ ततोऽथ वरदो देवो जितक्रोधो जितेन्द्रियः । प्रीतिमानभवत्तत्र रुद्रेण सह सङ्गतः ॥६२॥ ऋषिभिर्ब्रह्मणा चैव विबुधैश्च सुपूजितः । उवाच देवमीशानमीशः स जगतो हरिः ॥६३॥ यस्त्वां वेत्ति स मां वेत्ति यस्त्वामनु स मामनु । नावयोरन्तरं किञ्चिन्मा ते भूद्बुद्धिरन्यथा ॥६४॥ अद्य प्रभृति श्रीवत्सः शूलाङ्कोऽयं भवत्वयम् । मम पाण्यङ्कितश्चापि श्रीकण्ठस्त्वं भविष्यसि ॥६५॥ एवं लक्षणमुत्पाद्य परस्परकृतं तदा । सख्यं चैवातुलं कृत्वा रुद्रेण सहितावृषी ॥६६॥ तपस्तेपतुरव्यग्रौ विसृज्य त्रिदिवौकसः ॥६६॥ एष ते कथितः पार्थ नारायणजयो मृधे । नामानि चैव गुह्यानि निरुक्तानि च भारत ॥६७॥ ऋषिभिः कथितानीह यानि सङ्कीर्तितानि ते ॥६७॥ एवं बहुविधै रूपैश्चरामीह वसुन्धराम् । ब्रह्मलोकं च कौन्तेय गोलोकं च सनातनम् ॥६८॥ मया त्वं रक्षितो युद्धे महान्तं प्राप्तवाञ्जयम् ॥६८॥ यस्तु ते सोऽग्रतो याति युद्धे सम्प्रत्युपस्थिते । तं विद्धि रुद्रं कौन्तेय देवदेवं कपर्दिनम् ॥६९॥ कालः स एव कथितः क्रोधजेति मया तव । निहतांस्तेन वै पूर्वं हतवानसि वै रिपून् ॥७०॥ अप्रमेयप्रभावं तं देवदेवमुमापतिम् । नमस्व देवं प्रयतो विश्वेशं हरमव्ययम् ॥७१॥ 3.342.141 ।। इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नारायणीये द्विपञ्चाशदधिकत्रिशततमोऽध्यायः।। 352।।
śrīkṛṣṇenārjunaṃprati hṛṣīkeśādisvanāmanirvacanam|| 1|| tathā rudganārāyaṇayuddhavarṇanam|| 2|| śrībhagavānuvāca|| sūryācandramasau śaśvatkeśairme aṃśusañjñitaiḥ | bodhayaṃstāpayaṃścaiva jagaduttiṣṭhataḥ pṛthak ||1||(342.66) bodhanāttāpanāccaiva jagato harṣaṇaṃ bhavet | agnīṣomakṛtairebhiḥ karmabhiḥ pāṇḍunandana ||2|| hṛṣīkeśo'hamīśāno varado lokabhāvanaḥ ||2|| iḍopahūtayogena hare bhāgaṃ kratuṣvaham | varṇaśca me hariśreṣṭhastasmāddharirahaṃ smṛtaḥ ||3|| dhāma sāro hi lokānāmṛtaṃ caiva vicāritam | ṛtadhāmā tato vipraiḥ satyaścāhaṃ prakīrtitaḥ ||4|| naṣṭāṃ ca dharaṇīṃ pūrvamavindaṃ vai guhāgatām | govinda iti māṃ devā vāgbhiḥ samabhituṣṭuvuḥ ||5|| śipiviṣṭeti cākhyāyāṃ hīnaromā ca yo bhavet | tenāviṣṭaṃ hi yatkiñcicchipiviṣṭaṃ hi tatsmṛtam ||6|| yāsko māmṛṣiravyagro naikayajñeṣu gītavān | śipiviṣṭa iti hyasmādguhyanāmadharo hyaham ||7|| stutvā māṃ śipiviṣṭeti yāsko ṛṣirudāradhīḥ | matprasādādadho naṣṭaṃ niruktamabhijagmivān ||8|| na hi jāto na jāye'haṃ na janiṣye kadācana | kṣetrajñaḥ sarvabhūtānāṃ tasmādahamajaḥ smṛtaḥ ||9|| noktapūrvaṃ mayā kṣudramaślīlaṃ vā kadācana | ṛtā brahmasutā sā me satyā devī sarasvatī ||10|| saccāsaccaiva kaunteya mayāveśitamātmani | pauṣkare brahmasadane satyaṃ māmṛṣayo viduḥ ||11|| sattvānna cyutapūrvo'haṃ sattvaṃ vai viddhi matkṛtam | janmanīhābhavatsattvaṃ paurvikaṃ me dhanañjaya ||12|| nirāśīḥkarmasaṃyuktaṃ sātvataṃ māṃ prakalpaya | sātvatajñānadṛṣṭo'haṃ sātvataḥ sātvatāṃ patiḥ ||13|| kṛṣāmi medinīṃ pārtha bhūtvā kārṣṇāyaso mahān | kṛṣṇo varṇaśca me yasmāttasmātkṛṣṇo'hamarjuna ||14|| mayā saṃśleṣitā bhūmiradbhirvyoma ca vāyunā | vāyuśca tejasā sārdhaṃ vaikuṇṭhatvaṃ tato mama ||15|| nirvāṇaṃ paramaṃ saukhyaṃ dharmo'sau para ucyate | tasmānna cyutapūrvo'hamacyutastena karmaṇā ||16|| pṛthivīnabhasī cobhe viśrute viśvalaukike | tayoḥ sandhāraṇārthaṃ hi māmadhokṣajamañjasā ||17|| niruktaṃ vedaviduṣo ye ca śabdārthacintakāḥ | te māṃ gāyanti prāgvaṃśe adhokṣaja iti sthitiḥ ||18|| śabda ekamataireṣa vyāhṛtaḥ paramarṣibhiḥ | nānyo hyadhokṣajo loke ṛte nārāyaṇaṃ prabhum ||19|| ghṛtaṃ mamārciṣo loke jantūnāṃ prāṇadhāraṇam | ghṛtārcirahamavyagrairvedajñaiḥ parikīrtitaḥ ||20|| trayo hi dhātavaḥ khyātāḥ karmajā iti ca smṛtāḥ | pittaṃ śleṣmā ca vāyuśca eṣa saṅghāta ucyate ||21|| etaiśca dhāryate janturetaiḥ kṣīṇaiśca kṣīyate | āyurvedavidastasmāttridhātuṃ māṃ pracakṣate ||22|| vṛṣo hi bhagavāndharmaḥ khyāto lokeṣu bhārata | naighaṇṭukapadākhyātaṃ viddhi māṃ vṛṣamuttamam ||23|| kapirvarāhaḥ śreṣṭhaśca dharmaśca vṛṣa ucyate | tasmādvṛṣākapiṃ prāha kaśyapo māṃ prajāpatiḥ ||24|| na cādiṃ na madhyaṃ tathā naiva cāntaṃ; kadācidvidante surāścāsurāśca | anādyo hyamadhyastathā cāpyanantaḥ; pragīto'hamīśo vibhurlokasākṣī ||25|| śucīni śravaṇīyāni śṛṇomīha dhanañjaya | na ca pāpāni gṛhṇāmi tato'haṃ vai śuciśravāḥ ||26|| ekaśṛṅgaḥ purā bhūtvā varāho divyadarśanaḥ | imāmuddhṛtavānbhūmimekaśṛṅgastato hyaham ||27|| tathaivāsaṃ trikakudo vārāhaṃ rūpamāsthitaḥ | trikakuttena vikhyātaḥ śarīrasya tu māpanāt ||28|| viriñca iti yaḥ proktaḥ kapilajñānacintakaiḥ | sa prajāpatirevāhaṃ cetanātsarvalokakṛt ||29|| vidyāsahāyavantaṃ māmādityasthaṃ sanātanam | kapilaṃ prāhurācāryāḥ sāṅkhyā niścitaniścayāḥ ||30|| hiraṇyagarbho dyutimāneṣa yaśchandasi stutaḥ | yogaiḥ sampūjyate nityaṃ sa evāhaṃ vibhuḥ smṛtaḥ ||31|| ekaviṃśatiśākhaṃ ca ṛgvedaṃ māṃ pracakṣate | sahasraśākhaṃ yatsāma ye vai vedavido janāḥ ||32|| gāyantyāraṇyake viprā madbhaktāste'pi durlabhāḥ ||32|| ṣaṭpañcāśatamaṣṭau ca saptatriṃśatamityuta | yasmiñśākhā yajurvede so'hamādhvaryave smṛtaḥ ||33|| pañcakalpamatharvāṇaṃ kṛtyābhiḥ paribṛṃhitam | kalpayanti hi māṃ viprā atharvāṇavidastathā ||34|| śākhābhedāśca ye kecidyāśca śākhāsu gītayaḥ | svaravarṇasamuccārāḥ sarvāṃstānviddhi matkṛtān ||35|| yattaddhayaśiraḥ pārtha samudeti varapradam | so'hamevottare bhāge kramākṣaravibhāgavit ||36|| rāmādeśitamārgeṇa matprasādānmahātmanā | pāñcālena kramaḥ prāptastasmādbhūtātsanātanāt ||37|| bābhravyagotraḥ sa babhau prathamaḥ kramapāragaḥ ||37|| nārāyaṇādvaraṃ labdhvā prāpya yogamanuttamam | kramaṃ praṇīya śikṣāṃ ca praṇayitvā sa gālavaḥ ||38|| kaṇḍarīko'tha rājā ca brahmadattaḥ pratāpavān | jātīmaraṇajaṃ duḥkhaṃ smṛtvā smṛtvā punaḥ punaḥ ||39|| saptajātiṣu mukhyatvādyogānāṃ sampadaṃ gataḥ ||39|| purāhamātmajaḥ pārtha prathitaḥ kāraṇāntare | dharmasya kuruśārdūla tato'haṃ dharmajaḥ smṛtaḥ ||40|| naranārāyaṇau pūrvaṃ tapastepaturavyayam | dharmayānaṃ samārūḍhau parvate gandhamādane ||41|| tatkālasamayaṃ caiva dakṣayajño babhūva ha | na caivākalpayadbhāgaṃ dakṣo rudrasya bhārata ||42|| tato dadhīcivacanāddakṣayajñamapāharat | sasarja śūlaṃ krodhena prajvalantaṃ muhurmuhuḥ ||43|| tacchūlaṃ bhasmasātkṛtvā dakṣayajñaṃ savistaram | āvayoḥ sahasāgacchadbadaryāśramamantikāt ||44|| vegena mahatā pārtha patannārāyaṇorasi ||44|| tataḥ svatejasāviṣṭāḥ keśā nārāyaṇasya ha | babhūvurmuñjavarṇāstu tato'haṃ muñjakeśavān ||45|| tacca śūlaṃ vinirdhūtaṃ huṅkāreṇa mahātmanā | jagāma śaṅkarakaraṃ nārāyaṇasamāhatam ||46|| atha rudra upādhāvattāvṛṣī tapasānvitau | tata enaṃ samuddhūtaṃ kaṇṭhe jagrāha pāṇinā ||47|| nārāyaṇaḥ sa viśvātmā tenāsya śitikaṇṭhatā ||47|| atha rudravighātārthamiṣīkāṃ jagṛhe naraḥ | mantraiśca saṃyuyojāśu so'bhavatparaśurmahān ||48|| kṣiptaśca sahasā rudre khaṇḍanaṃ prāptavāṃstadā | tato'haṃ khaṇḍaparaśuḥ smṛtaḥ paraśukhaṇḍanāt ||49|| arjuna uvāca|| asminyuddhe tu vārṣṇeya trailokyamathane tadā | jayaṃ kaḥ prāptavāṃstatra śaṃsaitanme janārdana ||50|| śrībhagavānuvāca|| tayoḥ saṃlagnayoryuddhe rudranārāyaṇātmanoḥ | udvignāḥ sahasā kṛtsnā lokāḥ sarve'bhavaṃstadā ||51|| nāgṛhṇātpāvakaḥ śubhraṃ makheṣu suhutaṃ haviḥ | vedā na pratibhānti sma ṛṣīṇāṃ bhāvitātmanām ||52|| devānrajastamaścaiva samāviviśatustadā | vasudhā sañcakampe'tha nabhaśca vipaphāla ha ||53|| niṣprabhāṇi ca tejāṃsi brahmā caivāsanāccyutaḥ | agācchoṣaṃ samudraśca himavāṃśca vyaśīryata ||54|| tasminnevaṃ samutpanne nimitte pāṇḍunandana | brahmā vṛto devagaṇairṛṣibhiśca mahātmabhiḥ ||55|| ājagāmāśu taṃ deśaṃ yatra yuddhamavartata ||55|| sāñjalipragraho bhūtvā caturvaktro niruktagaḥ | uvāca vacanaṃ rudraṃ lokānāmastu vai śivam ||56|| nyasyāyudhāni viśveśa jagato hitakāmyayā ||56|| yadakṣaramathāvyaktamīśaṃ lokasya bhāvanam | kūṭasthaṃ kartṛnirdvaṃdvamakarteti ca yaṃ viduḥ ||57|| vyaktibhāvagatasyāsya ekā mūrtiriyaṃ śivā | naro nārāyaṇaścaiva jātau dharmakulodvahau ||58|| tapasā mahatā yuktau devaśreṣṭhau mahāvratau | ahaṃ prasādajastasya kasmiṃścitkāraṇāntare ||59|| tvaṃ caiva krodhajastāta pūrvasarge sanātanaḥ ||59|| mayā ca sārdhaṃ varadaṃ vibudhaiśca maharṣibhiḥ | prasādayāśu lokānāṃ śāntirbhavatu māciram ||60|| brahmaṇā tvevamuktastu rudraḥ krodhāgnimutsṛjan | prasādayāmāsa tato devaṃ nārāyaṇaṃ prabhum ||61|| śaraṇaṃ ca jagāmādyaṃ vareṇyaṃ varadaṃ harim ||61|| tato'tha varado devo jitakrodho jitendriyaḥ | prītimānabhavattatra rudreṇa saha saṅgataḥ ||62|| ṛṣibhirbrahmaṇā caiva vibudhaiśca supūjitaḥ | uvāca devamīśānamīśaḥ sa jagato hariḥ ||63|| yastvāṃ vetti sa māṃ vetti yastvāmanu sa māmanu | nāvayorantaraṃ kiñcinmā te bhūdbuddhiranyathā ||64|| adya prabhṛti śrīvatsaḥ śūlāṅko'yaṃ bhavatvayam | mama pāṇyaṅkitaścāpi śrīkaṇṭhastvaṃ bhaviṣyasi ||65|| evaṃ lakṣaṇamutpādya parasparakṛtaṃ tadā | sakhyaṃ caivātulaṃ kṛtvā rudreṇa sahitāvṛṣī ||66|| tapastepaturavyagrau visṛjya tridivaukasaḥ ||66|| eṣa te kathitaḥ pārtha nārāyaṇajayo mṛdhe | nāmāni caiva guhyāni niruktāni ca bhārata ||67|| ṛṣibhiḥ kathitānīha yāni saṅkīrtitāni te ||67|| evaṃ bahuvidhai rūpaiścarāmīha vasundharām | brahmalokaṃ ca kaunteya golokaṃ ca sanātanam ||68|| mayā tvaṃ rakṣito yuddhe mahāntaṃ prāptavāñjayam ||68|| yastu te so'grato yāti yuddhe sampratyupasthite | taṃ viddhi rudraṃ kaunteya devadevaṃ kapardinam ||69|| kālaḥ sa eva kathitaḥ krodhajeti mayā tava | nihatāṃstena vai pūrvaṃ hatavānasi vai ripūn ||70|| aprameyaprabhāvaṃ taṃ devadevamumāpatim | namasva devaṃ prayato viśveśaṃ haramavyayam ||71|| 3.342.141 || iti śrīmanmahābhārate śāntiparvaṇi mokṣadharmaparvaṇi nārāyaṇīye dvipañcāśadadhikatriśatatamo'dhyāyaḥ|| 352||
Verse 2
बोधयन्स्थापयंश्चैवेति ट. पाठः।।
bodhayansthāpayaṃścaiveti ṭa. pāṭhaḥ||
Verse 3
बोधनात्स्थापनाच्चैवेति ट. पाठः।।
bodhanātsthāpanāccaiveti ṭa. pāṭhaḥ||
Verse 6
इलोपहूतं योगेनेति झ. पाठः।।
ilopahūtaṃ yogeneti jha. pāṭhaḥ||
Verse 11
शिपिविष्टं हि तत्स्मृतमिति ट. ध. पाठः।।
śipiviṣṭaṃ hi tatsmṛtamiti ṭa. dha. pāṭhaḥ||
Verse 13
पौष्करे मन्नाभिकमलोत्थे।।
pauṣkare mannābhikamalotthe||
Verse 15
निराशीः कर्म निष्कामकर्म।।
nirāśīḥ karma niṣkāmakarma||
Verse 17
विगता कुण्ठा पञ्चानां भूतानां मेलने असामर्थ्यं यस्य स विकुण्ठः स एव वैकुण्ठः।।
vigatā kuṇṭhā pañcānāṃ bhūtānāṃ melane asāmarthyaṃ yasya sa vikuṇṭhaḥ sa eva vaikuṇṭhaḥ||
Verse 18
अधइति पृथिवी। अक्षू व्याप्तावित्यतोऽक् आकाशः। ते उभे सञ्जयति सङ्गेन धारयतीत्यधोक्षज इत्यर्थः।।
adhaiti pṛthivī| akṣū vyāptāvityato'k ākāśaḥ| te ubhe sañjayati saṅgena dhārayatītyadhokṣaja ityarthaḥ||
Verse 20
प्राग्वंशे यज्ञशालैकदेज्ञे।।
prāgvaṃśe yajñaśālaikadejñe||
Verse 28
मम वह्निस्वरूपस्यार्चिपो वर्धकमिति शेषः।।
mama vahnisvarūpasyārcipo vardhakamiti śeṣaḥ||
Verse 29
शरीरस्य प्रकोपनादिति ध. पाठः।।
śarīrasya prakopanāditi dha. pāṭhaḥ||
Verse 43
कालिविज्ञानचिन्तकैरिति ट. पाठः। रेचनात्सर्वलोककृदिति ध. पाठः।।
kālivijñānacintakairiti ṭa. pāṭhaḥ| recanātsarvalokakṛditi dha. pāṭhaḥ||
Verse 44
अपाहरन्नाशितवान् रुद्र इति शेषः।।
apāharannāśitavān rudra iti śeṣaḥ||
Verse 45
तच्छूलं कर्तृ।।
tacchūlaṃ kartṛ||
Verse 48
तत्तेजसा शूलतेजसा।।
tattejasā śūlatejasā||
Verse 50
एनं समुद्धूतमुड्डीयागतं रुद्रम्।।
enaṃ samuddhūtamuḍḍīyāgataṃ rudram||
Verse 64
क्षिप्त आक्षिप्तस्तेन रुद्रशूलेन रुद्रेण वा।।
kṣipta ākṣiptastena rudraśūlena rudreṇa vā||