Lipi
Sign in
Classic reading room ↗

Adhyaya 351

Shanti Parva · 7 verses

7 verses · free forever

English has not yet been added to this adhyaya. You can read the Ganesha passage or Vana Parva 312–315 with English.

Show
Listen to this section

Uses your saved HI voice · Narration settings

Narration reads the opening of this section. Longer passages are split to keep playback responsive.

  1. Verse 11

    श्रीकृष्णेनार्जुनंप्रति सृष्टिप्रकारकथनम्।। 1।। तथा ब्राह्मणमहिमानुवर्णनम्।। 2।। अर्जुन उवाच॥ अग्नीषोमौ कथं पूर्वमेकयोनी प्रवर्तितौ । एष मे संशयो जातस्तं छिन्धि मधुसूदन ॥१॥ श्रीभगवानुवाच॥ हन्त ते वर्तयिष्यामि पुराणं पाण्डुनन्दन । आत्मतेजोद्भवं पार्थ शृणुष्वैकमना मम ॥२॥ सम्प्रक्षालनकालेऽतिक्रान्ते चतुर्थे युगसहस्रान्ते अव्यक्ते सर्वभूतप्रलये स्थावरजङ्गमे ज्योतिर्धरणिवायुरहितेऽन्धे तमसि जलैकार्णवे लोके तम इत्येवाभिभूतेऽसञ्ज्ञकेऽद्वितीये प्रतिष्ठिते नैव रात्र्यां न दिवसे न सति नासति न व्यक्ते नाव्यक्ते व्यवस्थिते एतस्यामवस्थायां नारायणगुणाश्रयादक्षयादजरादनिन्द्रियादग्राह्यादसम्भवात्सत्यादहिंस्राल्ललामाद्विविधप्रवृत्तिविशेषात् अक्षयादजरामरादमूर्तितः सर्वव्यापिनः सर्वकर्तुः शाश्वतात्तमसः पुरुषः प्रादुर्भूतो हरिरव्ययः ॥३॥ निदर्शनमपि ह्यत्र भवति नासीदहो न रात्रिरासीत् न सदासीन्नासदासीत् तम एव पुरस्तादभवद्विश्वरूपम् सा विश्वस्य जननीत्येवमस्यार्थोऽनुभाष्यते ॥४॥ तस्येदानीं तमःसम्भवस्य पुरुषस्य पद्मयोनेर्ब्रह्मणः प्रादुर्भावे स पुरुषः प्रजाः सिसृक्षमाणो नेत्राभ्यामग्नीषोमौ ससर्ज ततो भूतसर्गे प्रवृत्ते प्रजाक्रमवशाद्ब्रह्मक्षत्रमुपातिष्ठत् यः सोमस्तद्ब्रह्म यद्ब्रह्म ते ब्राह्मणाः योऽग्निस्तत्क्षत्रं क्षत्राद्ब्रह्म बलवत्तरम् कस्मादिति लोकप्रत्यक्षगुणमेतत्तद्यथा ब्राह्मणेभ्यः परं भूतं नोत्पन्नपूर्वम् दीप्यमानेऽग्नौ जुहोतीति कृत्वा ब्रवीमि भूतसर्गः कृतो ब्रह्मणा भूतानि च प्रतिष्ठाप्य त्रैलोक्यं धार्यत इति ॥५॥ मन्त्रवादोऽपि हि भवति त्वमग्ने यज्ञानां होता विश्वेषाम् हितो देवेभिर्मानुषे जने इति निदर्शनं चात्र भवति विश्वेषामग्ने यज्ञानां होतेति हितो देवैर्मानुषैर्जगत इति अग्निर्हि यज्ञानां होता कर्ता स चाग्निर्ब्रह्म ॥६॥ न ह्यृते मन्त्राद्धवनमस्ति न विना पुरुषं तपः सम्भवति हविर्मन्त्राणां सम्पूजा विद्यते देवमनुष्याणामनेन त्वं होतेति नियुक्तः ये च मानुषा होत्राधिकारास्ते च ब्राह्मणस्य हि याजनं विधीयते न क्षत्रवैश्ययोर्द्विजात्योः तस्माद्ब्राह्मणा ह्यग्निभूता यज्ञानुद्वहन्ति यज्ञा देवांस्तर्पयन्ति देवाः पृथिवीं भावयन्ति ॥७॥ शतपथे हि ब्राह्मणं भवति अग्नौ समिद्धे स जुहोति यो विद्वान्ब्राह्मणमुखे दानाहुतिं जुहोति एवमप्यग्निभूता ब्राह्मणा विद्वांसोऽग्निं भावयन्ति अग्निर्विष्णुः सर्वभूतान्यनुप्रविश्य प्राणान्धारयति अपि चात्र सनत्कुमारगीताः श्लोका भवन्ति ॥८॥ विश्वं ब्रह्मासृजत्पूर्वं सर्वादिर्निरवस्करम् । ब्रह्मघोषैर्दिवं तिष्ठन्त्यमरा ब्रह्मयोनयः ॥९॥ ब्राह्मणानां मतिर्वाक्यं कर्म श्रद्धा तपांसि च । धारयन्ति महीं द्यां च शैत्याद्वार्यमृतं यथा ॥१०॥ नास्ति सत्यात्परो धर्मो नास्ति मातृसमो गुरुः । ब्राह्मणेभ्यः परं नास्ति प्रेत्य चेह च भूतये ॥११॥ नैषामुक्षा वर्धते नोत वाहा; न गर्गरो मथ्यते सम्प्रदाने । अपध्वस्ता दस्युभूता भवन्ति; येषां राष्ट्रे ब्राह्मणा वृत्तिहीनाः ॥१२॥ वेदपुराणेतिहासप्रामाण्यान्नारायणमुखोद्गताः सर्वात्मानः सर्वकर्तारः सर्वभावनाश्च ब्राह्मणाः वाक्समकालं हि तस्य देवस्य वरप्रदस्य ब्राह्मणाः प्रथमं प्रादुर्भूता ब्राह्मणेभ्यश्च शेषा वर्णाः प्रादुर्भूताः इत्थं च सुरासुरविशिष्टा ब्राह्मणा यदा मया ब्रह्मभूतेन पुरा स्वयमेवोत्पादिताः सुरासुरमहर्षयो भूतविशेषाः स्थापिता निगृहीताश्च ॥१३॥ अहल्याधर्षणनिमित्तं हि गौतमाद्धरिश्मश्रुतामिन्द्रः प्राप्तः कौशिकनिमित्तं चेन्द्रो मुष्कवियोगं मेषवृषणत्वं चावाप अश्विनोर्ग्रहप्रतिषेधोद्यतवज्रस्य पुरंदरस्य च्यवनेन स्तम्भितो बाहुः क्रतुवधप्राप्तमन्युना च दक्षेण भूयस्तपसा चात्मानं संयोज्य नेत्राकृतिरन्या ललाटे रुद्रस्योत्पादिता ॥१४॥ त्रिपुरवधार्थं दीक्षामभ्युपगतस्य रुद्रस्योशनसा शिरसो जटा उत्कृत्य प्रयुक्ताः ततः प्रादुर्भूता भुजगाः तैरस्य भुजगैः पीड्यमानः कण्ठो नीलतामुपनीतः पूर्वे च मन्वन्तरे स्वायम्भुवे नारायणहस्तबन्धग्रहणान्नीलकण्ठत्वमेव वा ॥१५॥ अमृतोत्पादने पुरश्चरणतामुपगतस्याङ्गिरसो बृहस्पतेरुपस्पृशतो न प्रसादं गतवत्यः किलापः अथ बृहस्पतिरपां चुक्रोध यस्मान्ममोपस्पृशतः कलुषीभूता न प्रसादमुपगतास्तस्मादद्यप्रभृति झषमकरमत्स्यकच्छपजन्तुसङ्कीर्णाः कलुषीभवतेति तदाप्रभृत्यापो यादोभिः सङ्कीर्णाः संवृत्ताः ॥१६॥ विश्वरूपो वै त्वाष्ट्रः पुरोहितो देवानामासीत्स्वस्रीयोऽसुराणाम् स प्रत्यक्षं देवेभ्यो भागमददत्परोक्षमसुरेभ्यः ॥१७॥ अथ हिरण्यकशिपुं पुरस्कृत्य विश्वरूपमातरं स्वसारमसुरा वरमयाचन्त हे स्वसरयं ते पुत्रस्त्वाष्ट्रो विश्वरूपस्त्रिशिरा देवानां पुरोहितः प्रत्यक्षं देवेभ्यो भागमददत्परोक्षमस्माकम् ततो देवा वर्धन्ते वयं क्षीयामः तदेनं त्वं वारयितुमर्हसि तथा यथास्मान्भजेदिति ॥१८॥ अथ विश्वरूपं नन्दनवनमुपगतं मातोवाच पुत्र किं परपक्षवर्धनस्त्वं मातुलपक्षं नाशयसि नार्हस्येवं कर्तुमिति स विश्वरूपो मातुर्वाक्यमनतिक्रमणीयमिति मत्वा सम्पूज्य हिरण्यकशिपुमगात् ॥१९॥ हैरण्यगर्भाच्च वसिष्ठाद्धिरण्यकशिपुः शापं प्राप्तवान् यस्मात्त्वयान्यो वृतो होता तस्मादसमाप्तयज्ञस्त्वमपूर्वात्सत्त्वजाताद्वधं प्राप्स्यसीति तच्छापदानाद्धिरण्यकशिपुः प्राप्तवान्वधम् ॥२०॥ विश्वरूपो मातृपक्षवर्धनोऽत्यर्थं तपस्यभवत् तस्य व्रतभङ्गार्थमिन्द्रो बह्वीः श्रीमत्योऽप्सरसो नियुयोज ताश्च दृष्ट्वा मनः क्षुभितं तस्याभवत्तासु चाप्सरःसु नचिरादेव सक्तोऽभवत् सक्तं चैनं ज्ञात्वाप्सरस ऊचुर्गच्छामहे वयं यथागतमिति ॥२१॥ तास्त्वाष्ट्र उवाच क्व गमिष्यथ आस्यतां तावन्मया सह श्रेयो भविष्यतीति तास्तमब्रुवन् वयं देवस्त्रियोऽप्सरस इन्द्रं वरदं पुरा प्रभविष्णुं वृणीमह इति ॥२२॥ अथ ता विश्वरूपोऽब्रवीदद्यैव सेन्द्रा देवा न भविष्यन्तीति ततो मन्त्राञ्जजाप तैर्मन्त्रैः प्रावर्धत त्रिशिराः एकेनास्येन सर्वलोकेषु द्विजैः क्रियावद्भिर्यज्ञेषु सुहुतं सोमं पपावेकेनाप एकेन सेन्द्रान्देवान् अथेन्द्रस्तं विवर्धमानं सोमपानाप्यायितसर्वगात्रं दृष्ट्वा चिन्तामापेदे ॥२३॥ देवाश्च ते सहेन्द्रेण ब्रह्माणमभिजग्मुरूचुश्च विश्वरूपेण सर्वयज्ञेषु सुहुतः सोमः पीयते वयमभागाः संवृत्ताः असुरपक्षो वर्धते वयं क्षीयामः तदर्हसि नो विधातुं श्रेयो यदनन्तरमिति ॥२४॥ तान्ब्रह्मोवाच ऋषिर्भार्गवस्तपस्तप्यते दधीचः स याच्यतां वरं यथा कलेवरं जह्यात् तस्यास्थिभिर्वज्रं क्रियतामिति ॥२५॥ देवास्तत्रागच्छन्यत्र दधीचो भगवानृषिस्तपस्तेपे सेन्द्रा देवास्तमभिगम्योचुर्भगवंस्तपसः कुशलमविघ्नं चेति तान्दधीच उवाच स्वागतं भवद्भ्यः किं क्रियताम् यद्वक्ष्यथ तत्करिष्यामीति ते तमब्रुवञ्शरीरपरित्यागं लोकहितार्थं भगवान्कर्तुमर्हतीति अथ दधीचस्तथैवाविमनाः सुखदुःखसमो महायोगी आत्मानं समाधाय शरीरपरित्यागं चकार ॥२६॥ तस्य परमात्मन्यवसृते तान्यस्थीनि धाता सङ्गृह्य वज्रमकरोत् तेन वज्रेणाभेद्येनाप्रधृष्येण ब्रह्मास्थिसम्भूतेन विष्णुप्रविष्टेनेन्द्रो विश्वरूपं जघान शिरसां चास्य छेदनमकरोत् तस्मादनन्तरं विश्वरूपगात्रमथनसम्भवं त्वष्ट्रोत्पादितमेवारिं वृत्रमिन्द्रो जघान ॥२७॥ (३४२.४१) तस्यां द्वैधीभूतायां ब्रह्मवध्यायां भयादिन्द्रो देवराज्यं परित्यज्य अप्सु सम्भवां शीतलां मानससरोगतां नलिनीं प्रपेदे तत्र चैश्वर्ययोगादणुमात्रो भूत्वा बिसग्रन्थिं प्रविवेश ॥२८॥ अथ ब्रह्मवध्याभयप्रनष्टे त्रैलोक्यनाथे शचीपतौ जगदनीश्वरं बभूव देवान्रजस्तमश्चाविवेश मन्त्रा न प्रावर्तन्त महर्षीणाम् रक्षांसि प्रादुरभवन् ब्रह्म चोत्सादनं जगाम अनिन्द्राश्चाबला लोकाः सुप्रधृष्या बभूवुः ॥२९॥ अथ देवा ऋषयश्चायुषः पुत्रं नहुषं नाम देवराजत्वेऽभिषिषिचुः नहुषः पञ्चभिः शतैर्ज्योतिषां ललाटे ज्वलद्भिः सर्वतेजोहरैस्त्रिविष्टपं पालयां बभूव अथ लोकाः प्रकृतिमापेदिरे स्वस्थाश्च बभूवुः ॥३०॥ अथोवाच नहुषः सर्वं मां शक्रोपभुक्तमुपस्थितमृते शचीमिति स एवमुक्त्वा शचीसमीपमगमदुवाच चैनाम् सुभगेऽहमिन्द्रो देवानां भजस्व मामिति तं शची प्रत्युवाच प्रकृत्या त्वं धर्मवत्सलः सोमवंशोद्भवश्च नार्हसि परपत्नीधर्षणं कर्तुमिति ॥३१॥ तामथोवाच नहुषः ऐन्द्रं पदमध्यास्यते मया अहमिन्द्रस्य राज्यरत्नहरो नात्राधर्मः कश्चित्त्वमिन्द्रभुक्तेति सा तमुवाच अस्ति मम किञ्चिद्व्रतमपर्यवसितम् तस्यावभृथे त्वामुपगमिष्यामि कैश्चिदेवाहोभिरिति स शच्यैवमभिहितो नहुषो जगाम ॥३२॥ अथ शची दुःखशोकार्ता भर्तृदर्शनलालसा नहुषभयगृहीता बृहस्पतिमुपागच्छत् स च तामभिगतां दृष्ट्वैव ध्यानं प्रविश्य भर्तृकार्यतत्परां ज्ञात्वा बृहस्पतिरुवाच अनेनैव व्रतेन तपसा चान्विता देवीं वरदामुपश्रुतिमाह्वय सा तवेन्द्रं दर्शयिष्यतीति ॥३३॥ साथ महानियममास्थिता देवीं वरदामुपश्रुतिं मन्त्रैराह्वयत् सोपश्रुतिः शचीसमीपमगात् उवाच चैनामियमस्मि त्वयोपहूतोपस्थिता किं ते प्रियं करवाणीति तां मूर्ध्ना प्रणम्योवाच शची भगवत्यर्हसि मे भर्तारं दर्शयितुं त्वं सत्या मता चेति सैनां मानसं सरोऽनयत् तत्रेन्द्रं बिसग्रन्थिगतमदर्शयत् ॥३४॥ तामिन्द्रः पत्नीं कृशां ग्लानां च दृष्ट्वा चिन्तयां बभूव अहो मम महद्दुःखमिदमद्योपगतम् नष्टं हि मामियमन्विष्योपागमद्दुःखार्तेति तामिन्द्र उवाच कथं वर्तयसीति सा तमुवाच नहुषो मामाह्वयति कालश्चास्य मया कृत इति ॥३५॥ तामिन्द्र उवाच गच्छ नहुषस्त्वया वाच्योऽपूर्वेण मामृषियुक्तेन यानेन त्वमधिरूढ उद्वहस्व इन्द्रस्य हि महान्ति वाहनानि मनसः प्रियाण्यधिरूढानि मया त्वमन्येनोपयातुमर्हसीति सैवमुक्ता हृष्टा जगाम इन्द्रोऽपि बिसग्रन्थिमेवाविवेश भूयः ॥३६॥ अथेन्द्राणीमभ्यागतां दृष्ट्वोवाच नहुषः पूर्णः स काल इति तं शच्यब्रवीच्छक्रेण यथोक्तम् स महर्षियुक्तं वाहनमधिरूढः शचीसमीपमुपागच्छत् ॥३७॥ अथ मैत्रावरुणिः कुम्भयोनिरगस्त्यो महर्षीन्विक्रियमाणांस्तान्नहुषेणापश्यत् पद्भ्यां च तेनास्पृश्यत ततः स नहुषमब्रवीदकार्यप्रवृत्त पाप पतस्व महीम् सर्पो भव यावद्भूमिर्गिरयश्च तिष्ठेयुस्तावदिति स महर्षिवाक्यसमकालमेव तस्माद्यानादवापतत् ॥३८॥ अथानिन्द्रं पुनस्त्रैलोक्यमभवत् ततो देवा ऋषयश्च भगवन्तं विष्णुं शरणमिन्द्रार्थेऽभिजग्मुः ऊचुश्चैनं भगवन्निन्द्रं ब्रह्मवध्याभिभूतं त्रातुमर्हसीति ततः स वरदस्तानब्रवीदश्वमेधं यज्ञं वैष्णवं शक्रोऽभियजतु ततः स्वं स्थानं प्राप्स्यतीति ॥३९॥ ततो देवा ऋषयश्चेन्द्रं नापश्यन्यदा तदा शचीमूचुर्गच्छ सुभगे इन्द्रमानयस्वेति सा पुनस्तत्सरः समभ्यगच्छत् इन्द्रश्च तस्मात्सरसः समुत्थाय बृहस्पतिमभिजगाम बृहस्पतिश्चाश्वमेधं महाक्रतुं शक्रायाहरत् ततः कृष्णसारङ्गं मेध्यमश्वमुत्सृज्य वाहनं तमेव कृत्वा इन्द्रं मरुत्पतिं बृहस्पतिः स्वस्थानं प्रापयामास ततः स देवराड्देवैरृषिभिः स्तूयमानस्त्रिविष्टपस्थो निष्कल्मषो बभूव ब्रह्मवध्यां चतुर्षु स्थानेषु वनिताग्निवनस्पतिगोषु व्यभजत् एवमिन्द्रो ब्रह्मतेजःप्रभावोपबृंहितः शत्रुवधं कृत्वा स्वस्थानं प्रापितः ॥४१॥ आकाशगङ्गागतश्च पुरा भरद्वाजो महर्षिरुपास्पृशंस्त्रीन्क्रमान्क्रमता विष्णुनाभ्यासादितः स भरद्वाजेन ससलिलेन पाणिनोरसि ताडितः सलक्षणोरस्कः संवृत्तः ॥४२॥ भृगुणा महर्षिणा शप्तोऽग्निः सर्वभक्षत्वमुपनीतः ॥४३॥ अदितिर्वै देवानामन्नमपचदेतद्भुक्त्वासुरान्हनिष्यन्तीति तत्र बुधो व्रतचर्यासमाप्तावागच्छत् अदितिं चावोचद्भिक्षां देहीति तत्र देवैः पूर्वमेतत्प्राश्यं नान्येनेत्यदितिर्भिक्षां नादात् अथ भिक्षाप्रत्याख्यानरुषितेन बुधेन ब्रह्मभूतेन विवस्वतो द्वितीये जन्मन्यण्डसञ्ज्ञितस्याण्डं मारितमदित्याः स मार्तण्डो विवस्वानभवच्छ्राद्धदेवः ॥४४॥ दक्षस्य वै दुहितरः षष्टिरासन् ताभ्यः कश्यपाय त्रयोदश प्रादाद्दश धर्माय दश मनवे सप्तविंशतिमिन्दवे तासु तुल्यासु नक्षत्राख्यां गतासु सोमो रोहिण्यामभ्यधिकां प्रीतिमकरोत् ततस्ताः शेषाः पत्न्य ईर्ष्यावत्यः पितुः समीपं गत्वेममर्थं शशंसुः भगवन्नस्मासु तुल्यप्रभावासु सोमो रोहिणीमधिकं भजतीति सोऽब्रवीद्यक्ष्मैनमावेक्ष्यतीति ॥४५॥ दक्षशापात्सोमं राजानं यक्ष्माविवेश स यक्ष्मणाविष्टो दक्षमगमत् दक्षश्चैनमब्रवीन्न समं वर्तस इति तत्रर्षयः सोममब्रुवन्क्षीयसे यक्ष्मणा पश्चिमस्यां दिशि समुद्रे हिरण्यसरस्तीर्थम् तत्र गत्वात्मानमभिषेचयस्वेति अथागच्छत्सोमस्तत्र हिरण्यसरस्तीर्थम् गत्वा चात्मनः स्नपनमकरोत् स्नात्वा चात्मानं पाप्मनो मोक्षयामास तत्र चावभासितस्तीर्थे यदा सोमस्तदाप्रभृति तीर्थं तत्प्रभासमिति नाम्ना ख्यातं बभूव तच्छापादद्यापि क्षीयते सोमोऽमावास्यान्तरस्थः पौर्णमासीमात्रेऽधिष्ठितो मेघलेखाप्रतिच्छन्नं वपुर्दर्शयति मेघसदृशं वर्णमगमत्तदस्य शशलक्ष्म विमलमभवत् ॥ ४६॥ स्थूलशिरा महर्षिर्मेरोः प्रागुत्तरे दिग्भागे तपस्तेपे तस्य तपस्तप्यमानस्य सर्वगन्धवहः शुचिर्वायुर्विवायमानः शरीरमस्पृशत् स तपसा तापितशरीरः कृशो वायुनोपवीज्यमानो हृदयपरितोषमगमत् तत्र तस्यानिलव्यजनकृतपरितोषस्य सद्यो वनस्पतयः पुष्पशोभां न दर्शितवन्त इति स एताञ्शशाप न सर्वकालं पुष्पवन्तो भविष्यथेति ॥४७॥ नारायणो लोकहितार्थं वडवामुखो नाम महर्षिः पुराभवत् तस्य मेरौ तपस्तप्यतः समुद्र आहूतो नागतः तेनामर्षितेनात्मगात्रोष्मणा समुद्रः स्तिमितजलः कृतः स्वेदप्रस्यन्दनसदृशश्चास्य लवणभावो जनितः उक्तश्चापेयो भविष्यसि एतच्च ते तोयं वडवामुखसञ्ज्ञितेन पीयमानं मधुरं भविष्यति तदेतदद्यापि वडवामुखसञ्ज्ञितेनानुवर्तिना तोयं सामुद्रं पीयते ॥४८॥ हिमवतो गिरेर्दुहितरमुमां रुद्रश्चकमे भृगुरपि च महर्षिर्हिमवन्तमागम्याब्रवीत्कन्यामुमां मे देहीति तमब्रवीद्धिमवानभिलषितो वरो रुद्र इति तमब्रवीद्भृगुर्यस्मात्त्वयाहं कन्यावरणकृतभावः प्रत्याख्यातस्तस्मान्न रत्नानां भवान्भाजनं भविष्यतीति अद्यप्रभृत्येतदवस्थितमृषिवचनम् ॥४९॥ तदेवंविधं माहात्म्यं ब्राह्मणानाम् क्षत्रमपि शाश्वतीमव्ययां पृथिवीं पत्नीमभिगम्य बुभुजे तदेतद्ब्रह्माग्नीषोमीयम् तेन जगद्धार्यते ॥५०॥ 12,342,65

    śrīkṛṣṇenārjunaṃprati sṛṣṭiprakārakathanam|| 1|| tathā brāhmaṇamahimānuvarṇanam|| 2|| arjuna uvāca|| agnīṣomau kathaṃ pūrvamekayonī pravartitau | eṣa me saṃśayo jātastaṃ chindhi madhusūdana ||1|| śrībhagavānuvāca|| hanta te vartayiṣyāmi purāṇaṃ pāṇḍunandana | ātmatejodbhavaṃ pārtha śṛṇuṣvaikamanā mama ||2|| samprakṣālanakāle'tikrānte caturthe yugasahasrānte avyakte sarvabhūtapralaye sthāvarajaṅgame jyotirdharaṇivāyurahite'ndhe tamasi jalaikārṇave loke tama ityevābhibhūte'sañjñake'dvitīye pratiṣṭhite naiva rātryāṃ na divase na sati nāsati na vyakte nāvyakte vyavasthite etasyāmavasthāyāṃ nārāyaṇaguṇāśrayādakṣayādajarādanindriyādagrāhyādasambhavātsatyādahiṃsrāllalāmādvividhapravṛttiviśeṣāt akṣayādajarāmarādamūrtitaḥ sarvavyāpinaḥ sarvakartuḥ śāśvatāttamasaḥ puruṣaḥ prādurbhūto hariravyayaḥ ||3|| nidarśanamapi hyatra bhavati nāsīdaho na rātrirāsīt na sadāsīnnāsadāsīt tama eva purastādabhavadviśvarūpam sā viśvasya jananītyevamasyārtho'nubhāṣyate ||4|| tasyedānīṃ tamaḥsambhavasya puruṣasya padmayonerbrahmaṇaḥ prādurbhāve sa puruṣaḥ prajāḥ sisṛkṣamāṇo netrābhyāmagnīṣomau sasarja tato bhūtasarge pravṛtte prajākramavaśādbrahmakṣatramupātiṣṭhat yaḥ somastadbrahma yadbrahma te brāhmaṇāḥ yo'gnistatkṣatraṃ kṣatrādbrahma balavattaram kasmāditi lokapratyakṣaguṇametattadyathā brāhmaṇebhyaḥ paraṃ bhūtaṃ notpannapūrvam dīpyamāne'gnau juhotīti kṛtvā bravīmi bhūtasargaḥ kṛto brahmaṇā bhūtāni ca pratiṣṭhāpya trailokyaṃ dhāryata iti ||5|| mantravādo'pi hi bhavati tvamagne yajñānāṃ hotā viśveṣām hito devebhirmānuṣe jane iti nidarśanaṃ cātra bhavati viśveṣāmagne yajñānāṃ hoteti hito devairmānuṣairjagata iti agnirhi yajñānāṃ hotā kartā sa cāgnirbrahma ||6|| na hyṛte mantrāddhavanamasti na vinā puruṣaṃ tapaḥ sambhavati havirmantrāṇāṃ sampūjā vidyate devamanuṣyāṇāmanena tvaṃ hoteti niyuktaḥ ye ca mānuṣā hotrādhikārāste ca brāhmaṇasya hi yājanaṃ vidhīyate na kṣatravaiśyayordvijātyoḥ tasmādbrāhmaṇā hyagnibhūtā yajñānudvahanti yajñā devāṃstarpayanti devāḥ pṛthivīṃ bhāvayanti ||7|| śatapathe hi brāhmaṇaṃ bhavati agnau samiddhe sa juhoti yo vidvānbrāhmaṇamukhe dānāhutiṃ juhoti evamapyagnibhūtā brāhmaṇā vidvāṃso'gniṃ bhāvayanti agnirviṣṇuḥ sarvabhūtānyanupraviśya prāṇāndhārayati api cātra sanatkumāragītāḥ ślokā bhavanti ||8|| viśvaṃ brahmāsṛjatpūrvaṃ sarvādirniravaskaram | brahmaghoṣairdivaṃ tiṣṭhantyamarā brahmayonayaḥ ||9|| brāhmaṇānāṃ matirvākyaṃ karma śraddhā tapāṃsi ca | dhārayanti mahīṃ dyāṃ ca śaityādvāryamṛtaṃ yathā ||10|| nāsti satyātparo dharmo nāsti mātṛsamo guruḥ | brāhmaṇebhyaḥ paraṃ nāsti pretya ceha ca bhūtaye ||11|| naiṣāmukṣā vardhate nota vāhā; na gargaro mathyate sampradāne | apadhvastā dasyubhūtā bhavanti; yeṣāṃ rāṣṭre brāhmaṇā vṛttihīnāḥ ||12|| vedapurāṇetihāsaprāmāṇyānnārāyaṇamukhodgatāḥ sarvātmānaḥ sarvakartāraḥ sarvabhāvanāśca brāhmaṇāḥ vāksamakālaṃ hi tasya devasya varapradasya brāhmaṇāḥ prathamaṃ prādurbhūtā brāhmaṇebhyaśca śeṣā varṇāḥ prādurbhūtāḥ itthaṃ ca surāsuraviśiṣṭā brāhmaṇā yadā mayā brahmabhūtena purā svayamevotpāditāḥ surāsuramaharṣayo bhūtaviśeṣāḥ sthāpitā nigṛhītāśca ||13|| ahalyādharṣaṇanimittaṃ hi gautamāddhariśmaśrutāmindraḥ prāptaḥ kauśikanimittaṃ cendro muṣkaviyogaṃ meṣavṛṣaṇatvaṃ cāvāpa aśvinorgrahapratiṣedhodyatavajrasya puraṃdarasya cyavanena stambhito bāhuḥ kratuvadhaprāptamanyunā ca dakṣeṇa bhūyastapasā cātmānaṃ saṃyojya netrākṛtiranyā lalāṭe rudrasyotpāditā ||14|| tripuravadhārthaṃ dīkṣāmabhyupagatasya rudrasyośanasā śiraso jaṭā utkṛtya prayuktāḥ tataḥ prādurbhūtā bhujagāḥ tairasya bhujagaiḥ pīḍyamānaḥ kaṇṭho nīlatāmupanītaḥ pūrve ca manvantare svāyambhuve nārāyaṇahastabandhagrahaṇānnīlakaṇṭhatvameva vā ||15|| amṛtotpādane puraścaraṇatāmupagatasyāṅgiraso bṛhaspaterupaspṛśato na prasādaṃ gatavatyaḥ kilāpaḥ atha bṛhaspatirapāṃ cukrodha yasmānmamopaspṛśataḥ kaluṣībhūtā na prasādamupagatāstasmādadyaprabhṛti jhaṣamakaramatsyakacchapajantusaṅkīrṇāḥ kaluṣībhavateti tadāprabhṛtyāpo yādobhiḥ saṅkīrṇāḥ saṃvṛttāḥ ||16|| viśvarūpo vai tvāṣṭraḥ purohito devānāmāsītsvasrīyo'surāṇām sa pratyakṣaṃ devebhyo bhāgamadadatparokṣamasurebhyaḥ ||17|| atha hiraṇyakaśipuṃ puraskṛtya viśvarūpamātaraṃ svasāramasurā varamayācanta he svasarayaṃ te putrastvāṣṭro viśvarūpastriśirā devānāṃ purohitaḥ pratyakṣaṃ devebhyo bhāgamadadatparokṣamasmākam tato devā vardhante vayaṃ kṣīyāmaḥ tadenaṃ tvaṃ vārayitumarhasi tathā yathāsmānbhajediti ||18|| atha viśvarūpaṃ nandanavanamupagataṃ mātovāca putra kiṃ parapakṣavardhanastvaṃ mātulapakṣaṃ nāśayasi nārhasyevaṃ kartumiti sa viśvarūpo māturvākyamanatikramaṇīyamiti matvā sampūjya hiraṇyakaśipumagāt ||19|| hairaṇyagarbhācca vasiṣṭhāddhiraṇyakaśipuḥ śāpaṃ prāptavān yasmāttvayānyo vṛto hotā tasmādasamāptayajñastvamapūrvātsattvajātādvadhaṃ prāpsyasīti tacchāpadānāddhiraṇyakaśipuḥ prāptavānvadham ||20|| viśvarūpo mātṛpakṣavardhano'tyarthaṃ tapasyabhavat tasya vratabhaṅgārthamindro bahvīḥ śrīmatyo'psaraso niyuyoja tāśca dṛṣṭvā manaḥ kṣubhitaṃ tasyābhavattāsu cāpsaraḥsu nacirādeva sakto'bhavat saktaṃ cainaṃ jñātvāpsarasa ūcurgacchāmahe vayaṃ yathāgatamiti ||21|| tāstvāṣṭra uvāca kva gamiṣyatha āsyatāṃ tāvanmayā saha śreyo bhaviṣyatīti tāstamabruvan vayaṃ devastriyo'psarasa indraṃ varadaṃ purā prabhaviṣṇuṃ vṛṇīmaha iti ||22|| atha tā viśvarūpo'bravīdadyaiva sendrā devā na bhaviṣyantīti tato mantrāñjajāpa tairmantraiḥ prāvardhata triśirāḥ ekenāsyena sarvalokeṣu dvijaiḥ kriyāvadbhiryajñeṣu suhutaṃ somaṃ papāvekenāpa ekena sendrāndevān athendrastaṃ vivardhamānaṃ somapānāpyāyitasarvagātraṃ dṛṣṭvā cintāmāpede ||23|| devāśca te sahendreṇa brahmāṇamabhijagmurūcuśca viśvarūpeṇa sarvayajñeṣu suhutaḥ somaḥ pīyate vayamabhāgāḥ saṃvṛttāḥ asurapakṣo vardhate vayaṃ kṣīyāmaḥ tadarhasi no vidhātuṃ śreyo yadanantaramiti ||24|| tānbrahmovāca ṛṣirbhārgavastapastapyate dadhīcaḥ sa yācyatāṃ varaṃ yathā kalevaraṃ jahyāt tasyāsthibhirvajraṃ kriyatāmiti ||25|| devāstatrāgacchanyatra dadhīco bhagavānṛṣistapastepe sendrā devāstamabhigamyocurbhagavaṃstapasaḥ kuśalamavighnaṃ ceti tāndadhīca uvāca svāgataṃ bhavadbhyaḥ kiṃ kriyatām yadvakṣyatha tatkariṣyāmīti te tamabruvañśarīraparityāgaṃ lokahitārthaṃ bhagavānkartumarhatīti atha dadhīcastathaivāvimanāḥ sukhaduḥkhasamo mahāyogī ātmānaṃ samādhāya śarīraparityāgaṃ cakāra ||26|| tasya paramātmanyavasṛte tānyasthīni dhātā saṅgṛhya vajramakarot tena vajreṇābhedyenāpradhṛṣyeṇa brahmāsthisambhūtena viṣṇupraviṣṭenendro viśvarūpaṃ jaghāna śirasāṃ cāsya chedanamakarot tasmādanantaraṃ viśvarūpagātramathanasambhavaṃ tvaṣṭrotpāditamevāriṃ vṛtramindro jaghāna ||27|| (342.41) tasyāṃ dvaidhībhūtāyāṃ brahmavadhyāyāṃ bhayādindro devarājyaṃ parityajya apsu sambhavāṃ śītalāṃ mānasasarogatāṃ nalinīṃ prapede tatra caiśvaryayogādaṇumātro bhūtvā bisagranthiṃ praviveśa ||28|| atha brahmavadhyābhayapranaṣṭe trailokyanāthe śacīpatau jagadanīśvaraṃ babhūva devānrajastamaścāviveśa mantrā na prāvartanta maharṣīṇām rakṣāṃsi prādurabhavan brahma cotsādanaṃ jagāma anindrāścābalā lokāḥ supradhṛṣyā babhūvuḥ ||29|| atha devā ṛṣayaścāyuṣaḥ putraṃ nahuṣaṃ nāma devarājatve'bhiṣiṣicuḥ nahuṣaḥ pañcabhiḥ śatairjyotiṣāṃ lalāṭe jvaladbhiḥ sarvatejoharaistriviṣṭapaṃ pālayāṃ babhūva atha lokāḥ prakṛtimāpedire svasthāśca babhūvuḥ ||30|| athovāca nahuṣaḥ sarvaṃ māṃ śakropabhuktamupasthitamṛte śacīmiti sa evamuktvā śacīsamīpamagamaduvāca cainām subhage'hamindro devānāṃ bhajasva māmiti taṃ śacī pratyuvāca prakṛtyā tvaṃ dharmavatsalaḥ somavaṃśodbhavaśca nārhasi parapatnīdharṣaṇaṃ kartumiti ||31|| tāmathovāca nahuṣaḥ aindraṃ padamadhyāsyate mayā ahamindrasya rājyaratnaharo nātrādharmaḥ kaścittvamindrabhukteti sā tamuvāca asti mama kiñcidvratamaparyavasitam tasyāvabhṛthe tvāmupagamiṣyāmi kaiścidevāhobhiriti sa śacyaivamabhihito nahuṣo jagāma ||32|| atha śacī duḥkhaśokārtā bhartṛdarśanalālasā nahuṣabhayagṛhītā bṛhaspatimupāgacchat sa ca tāmabhigatāṃ dṛṣṭvaiva dhyānaṃ praviśya bhartṛkāryatatparāṃ jñātvā bṛhaspatiruvāca anenaiva vratena tapasā cānvitā devīṃ varadāmupaśrutimāhvaya sā tavendraṃ darśayiṣyatīti ||33|| sātha mahāniyamamāsthitā devīṃ varadāmupaśrutiṃ mantrairāhvayat sopaśrutiḥ śacīsamīpamagāt uvāca caināmiyamasmi tvayopahūtopasthitā kiṃ te priyaṃ karavāṇīti tāṃ mūrdhnā praṇamyovāca śacī bhagavatyarhasi me bhartāraṃ darśayituṃ tvaṃ satyā matā ceti saināṃ mānasaṃ saro'nayat tatrendraṃ bisagranthigatamadarśayat ||34|| tāmindraḥ patnīṃ kṛśāṃ glānāṃ ca dṛṣṭvā cintayāṃ babhūva aho mama mahadduḥkhamidamadyopagatam naṣṭaṃ hi māmiyamanviṣyopāgamadduḥkhārteti tāmindra uvāca kathaṃ vartayasīti sā tamuvāca nahuṣo māmāhvayati kālaścāsya mayā kṛta iti ||35|| tāmindra uvāca gaccha nahuṣastvayā vācyo'pūrveṇa māmṛṣiyuktena yānena tvamadhirūḍha udvahasva indrasya hi mahānti vāhanāni manasaḥ priyāṇyadhirūḍhāni mayā tvamanyenopayātumarhasīti saivamuktā hṛṣṭā jagāma indro'pi bisagranthimevāviveśa bhūyaḥ ||36|| athendrāṇīmabhyāgatāṃ dṛṣṭvovāca nahuṣaḥ pūrṇaḥ sa kāla iti taṃ śacyabravīcchakreṇa yathoktam sa maharṣiyuktaṃ vāhanamadhirūḍhaḥ śacīsamīpamupāgacchat ||37|| atha maitrāvaruṇiḥ kumbhayoniragastyo maharṣīnvikriyamāṇāṃstānnahuṣeṇāpaśyat padbhyāṃ ca tenāspṛśyata tataḥ sa nahuṣamabravīdakāryapravṛtta pāpa patasva mahīm sarpo bhava yāvadbhūmirgirayaśca tiṣṭheyustāvaditi sa maharṣivākyasamakālameva tasmādyānādavāpatat ||38|| athānindraṃ punastrailokyamabhavat tato devā ṛṣayaśca bhagavantaṃ viṣṇuṃ śaraṇamindrārthe'bhijagmuḥ ūcuścainaṃ bhagavannindraṃ brahmavadhyābhibhūtaṃ trātumarhasīti tataḥ sa varadastānabravīdaśvamedhaṃ yajñaṃ vaiṣṇavaṃ śakro'bhiyajatu tataḥ svaṃ sthānaṃ prāpsyatīti ||39|| tato devā ṛṣayaścendraṃ nāpaśyanyadā tadā śacīmūcurgaccha subhage indramānayasveti sā punastatsaraḥ samabhyagacchat indraśca tasmātsarasaḥ samutthāya bṛhaspatimabhijagāma bṛhaspatiścāśvamedhaṃ mahākratuṃ śakrāyāharat tataḥ kṛṣṇasāraṅgaṃ medhyamaśvamutsṛjya vāhanaṃ tameva kṛtvā indraṃ marutpatiṃ bṛhaspatiḥ svasthānaṃ prāpayāmāsa tataḥ sa devarāḍdevairṛṣibhiḥ stūyamānastriviṣṭapastho niṣkalmaṣo babhūva brahmavadhyāṃ caturṣu sthāneṣu vanitāgnivanaspatigoṣu vyabhajat evamindro brahmatejaḥprabhāvopabṛṃhitaḥ śatruvadhaṃ kṛtvā svasthānaṃ prāpitaḥ ||41|| ākāśagaṅgāgataśca purā bharadvājo maharṣirupāspṛśaṃstrīnkramānkramatā viṣṇunābhyāsāditaḥ sa bharadvājena sasalilena pāṇinorasi tāḍitaḥ salakṣaṇoraskaḥ saṃvṛttaḥ ||42|| bhṛguṇā maharṣiṇā śapto'gniḥ sarvabhakṣatvamupanītaḥ ||43|| aditirvai devānāmannamapacadetadbhuktvāsurānhaniṣyantīti tatra budho vratacaryāsamāptāvāgacchat aditiṃ cāvocadbhikṣāṃ dehīti tatra devaiḥ pūrvametatprāśyaṃ nānyenetyaditirbhikṣāṃ nādāt atha bhikṣāpratyākhyānaruṣitena budhena brahmabhūtena vivasvato dvitīye janmanyaṇḍasañjñitasyāṇḍaṃ māritamadityāḥ sa mārtaṇḍo vivasvānabhavacchrāddhadevaḥ ||44|| dakṣasya vai duhitaraḥ ṣaṣṭirāsan tābhyaḥ kaśyapāya trayodaśa prādāddaśa dharmāya daśa manave saptaviṃśatimindave tāsu tulyāsu nakṣatrākhyāṃ gatāsu somo rohiṇyāmabhyadhikāṃ prītimakarot tatastāḥ śeṣāḥ patnya īrṣyāvatyaḥ pituḥ samīpaṃ gatvemamarthaṃ śaśaṃsuḥ bhagavannasmāsu tulyaprabhāvāsu somo rohiṇīmadhikaṃ bhajatīti so'bravīdyakṣmainamāvekṣyatīti ||45|| dakṣaśāpātsomaṃ rājānaṃ yakṣmāviveśa sa yakṣmaṇāviṣṭo dakṣamagamat dakṣaścainamabravīnna samaṃ vartasa iti tatrarṣayaḥ somamabruvankṣīyase yakṣmaṇā paścimasyāṃ diśi samudre hiraṇyasarastīrtham tatra gatvātmānamabhiṣecayasveti athāgacchatsomastatra hiraṇyasarastīrtham gatvā cātmanaḥ snapanamakarot snātvā cātmānaṃ pāpmano mokṣayāmāsa tatra cāvabhāsitastīrthe yadā somastadāprabhṛti tīrthaṃ tatprabhāsamiti nāmnā khyātaṃ babhūva tacchāpādadyāpi kṣīyate somo'māvāsyāntarasthaḥ paurṇamāsīmātre'dhiṣṭhito meghalekhāpraticchannaṃ vapurdarśayati meghasadṛśaṃ varṇamagamattadasya śaśalakṣma vimalamabhavat || 46|| sthūlaśirā maharṣirmeroḥ prāguttare digbhāge tapastepe tasya tapastapyamānasya sarvagandhavahaḥ śucirvāyurvivāyamānaḥ śarīramaspṛśat sa tapasā tāpitaśarīraḥ kṛśo vāyunopavījyamāno hṛdayaparitoṣamagamat tatra tasyānilavyajanakṛtaparitoṣasya sadyo vanaspatayaḥ puṣpaśobhāṃ na darśitavanta iti sa etāñśaśāpa na sarvakālaṃ puṣpavanto bhaviṣyatheti ||47|| nārāyaṇo lokahitārthaṃ vaḍavāmukho nāma maharṣiḥ purābhavat tasya merau tapastapyataḥ samudra āhūto nāgataḥ tenāmarṣitenātmagātroṣmaṇā samudraḥ stimitajalaḥ kṛtaḥ svedaprasyandanasadṛśaścāsya lavaṇabhāvo janitaḥ uktaścāpeyo bhaviṣyasi etacca te toyaṃ vaḍavāmukhasañjñitena pīyamānaṃ madhuraṃ bhaviṣyati tadetadadyāpi vaḍavāmukhasañjñitenānuvartinā toyaṃ sāmudraṃ pīyate ||48|| himavato girerduhitaramumāṃ rudraścakame bhṛgurapi ca maharṣirhimavantamāgamyābravītkanyāmumāṃ me dehīti tamabravīddhimavānabhilaṣito varo rudra iti tamabravīdbhṛguryasmāttvayāhaṃ kanyāvaraṇakṛtabhāvaḥ pratyākhyātastasmānna ratnānāṃ bhavānbhājanaṃ bhaviṣyatīti adyaprabhṛtyetadavasthitamṛṣivacanam ||49|| tadevaṃvidhaṃ māhātmyaṃ brāhmaṇānām kṣatramapi śāśvatīmavyayāṃ pṛthivīṃ patnīmabhigamya bubhuje tadetadbrahmāgnīṣomīyam tena jagaddhāryate ||50|| 12,342,65

  2. Verse 17

    देवानां मानुषे जन इति ध. पाठः।।

    devānāṃ mānuṣe jana iti dha. pāṭhaḥ||

  3. Verse 18

    वाक्यं मन्त्रश्रद्धामनांसि चेति ट. पाठः।।

    vākyaṃ mantraśraddhāmanāṃsi ceti ṭa. pāṭhaḥ||

  4. Verse 19

    नास्ति मन्त्रात्समाश्रयमिति ट. पाठः।।

    nāsti mantrātsamāśrayamiti ṭa. pāṭhaḥ||

  5. Verse 34

    गर्गरः दधीक्षुतैलादिनिपीडनयन्त्रम्।।

    gargaraḥ dadhīkṣutailādinipīḍanayantram||

  6. Verse 42

    एकेनापः सुरामेकेन।

    ekenāpaḥ surāmekena|

  7. Verse 49

    तस्मिन्द्विधाभूते तद्ब्रह्मवध्याभयात् इति ट. ध. पाठः।

    tasmindvidhābhūte tadbrahmavadhyābhayāt iti ṭa. dha. pāṭhaḥ|