Adhyaya 111
Shanti Parva · 32 verses
32 verses · free forever
English has not yet been added to this adhyaya. You can read the Ganesha passage or Vana Parva 312–315 with English.
Uses your saved HI voice · Narration settings
Narration reads the opening of this section. Longer passages are split to keep playback responsive.
Verse 10
भीष्मेण युधिष्ठिरंप्रति परीक्षायाः सौम्यासौम्यत्वनिर्धारणसाधनताप्रतिपादकव्याघ्रगोमायुचरितकथनम्।। 1।। युधिष्ठिर उवाच॥ असौम्याः सौम्यरूपेण सौम्याश्चासौम्यदर्शिनः | ईदृशान्पुरुषांस्तात कथं विद्यामहे वयम् ॥१॥ भीष्म उवाच॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् | व्याघ्रगोमायुसंवादं तं निबोध युधिष्ठिर ॥२॥ पुरिकायां पुरि पुरा श्रीमत्यां पौरिको नृपः | परहिंसारुचिः क्रूरो बभूव पुरुषाधमः ॥३॥ स त्वायुषि परिक्षीणे जगामानीप्सितां गतिम् | गोमायुत्वं च सम्प्राप्तो दूषितः पूर्वकर्मणा ॥४॥ संस्मृत्य पूर्वजातिं स निर्वेदं परमं गतः | न भक्षयति मांसानि परैरुपहृतान्यपि ॥५॥ अहिंस्रः सर्वभूतेषु सत्यवाक्सुदृढव्रतः | चकार च यथाकाममाहारं पतितैः फलैः ॥६॥ श्मशाने तस्य चावासो गोमायोः संमतोऽभवत् | जन्मभूम्यनुरोधाच्च नान्यद्वासमरोचयत् ॥७॥ तस्य शौचममृष्यन्तः सर्वे ते सहजातयः | चालयन्ति स्म तां बुद्धिं वचनैः प्रश्रयोत्तरैः ॥८॥ वसन्पितृवने रौद्रे शौचं लप्सितुमिच्छसि | इयं विप्रतिपत्तिस्ते यदा त्वं पिशिताशनः ॥९॥ तत्समो वा भवास्माभिर्भक्ष्यान्दास्यामहे वयम् | भुङ्क्ष्व शौचं परित्यज्य यद्धि भुक्तं तदस्ति ते ॥१०॥ इति तेषां वचः श्रुत्वा प्रत्युवाच समाहितः | मधुरैः प्रश्रितैर्वाक्यैर्हेतुमद्भिरनिष्ठुरैः ॥११॥ अप्रमाणं प्रसूतिर्मे शीलतः क्रियते कुलम् | प्रार्थयिष्ये तु तत्कर्म येन विस्तीर्यते यशः ॥१२॥ श्मशाने यदि वासो मे समाधिर्मे निशाम्यताम् | आत्मा फलति कर्माणि नाश्रमो धर्मलक्षणम् ॥१३॥ आश्रमे यो द्विजं हन्याद्गां वा दद्यादनाश्रमे | किं नु तत्पातकं न स्यात्तद्वा दत्तं वृथा भवेत् ॥१४॥ भवन्तः सर्वलोभेन केवलं भक्षणे रताः | अनुबन्धे तु ये दोषास्तान्न पश्यन्ति मोहिताः ॥१५॥ अप्रत्ययकृतां गर्ह्यामर्थापनयदूषिताम् | इह चामुत्र चानिष्टां तस्माद्वृत्तिं न रोचये ॥१६॥ तं शुचिं पण्डितं मत्वा शार्दूलः ख्यातविक्रमः | कृत्वात्मसदृशां पूजां साचिव्येऽवर्धयत्स्वयम् ॥१७॥ सौम्य विज्ञातरूपस्त्वं गच्छ यात्रां मया सह | व्रियन्तामीप्सिता भोगाः परिहार्याश्च पुष्कलाः ॥१८॥ तीक्ष्णा वयमिति ख्याता भवतो ज्ञापयामहे | मृदुपूर्वं घातिनस्ते श्रेयश्चाधिगमिष्यति ॥१९॥ अथ सम्पूज्य तद्वाक्यं मृगेन्द्रस्य महात्मनः | गोमायुः प्रश्रितं वाक्यं बभाषे किञ्चिदानतः ॥२०॥ सदृशं मृगराजैतत्तव वाक्यं मदन्तरे | यत्सहायान्मृगयसे धर्मार्थकुशलाञ्शुचीन् ॥२१॥ न शक्यमनमात्येन महत्त्वमनुशासितुम् | दुष्टामात्येन वा वीर शरीरपरिपन्थिना ॥२२॥ सहायाननुरक्तांस्तु यतेतानुपसंहितान् | परस्परमसङ्घुष्टान्विजिगीषूनलोलुपान् ॥२३॥ तानतीतोपधान्प्राज्ञान्हिते युक्तान्मनस्विनः | पूजयेथा महाभागान्यथाचार्यान्यथा पितॄन् ॥२४॥ न त्वेवं मम सन्तोषाद्रोचतेऽन्यन्मृगाधिप | न कामये सुखान्भोगानैश्वर्यं वा त्वदाश्रयम् ॥२५॥ न योक्ष्यति हि मे शीलं तव भृत्यैः पुरातनैः | ते त्वां विभेदयिष्यन्ति दुःखशीला मदन्तरे ॥२६॥ संश्रयः श्लाघनीयस्त्वमन्येषामपि भास्वताम् | कृतात्मा सुमहाभागः पापकेष्वप्यदारुणः ॥२७॥ दीर्घदर्शी महोत्साहः स्थूललक्ष्यो महाबलः | कृती चामोघकर्तासि भाव्यैश्च समलङ्कृतः ॥२८॥ किं तु स्वेनास्मि सन्तुष्टो दुःखा वृत्तिरनुष्ठिता | सेवायाश्चापि नाभिज्ञः स्वच्छन्देन वनेचरः ॥२९॥ राजोपक्रोशदोषाश्च सर्वे संश्रयवासिनाम् | वनचर्या च निःसङ्गा निर्भया निरवग्रहा ॥३०॥ नृपेणाहूयमानस्य यत्तिष्ठति भयं हृदि | न तत्तिष्ठति तुष्टानां वने मूलफलाशिनाम् ॥३१॥ पानीयं वा निरायासं स्वाद्वन्नं वा भयोत्तरम् | विचार्य खलु पश्यामि तत्सुखं यत्र निर्वृतिः ॥३२॥ अपराधैर्न तावन्तो भृत्याः शिष्टा नराधिपैः | उपघातैर्यथा भृत्या दूषिता निधनं गताः ॥३३॥ यदि त्वेतन्मया कार्यं मृगेन्द्रो यदि मन्यते | समयं कृतमिच्छामि वर्तितव्यं यथा मयि ॥३४॥ मदीया माननीयास्ते श्रोतव्यं च हितं वचः | कल्पिता या च ते वृत्तिः सा भवेत्तव सुस्थिरा ॥३५॥ न मन्त्रयेयमन्यैस्ते सचिवैः सह कर्हिचित् | नीतिमन्तः परीप्सन्तो वृथा ब्रूयुः परे मयि ॥३६॥ एक एकेन सङ्गम्य रहो ब्रूयां हितं तव | न च ते ज्ञातिकार्येषु प्रष्टव्योऽहं हिताहिते ॥३७॥ मया संमन्त्र्य पश्चाच्च न हिंस्याः सचिवास्त्वया | मदीयानां च कुपितो मा त्वं दण्डं निपातयेः ॥३८॥ एवमस्त्विति तेनासौ मृगेन्द्रेणाभिपूजितः | प्राप्तवान्मतिसाचिव्यं गोमायुर्व्याघ्रयोनितः ॥३९॥ तं तथा सत्कृतं दृष्ट्वा युज्यमानं च कर्मणि | प्राद्विषन्कृतसङ्घाताः पूर्वभृत्या मुहुर्मुहुः ॥४०॥ मित्रबुद्ध्या च गोमायुं सान्त्वयित्वा प्रवेश्य च | दोषेषु समतां नेतुमैच्छन्नशुभबुद्धयः ॥४१॥ अन्यथा ह्युचिताः पूर्वं परद्रव्यापहारिणः | अशक्ताः किञ्चिदादातुं द्रव्यं गोमायुयन्त्रिताः ॥४२॥ व्युत्थानं चात्र काङ्क्षद्भिः कथाभिः प्रविलोभ्यते | धनेन महता चैव बुद्धिरस्य विलोभ्यते ॥४३॥ न चापि स महाप्राज्ञस्तस्माद्धैर्याच्चचाल ह | अथास्य समयं कृत्वा विनाशाय स्थिताः परे ॥४४॥ ईप्सितं च मृगेन्द्रस्य मांसं यत्तत्र संस्कृतम् | अपनीय स्वयं तद्धि तैर्न्यस्तं तस्य वेश्मनि ॥४५॥ यदर्थं चाप्यपहृतं येन यच्चैव मन्त्रितम् | तस्य तद्विदितं सर्वं कारणार्थं च मर्षितम् ॥४६॥ समयोऽयं कृतस्तेन साचिव्यमुपगच्छता | नोपघातस्त्वया ग्राह्यो राजन्मैत्रीमिहेच्छता ॥४७॥ भोजने चोपहर्तव्ये तन्मांसं न स्म दृश्यते | मृगराजेन चाज्ञप्तं मृग्यतां चोर इत्युत ॥४८॥ कृतकैश्चापि तन्मांसं मृगेन्द्रायोपवर्णितम् | सचिवेनोपनीतं ते विदुषा प्राज्ञमानिना ॥४९॥ सरोषस्त्वथ शार्दूलः श्रुत्वा गोमायुचापलम् | बभूवामर्षितो राजा वधं चास्याभ्यरोचयत् ॥५०॥ छिद्रं तु तस्य तद्दृष्ट्वा प्रोचुस्ते पूर्वमन्त्रिणः | सर्वेषामेव सोऽस्माकं वृत्तिभङ्गेषु वर्तते ॥५१॥ इदं चास्येदृशं कर्म वाल्लभ्येन तु रक्ष्यते | श्रुतश्च स्वामिना पूर्वं यादृशो नैष तादृशः ॥५२॥ वाङ्मात्रेणैव धर्मिष्ठः स्वभावेन तु दारुणः | धर्मच्छद्मा ह्ययं पापो वृथाचारपरिग्रहः ॥५३॥ कार्यार्थं भोजनार्थेषु व्रतेषु कृतवाञ्श्रमम् ॥५३॥ मांसापनयनं ज्ञात्वा व्याघ्रस्तेषां तु तद्वचः | आज्ञापयामास तदा गोमायुर्वध्यतामिति ॥५४॥ शार्दूलवचनं श्रुत्वा शार्दूलजननी ततः | मृगराजं हितैर्वाक्यैः सम्बोधयितुमागमत् ॥५५॥ पुत्र नैतत्त्वया ग्राह्यं कपटारम्भसंवृतम् | कर्मसङ्घर्षजैर्दोषैर्दुष्यत्यशुचिभिः शुचिः ॥५६॥ नोच्छ्रितं सहते कश्चित्प्रक्रिया वैरकारिका | शुचेरपि हि युक्तस्य दोष एव निपात्यते ॥५७॥ लुब्धानां शुचयो द्वेष्याः कातराणां तरस्विनः | मूर्खाणां पण्डिता द्वेष्या दरिद्राणां महाधनाः ॥५८॥ अधार्मिकाणां धर्मिष्ठा विरूपाणां सुरूपकाः ॥५८॥ बहवः पण्डिता लुब्धाः सर्वे मायोपजीविनः | कुर्युर्दोषमदोषस्य बृहस्पतिमतेरपि ॥५९॥ शून्यात्तच्च गृहान्मांसं यदद्यापहृतं तव | नेच्छते दीयमानं च साधु तावद्विमृश्यताम् ॥६०॥ असत्याः सत्यसङ्काशाः सत्याश्चासत्यदर्शिनः | दृश्यन्ते विविधा भावास्तेषु युक्तं परीक्षणम् ॥६१॥ तलवद्दृश्यते व्योम खद्योतो हव्यवाडिव | न चैवास्ति तलं व्योम्नि न खद्योते हुताशनः ॥६२॥ तस्मात्प्रत्यक्षदृष्टोऽपि युक्तमर्थः परीक्षितुम् | परीक्ष्य ज्ञापयन्ह्यर्थान्न पश्चात्परितप्यते ॥६३॥ न दुष्करमिदं पुत्र यत्प्रभुर्घातयेत्परम् | श्लाघनीया च वर्या च लोके प्रभवतां क्षमा ॥६४॥ स्थापितोऽयं पुत्र त्वया सामन्तेष्वधि विश्रुतः | दुःखेनासाद्यते पात्रं धार्यतामेष ते सुहृत् ॥६५॥ दूषितं परदोषैर्हि गृह्णीते योऽन्यथा शुचिम् | स्वयं संदूषितामात्यः क्षिप्रमेव विनश्यति ॥६६॥ तस्मादथारिसङ्घाताद्गोमायोः कश्चिदागतः | धर्मात्मा तेन चाख्यातं यथैतत्कपटं कृतम् ॥६७॥ ततो विज्ञातचारित्रः सत्कृत्य स विमोक्षितः | परिष्वक्तश्च सस्नेहं मृगेन्द्रेण पुनः पुनः ॥६८॥ अनुज्ञाप्य मृगेन्द्रं तु गोमायुर्नीतिशास्त्रवित् | तेनामर्षेण सन्तप्तः प्रायमासितुमैच्छत ॥६९॥ शार्दूलस्तत्र गोमायुं स्नेहात्प्रस्रुतलोचनः | अवारयत्स धर्मिष्ठं पूजया प्रतिपूजयन् ॥७०॥ तं स गोमायुरालोक्य स्नेहादागतसम्भ्रमम् | बभाषे प्रणतो वाक्यं बाष्पगद्गदया गिरा ॥७१॥ पूजितोऽहं त्वया पूर्वं पश्चाच्चैव विमानितः | परेषामास्पदं नीतो वस्तुं नार्हाम्यहं त्वयि ॥७२॥ स्वसन्तुष्टाश्च्युताः स्थानान्मानात्प्रत्यवरोपिताः | स्वयं चोपहृता भृत्या ये चाप्युपहृताः परैः ॥७३॥ परिक्षीणाश्च लुब्धाश्च क्रूराः काराभितापिताः | हृतस्वा मानिनो ये च त्यक्तोपात्ता महेप्सवः ॥७४॥ सन्तापिताश्च ये केचिद्व्यसनौघप्रतीक्षिणः | अन्तर्हिताः सोपहिताः सर्वे ते परसाधनाः ॥७५॥ अवमानेन युक्तस्य स्थापितस्य च मे पुनः | कथं यास्यसि विश्वासमहमेष्यामि वा पुनः ॥७६॥ समर्थ इति सङ्गृह्य स्थापयित्वा परीक्ष्य च | कृतं च समयं भित्त्वा त्वयाहमवमानितः ॥७७॥ प्रथमं यः समाख्यातः शीलवानिति संसदि | न वाच्यं तस्य वैगुण्यं प्रतिज्ञां परिरक्षता ॥७८॥ एवं चावमतस्येह विश्वासं किं प्रयास्यसि | त्वयि चैव ह्यविश्वासे ममोद्वेगो भविष्यति ॥७९॥ शङ्कितस्त्वमहं भीतः परे छिद्रानुदर्शिनः | अस्निग्धाश्चैव दुस्तोषाः कर्म चैतद्बहुच्छलम् ॥८०॥ दुःखेन श्लेष्यते भिन्नं श्लिष्टं दुःखेन भिद्यते | भिन्नश्लिष्टा तु या प्रीतिर्न सा स्नेहेन वर्तते ॥८१॥ कश्चिदेव हि भीतस्तु दृश्यते न परात्मनोः | कार्यापेक्षा हि वर्तन्ते भावाः स्निग्धास्तु दुर्लभाः ॥८२॥ सुदुःखं पुरुषज्ञानं चित्तं ह्येषां चलाचलम् | समर्थो वाप्यशक्तो वा शतेष्वेकोऽधिगम्यते ॥८३॥ अकस्मात्प्रक्रिया नॄणामकस्माच्चापकर्षणम् | शुभाशुभे महत्त्वं च प्रकर्तुं बुद्धिलाघवात् ॥८४॥ एवं बहुविधं सान्त्वमुक्त्वा धर्मार्थहेतुमत् | प्रसादयित्वा राजानं गोमायुर्वनमभ्यगात् ॥८५॥ अगृह्यानुनयं तस्य मृगेन्द्रस्य स बुद्धिमान् | गोमायुः प्रायमासीनस्त्यक्त्वा देहं दिवं ययौ ॥८६॥ 12.111.90
bhīṣmeṇa yudhiṣṭhiraṃprati parīkṣāyāḥ saumyāsaumyatvanirdhāraṇasādhanatāpratipādakavyāghragomāyucaritakathanam|| 1|| yudhiṣṭhira uvāca|| asaumyāḥ saumyarūpeṇa saumyāścāsaumyadarśinaḥ | īdṛśānpuruṣāṃstāta kathaṃ vidyāmahe vayam ||1|| bhīṣma uvāca|| atrāpyudāharantīmamitihāsaṃ purātanam | vyāghragomāyusaṃvādaṃ taṃ nibodha yudhiṣṭhira ||2|| purikāyāṃ puri purā śrīmatyāṃ pauriko nṛpaḥ | parahiṃsāruciḥ krūro babhūva puruṣādhamaḥ ||3|| sa tvāyuṣi parikṣīṇe jagāmānīpsitāṃ gatim | gomāyutvaṃ ca samprāpto dūṣitaḥ pūrvakarmaṇā ||4|| saṃsmṛtya pūrvajātiṃ sa nirvedaṃ paramaṃ gataḥ | na bhakṣayati māṃsāni parairupahṛtānyapi ||5|| ahiṃsraḥ sarvabhūteṣu satyavāksudṛḍhavrataḥ | cakāra ca yathākāmamāhāraṃ patitaiḥ phalaiḥ ||6|| śmaśāne tasya cāvāso gomāyoḥ saṃmato'bhavat | janmabhūmyanurodhācca nānyadvāsamarocayat ||7|| tasya śaucamamṛṣyantaḥ sarve te sahajātayaḥ | cālayanti sma tāṃ buddhiṃ vacanaiḥ praśrayottaraiḥ ||8|| vasanpitṛvane raudre śaucaṃ lapsitumicchasi | iyaṃ vipratipattiste yadā tvaṃ piśitāśanaḥ ||9|| tatsamo vā bhavāsmābhirbhakṣyāndāsyāmahe vayam | bhuṅkṣva śaucaṃ parityajya yaddhi bhuktaṃ tadasti te ||10|| iti teṣāṃ vacaḥ śrutvā pratyuvāca samāhitaḥ | madhuraiḥ praśritairvākyairhetumadbhiraniṣṭhuraiḥ ||11|| apramāṇaṃ prasūtirme śīlataḥ kriyate kulam | prārthayiṣye tu tatkarma yena vistīryate yaśaḥ ||12|| śmaśāne yadi vāso me samādhirme niśāmyatām | ātmā phalati karmāṇi nāśramo dharmalakṣaṇam ||13|| āśrame yo dvijaṃ hanyādgāṃ vā dadyādanāśrame | kiṃ nu tatpātakaṃ na syāttadvā dattaṃ vṛthā bhavet ||14|| bhavantaḥ sarvalobhena kevalaṃ bhakṣaṇe ratāḥ | anubandhe tu ye doṣāstānna paśyanti mohitāḥ ||15|| apratyayakṛtāṃ garhyāmarthāpanayadūṣitām | iha cāmutra cāniṣṭāṃ tasmādvṛttiṃ na rocaye ||16|| taṃ śuciṃ paṇḍitaṃ matvā śārdūlaḥ khyātavikramaḥ | kṛtvātmasadṛśāṃ pūjāṃ sācivye'vardhayatsvayam ||17|| saumya vijñātarūpastvaṃ gaccha yātrāṃ mayā saha | vriyantāmīpsitā bhogāḥ parihāryāśca puṣkalāḥ ||18|| tīkṣṇā vayamiti khyātā bhavato jñāpayāmahe | mṛdupūrvaṃ ghātinaste śreyaścādhigamiṣyati ||19|| atha sampūjya tadvākyaṃ mṛgendrasya mahātmanaḥ | gomāyuḥ praśritaṃ vākyaṃ babhāṣe kiñcidānataḥ ||20|| sadṛśaṃ mṛgarājaitattava vākyaṃ madantare | yatsahāyānmṛgayase dharmārthakuśalāñśucīn ||21|| na śakyamanamātyena mahattvamanuśāsitum | duṣṭāmātyena vā vīra śarīraparipanthinā ||22|| sahāyānanuraktāṃstu yatetānupasaṃhitān | parasparamasaṅghuṣṭānvijigīṣūnalolupān ||23|| tānatītopadhānprājñānhite yuktānmanasvinaḥ | pūjayethā mahābhāgānyathācāryānyathā pitṝn ||24|| na tvevaṃ mama santoṣādrocate'nyanmṛgādhipa | na kāmaye sukhānbhogānaiśvaryaṃ vā tvadāśrayam ||25|| na yokṣyati hi me śīlaṃ tava bhṛtyaiḥ purātanaiḥ | te tvāṃ vibhedayiṣyanti duḥkhaśīlā madantare ||26|| saṃśrayaḥ ślāghanīyastvamanyeṣāmapi bhāsvatām | kṛtātmā sumahābhāgaḥ pāpakeṣvapyadāruṇaḥ ||27|| dīrghadarśī mahotsāhaḥ sthūlalakṣyo mahābalaḥ | kṛtī cāmoghakartāsi bhāvyaiśca samalaṅkṛtaḥ ||28|| kiṃ tu svenāsmi santuṣṭo duḥkhā vṛttiranuṣṭhitā | sevāyāścāpi nābhijñaḥ svacchandena vanecaraḥ ||29|| rājopakrośadoṣāśca sarve saṃśrayavāsinām | vanacaryā ca niḥsaṅgā nirbhayā niravagrahā ||30|| nṛpeṇāhūyamānasya yattiṣṭhati bhayaṃ hṛdi | na tattiṣṭhati tuṣṭānāṃ vane mūlaphalāśinām ||31|| pānīyaṃ vā nirāyāsaṃ svādvannaṃ vā bhayottaram | vicārya khalu paśyāmi tatsukhaṃ yatra nirvṛtiḥ ||32|| aparādhairna tāvanto bhṛtyāḥ śiṣṭā narādhipaiḥ | upaghātairyathā bhṛtyā dūṣitā nidhanaṃ gatāḥ ||33|| yadi tvetanmayā kāryaṃ mṛgendro yadi manyate | samayaṃ kṛtamicchāmi vartitavyaṃ yathā mayi ||34|| madīyā mānanīyāste śrotavyaṃ ca hitaṃ vacaḥ | kalpitā yā ca te vṛttiḥ sā bhavettava susthirā ||35|| na mantrayeyamanyaiste sacivaiḥ saha karhicit | nītimantaḥ parīpsanto vṛthā brūyuḥ pare mayi ||36|| eka ekena saṅgamya raho brūyāṃ hitaṃ tava | na ca te jñātikāryeṣu praṣṭavyo'haṃ hitāhite ||37|| mayā saṃmantrya paścācca na hiṃsyāḥ sacivāstvayā | madīyānāṃ ca kupito mā tvaṃ daṇḍaṃ nipātayeḥ ||38|| evamastviti tenāsau mṛgendreṇābhipūjitaḥ | prāptavānmatisācivyaṃ gomāyurvyāghrayonitaḥ ||39|| taṃ tathā satkṛtaṃ dṛṣṭvā yujyamānaṃ ca karmaṇi | prādviṣankṛtasaṅghātāḥ pūrvabhṛtyā muhurmuhuḥ ||40|| mitrabuddhyā ca gomāyuṃ sāntvayitvā praveśya ca | doṣeṣu samatāṃ netumaicchannaśubhabuddhayaḥ ||41|| anyathā hyucitāḥ pūrvaṃ paradravyāpahāriṇaḥ | aśaktāḥ kiñcidādātuṃ dravyaṃ gomāyuyantritāḥ ||42|| vyutthānaṃ cātra kāṅkṣadbhiḥ kathābhiḥ pravilobhyate | dhanena mahatā caiva buddhirasya vilobhyate ||43|| na cāpi sa mahāprājñastasmāddhairyāccacāla ha | athāsya samayaṃ kṛtvā vināśāya sthitāḥ pare ||44|| īpsitaṃ ca mṛgendrasya māṃsaṃ yattatra saṃskṛtam | apanīya svayaṃ taddhi tairnyastaṃ tasya veśmani ||45|| yadarthaṃ cāpyapahṛtaṃ yena yaccaiva mantritam | tasya tadviditaṃ sarvaṃ kāraṇārthaṃ ca marṣitam ||46|| samayo'yaṃ kṛtastena sācivyamupagacchatā | nopaghātastvayā grāhyo rājanmaitrīmihecchatā ||47|| bhojane copahartavye tanmāṃsaṃ na sma dṛśyate | mṛgarājena cājñaptaṃ mṛgyatāṃ cora ityuta ||48|| kṛtakaiścāpi tanmāṃsaṃ mṛgendrāyopavarṇitam | sacivenopanītaṃ te viduṣā prājñamāninā ||49|| saroṣastvatha śārdūlaḥ śrutvā gomāyucāpalam | babhūvāmarṣito rājā vadhaṃ cāsyābhyarocayat ||50|| chidraṃ tu tasya taddṛṣṭvā procuste pūrvamantriṇaḥ | sarveṣāmeva so'smākaṃ vṛttibhaṅgeṣu vartate ||51|| idaṃ cāsyedṛśaṃ karma vāllabhyena tu rakṣyate | śrutaśca svāminā pūrvaṃ yādṛśo naiṣa tādṛśaḥ ||52|| vāṅmātreṇaiva dharmiṣṭhaḥ svabhāvena tu dāruṇaḥ | dharmacchadmā hyayaṃ pāpo vṛthācāraparigrahaḥ ||53|| kāryārthaṃ bhojanārtheṣu vrateṣu kṛtavāñśramam ||53|| māṃsāpanayanaṃ jñātvā vyāghrasteṣāṃ tu tadvacaḥ | ājñāpayāmāsa tadā gomāyurvadhyatāmiti ||54|| śārdūlavacanaṃ śrutvā śārdūlajananī tataḥ | mṛgarājaṃ hitairvākyaiḥ sambodhayitumāgamat ||55|| putra naitattvayā grāhyaṃ kapaṭārambhasaṃvṛtam | karmasaṅgharṣajairdoṣairduṣyatyaśucibhiḥ śuciḥ ||56|| nocchritaṃ sahate kaścitprakriyā vairakārikā | śucerapi hi yuktasya doṣa eva nipātyate ||57|| lubdhānāṃ śucayo dveṣyāḥ kātarāṇāṃ tarasvinaḥ | mūrkhāṇāṃ paṇḍitā dveṣyā daridrāṇāṃ mahādhanāḥ ||58|| adhārmikāṇāṃ dharmiṣṭhā virūpāṇāṃ surūpakāḥ ||58|| bahavaḥ paṇḍitā lubdhāḥ sarve māyopajīvinaḥ | kuryurdoṣamadoṣasya bṛhaspatimaterapi ||59|| śūnyāttacca gṛhānmāṃsaṃ yadadyāpahṛtaṃ tava | necchate dīyamānaṃ ca sādhu tāvadvimṛśyatām ||60|| asatyāḥ satyasaṅkāśāḥ satyāścāsatyadarśinaḥ | dṛśyante vividhā bhāvāsteṣu yuktaṃ parīkṣaṇam ||61|| talavaddṛśyate vyoma khadyoto havyavāḍiva | na caivāsti talaṃ vyomni na khadyote hutāśanaḥ ||62|| tasmātpratyakṣadṛṣṭo'pi yuktamarthaḥ parīkṣitum | parīkṣya jñāpayanhyarthānna paścātparitapyate ||63|| na duṣkaramidaṃ putra yatprabhurghātayetparam | ślāghanīyā ca varyā ca loke prabhavatāṃ kṣamā ||64|| sthāpito'yaṃ putra tvayā sāmanteṣvadhi viśrutaḥ | duḥkhenāsādyate pātraṃ dhāryatāmeṣa te suhṛt ||65|| dūṣitaṃ paradoṣairhi gṛhṇīte yo'nyathā śucim | svayaṃ saṃdūṣitāmātyaḥ kṣiprameva vinaśyati ||66|| tasmādathārisaṅghātādgomāyoḥ kaścidāgataḥ | dharmātmā tena cākhyātaṃ yathaitatkapaṭaṃ kṛtam ||67|| tato vijñātacāritraḥ satkṛtya sa vimokṣitaḥ | pariṣvaktaśca sasnehaṃ mṛgendreṇa punaḥ punaḥ ||68|| anujñāpya mṛgendraṃ tu gomāyurnītiśāstravit | tenāmarṣeṇa santaptaḥ prāyamāsitumaicchata ||69|| śārdūlastatra gomāyuṃ snehātprasrutalocanaḥ | avārayatsa dharmiṣṭhaṃ pūjayā pratipūjayan ||70|| taṃ sa gomāyurālokya snehādāgatasambhramam | babhāṣe praṇato vākyaṃ bāṣpagadgadayā girā ||71|| pūjito'haṃ tvayā pūrvaṃ paścāccaiva vimānitaḥ | pareṣāmāspadaṃ nīto vastuṃ nārhāmyahaṃ tvayi ||72|| svasantuṣṭāścyutāḥ sthānānmānātpratyavaropitāḥ | svayaṃ copahṛtā bhṛtyā ye cāpyupahṛtāḥ paraiḥ ||73|| parikṣīṇāśca lubdhāśca krūrāḥ kārābhitāpitāḥ | hṛtasvā mānino ye ca tyaktopāttā mahepsavaḥ ||74|| santāpitāśca ye kecidvyasanaughapratīkṣiṇaḥ | antarhitāḥ sopahitāḥ sarve te parasādhanāḥ ||75|| avamānena yuktasya sthāpitasya ca me punaḥ | kathaṃ yāsyasi viśvāsamahameṣyāmi vā punaḥ ||76|| samartha iti saṅgṛhya sthāpayitvā parīkṣya ca | kṛtaṃ ca samayaṃ bhittvā tvayāhamavamānitaḥ ||77|| prathamaṃ yaḥ samākhyātaḥ śīlavāniti saṃsadi | na vācyaṃ tasya vaiguṇyaṃ pratijñāṃ parirakṣatā ||78|| evaṃ cāvamatasyeha viśvāsaṃ kiṃ prayāsyasi | tvayi caiva hyaviśvāse mamodvego bhaviṣyati ||79|| śaṅkitastvamahaṃ bhītaḥ pare chidrānudarśinaḥ | asnigdhāścaiva dustoṣāḥ karma caitadbahucchalam ||80|| duḥkhena śleṣyate bhinnaṃ śliṣṭaṃ duḥkhena bhidyate | bhinnaśliṣṭā tu yā prītirna sā snehena vartate ||81|| kaścideva hi bhītastu dṛśyate na parātmanoḥ | kāryāpekṣā hi vartante bhāvāḥ snigdhāstu durlabhāḥ ||82|| suduḥkhaṃ puruṣajñānaṃ cittaṃ hyeṣāṃ calācalam | samartho vāpyaśakto vā śateṣveko'dhigamyate ||83|| akasmātprakriyā nṝṇāmakasmāccāpakarṣaṇam | śubhāśubhe mahattvaṃ ca prakartuṃ buddhilāghavāt ||84|| evaṃ bahuvidhaṃ sāntvamuktvā dharmārthahetumat | prasādayitvā rājānaṃ gomāyurvanamabhyagāt ||85|| agṛhyānunayaṃ tasya mṛgendrasya sa buddhimān | gomāyuḥ prāyamāsīnastyaktvā dehaṃ divaṃ yayau ||86|| 12.111.90
Verse 16
विप्रतिपत्तिर्विपरीता बुद्धिः।।
vipratipattirviparītā buddhiḥ||
Verse 17
अनुबन्धेषु परिणामेषु।।
anubandheṣu pariṇāmeṣu||
Verse 19
अप्रत्ययोऽसंतोषस्तेन कृताम्। अर्थापनयो धर्महानिः।।
apratyayo'saṃtoṣastena kṛtām| arthāpanayo dharmahāniḥ||
Verse 20
यात्रां राजकार्यं गच्छ प्राप्नुहि। परिहार्याश्चानीप्सिताः।।
yātrāṃ rājakāryaṃ gaccha prāpnuhi| parihāryāścānīpsitāḥ||
Verse 22
ज्ञापयामहे सूचयामहे।।
jñāpayāmahe sūcayāmahe||
Verse 23
मदन्तरे मन्निमित्तम्।।
madantare mannimittam||
Verse 26
न शक्यम्। राज्ञेति शेषः।।
na śakyam| rājñeti śeṣaḥ||
Verse 27
-- ----- -- सन्तोशदिति ट. ड. थ. द. पाठः।।
-- ----- -- santośaditi ṭa. ḍa. tha. da. pāṭhaḥ||
Verse 29
योक्ष्यति योगं प्राप्स्यति। दुःखशीला भविष्यन्ति।।
yokṣyati yogaṃ prāpsyati| duḥkhaśīlā bhaviṣyanti||
Verse 31
स्थूललक्षो बहुप्रदः।।
sthūlalakṣo bahupradaḥ||
Verse 33
उपक्रोधो निन्दा तज्जा दोषा उपक्रोशदोषाः सन्ति।।
upakrodho nindā tajjā doṣā upakrośadoṣāḥ santi||
Verse 34
यत्र निर्वृतिः सुखं तत्खलु सुखं स्वर्गं पश्यामि। निर्वृतिः सुस्थितिरिति वा।।
yatra nirvṛtiḥ sukhaṃ tatkhalu sukhaṃ svargaṃ paśyāmi| nirvṛtiḥ susthitiriti vā||
Verse 46
शिष्टाः कृतदण्डः।।
śiṣṭāḥ kṛtadaṇḍaḥ||
Verse 47
तस्य गोमायोर्वेश्मनि।।
tasya gomāyorveśmani||
Verse 51
तस्य गोमायोः। कारणार्थं स्वस्य बन्धविच्छेदो भवत्विति हेतोरित्यर्थः।।
tasya gomāyoḥ| kāraṇārthaṃ svasya bandhavicchedo bhavatviti hetorityarthaḥ||
Verse 55
परोक्षस्त्वथ इति ट. द. पाठः।।
parokṣastvatha iti ṭa. da. pāṭhaḥ||
Verse 56
विप्रत्ययोऽविश्वासः।।
vipratyayo'viśvāsaḥ||
Verse 58
गोमायोर्गृहे ढौकीतं प्रवेशितं मांसं प्रदर्शयामासुरित्यर्थः। तत्क्षणादेव दर्शितं इति द. पाठः।।
gomāyorgṛhe ḍhaukītaṃ praveśitaṃ māṃsaṃ pradarśayāmāsurityarthaḥ| tatkṣaṇādeva darśitaṃ iti da. pāṭhaḥ||
Verse 59
शार्दूलस्य वचः श्रुत्वा इति झ. पाठः।।
śārdūlasya vacaḥ śrutvā iti jha. pāṭhaḥ||
Verse 60
संघर्षजैः स्पर्धोत्थैः।।
saṃgharṣajaiḥ spardhotthaiḥ||
Verse 66
प्रक्रिया प्रकृष्टं कर्म।।
prakriyā prakṛṣṭaṃ karma||
Verse 68
तलवत् अवाङ्भुस्वकटाहगर्भवत्।।
talavat avāṅbhusvakaṭāhagarbhavat||
Verse 71
प्रभवतां प्रभूणाम्।।
prabhavatāṃ prabhūṇām||
Verse 73
गोमायोश्चारः।।
gomāyoścāraḥ||
Verse 76
प्रायं मरणार्थमुपवेशनं आसितुं आचरितुम्।।
prāyaṃ maraṇārthamupaveśanaṃ āsituṃ ācaritum||
Verse 79
वक्तुं नार्होस्म्यहं त्वया इति ट. ड. द. पाठः।।
vaktuṃ nārhosmyahaṃ tvayā iti ṭa. ḍa. da. pāṭhaḥ||
Verse 84
अपरसाश्च अधनाश्चेति अपरसाधनाः। प्रीतिशून्या निर्घनाश्चेत्यर्थः।।
aparasāśca adhanāśceti aparasādhanāḥ| prītiśūnyā nirghanāścetyarthaḥ||
Verse 87
छिद्रानुदर्शिनः इति झ. पाठः।।
chidrānudarśinaḥ iti jha. pāṭhaḥ||
Verse 88
पुरुषज्ञानं सुदुःखं दुर्लभं यत एषां नृपाणां चित्तं चलाचलमस्थिरं गम्यते ज्ञायते सुपुरुषज्ञानं दुर्धटमित्यर्थः।।
puruṣajñānaṃ suduḥkhaṃ durlabhaṃ yata eṣāṃ nṛpāṇāṃ cittaṃ calācalamasthiraṃ gamyate jñāyate supuruṣajñānaṃ durdhaṭamityarthaḥ||
Verse 89
प्रक्रिया महीकरणं बुद्धेर्लाघवं तुच्छत्वमेव हेतुः।।
prakriyā mahīkaraṇaṃ buddherlāghavaṃ tucchatvameva hetuḥ||
Verse 90
प्रसादयित्वा प्रसाद्य।।
prasādayitvā prasādya||