Sukta 66
Mandala 9 · 30 rks
30 rks · free forever
Uses your saved HI voice · Narration settings
Rk 1
पव॑स्व विश्वचर्षणे॒ऽभि विश्वा॑नि॒ काव्या॑ सखा॒ सखि॑भ्य॒ ईड्यः॑
Rk 2
ताभ्यां॒ विश्व॑स्य राजसि॒ ये प॑वमान॒ धाम॑नी प्र॒ती॒ची सो॑म त॒स्थतुः॑
Rk 3
परि॒ धामा॑नि॒ यानि॑ ते॒ त्वं सो॑मासि वि॒श्वतः॑ पव॑मान ऋ॒तुभिः॑ कवे
Rk 4
पव॑स्व ज॒नय॒न्निषो॒ऽभि विश्वा॑नि॒ वार्या॑ सखा॒ सखि॑भ्य ऊ॒तये॑
Rk 5
तव॑ शु॒क्रासो॑ अ॒र्चयो॑ दि॒वस्पृ॒ष्ठे वि त॑न्वते प॒वित्रं॑ सोम॒ धाम॑भिः
Rk 6
तवे॒मे स॒प्त सिन्ध॑वः प्र॒शिषं॑ सोम सिस्रते तुभ्यं॑ धावन्ति धे॒नवः॑
Rk 7
प्र सो॑म याहि॒ धार॑या सु॒त इन्द्रा॑य मत्स॒रः दधा॑नो॒ अक्षि॑ति॒ श्रवः॑
Rk 8
समु॑ त्वा धी॒भिर॑स्वरन्हिन्व॒तीः स॒प्त जा॒मयः॑ विप्र॑मा॒जा वि॒वस्व॑तः
Rk 9
मृ॒जन्ति॑ त्वा॒ सम॒ग्रुवोऽव्ये॑ जी॒रावधि॒ ष्वणि॑ रे॒भो यद॒ज्यसे॒ वने॑
Rk 10
पव॑मानस्य ते कवे॒ वाजि॒न्त्सर्गा॑ असृक्षत अर्व॑न्तो॒ न श्र॑व॒स्यवः॑
Rk 11
अच्छा॒ कोशं॑ मधु॒श्चुत॒मसृ॑ग्रं॒ वारे॑ अ॒व्यये॑ अवा॑वशन्त धी॒तयः॑
Rk 12
अच्छा॑ समु॒द्रमिन्द॒वोऽस्तं॒ गावो॒ न धे॒नवः॑ अग्म॑न्नृ॒तस्य॒ योनि॒मा
Rk 13
प्र ण॑ इन्दो म॒हे रण॒ आपो॑ अर्षन्ति॒ सिन्ध॑वः यद्गोभि॑र्वासयि॒ष्यसे॑
Rk 14
अस्य॑ ते स॒ख्ये व॒यमिय॑क्षन्त॒स्त्वोत॑यः इन्दो॑ सखि॒त्वमु॑श्मसि
Rk 15
आ प॑वस्व॒ गवि॑ष्टये म॒हे सो॑म नृ॒चक्ष॑से एन्द्र॑स्य ज॒ठरे॑ विश
Rk 16
म॒हाँ अ॑सि सोम॒ ज्येष्ठ॑ उ॒ग्राणा॑मिन्द॒ ओजि॑ष्ठः युध्वा॒ सञ्छश्व॑ज्जिगेथ
Rk 17
य उ॒ग्रेभ्य॑श्चि॒दोजी॑या॒ञ्छूरे॑भ्यश्चि॒च्छूर॑तरः भू॒रि॒दाभ्य॑श्चि॒न्मंही॑यान्
Rk 18
त्वं सो॑म॒ सूर॒ एष॑स्तो॒कस्य॑ सा॒ता त॒नूना॑म् वृ॒णी॒महे॑ स॒ख्याय॑ वृणी॒महे॒ युज्या॑य
Rk 19
अग्न॒ आयूं॑षि पवस॒ आ सु॒वोर्ज॒मिषं॑ च नः आ॒रे बा॑धस्व दु॒च्छुना॑म्
Rk 20
अ॒ग्निर्ऋषिः॒ पव॑मानः॒ पाञ्च॑जन्यः पु॒रोहि॑तः तमी॑महे महाग॒यम्
Rk 21
अग्ने॒ पव॑स्व॒ स्वपा॑ अ॒स्मे वर्चः॑ सु॒वीर्य॑म् दध॑द्र॒यिं मयि॒ पोष॑म्
Rk 22
पव॑मानो॒ अति॒ स्रिधो॒ऽभ्य॑र्षति सुष्टु॒तिम् सूरो॒ न वि॒श्वद॑र्शतः
Rk 23
स म॑र्मृजा॒न आ॒युभिः॒ प्रय॑स्वा॒न्प्रय॑से हि॒तः इन्दु॒रत्यो॑ विचक्ष॒णः
Rk 24
पव॑मान ऋ॒तं बृ॒हच्छु॒क्रं ज्योति॑रजीजनत् कृ॒ष्णा तमां॑सि॒ जङ्घ॑नत्
Rk 25
पव॑मानस्य॒ जङ्घ्न॑तो॒ हरे॑श्च॒न्द्रा अ॑सृक्षत जी॒रा अ॑जि॒रशो॑चिषः
Rk 26
पव॑मानो र॒थीत॑मः शु॒भ्रेभिः॑ शु॒भ्रश॑स्तमः हरि॑श्चन्द्रो म॒रुद्ग॑णः
Rk 27
पव॑मानो॒ व्य॑श्नवद्र॒श्मिभि॑र्वाज॒सात॑मः दध॑त्स्तो॒त्रे सु॒वीर्य॑म्
Rk 28
प्र सु॑वा॒न इन्दु॑रक्षाः प॒वित्र॒मत्य॒व्यय॑म् पु॒ना॒न इन्दु॒रिन्द्र॒मा
Rk 29
ए॒ष सोमो॒ अधि॑ त्व॒चि गवां॑ क्रीळ॒त्यद्रि॑भिः इन्द्रं॒ मदा॑य॒ जोहु॑वत्
Rk 30
यस्य॑ ते द्यु॒म्नव॒त्पयः॒ पव॑मा॒नाभृ॑तं दि॒वः तेन॑ नो मृळ जी॒वसे॑