Sukta 38
Mandala 9 · 6 rks
6 rks · free forever
Listen to this section
Uses your saved HI voice · Narration settings
Rk 1
ए॒ष उ॒ स्य वृषा॒ रथोऽव्यो॒ वारे॑भिरर्षति गच्छ॒न्वाजं॑ सह॒स्रिण॑म्
Rk 2
ए॒तं त्रि॒तस्य॒ योष॑णो॒ हरिं॑ हिन्व॒न्त्यद्रि॑भिः इन्दु॒मिन्द्रा॑य पी॒तये॑
Rk 3
ए॒तं त्यं ह॒रितो॒ दश॑ मर्मृ॒ज्यन्ते॑ अप॒स्युवः॑ याभि॒र्मदा॑य॒ शुम्भ॑ते
Rk 4
ए॒ष स्य मानु॑षी॒ष्वा श्ये॒नो न वि॒क्षु सी॑दति गच्छ॑ञ्जा॒रो न यो॒षित॑म्
Rk 5
ए॒ष स्य मद्यो॒ रसोऽव॑ चष्टे दि॒वः शिशुः॑ य इन्दु॒र्वार॒मावि॑शत्
Rk 6
ए॒ष स्य पी॒तये॑ सु॒तो हरि॑रर्षति धर्ण॒सिः क्रन्द॒न्योनि॑म॒भि प्रि॒यम्