Sukta 1
Mandala 9 · 10 rks
10 rks · free forever
Uses your saved HI voice · Narration settings
Rk 1
स्वादि॑ष्ठया॒ मदि॑ष्ठया॒ पव॑स्व सोम॒ धार॑या इन्द्रा॑य॒ पात॑वे सु॒तः
Rk 2
र॒क्षो॒हा वि॒श्वच॑र्षणिर॒भि योनि॒मयो॑हतम् द्रुणा॑ स॒धस्थ॒मास॑दत्
Rk 3
व॒रि॒वो॒धात॑मो भव॒ मंहि॑ष्ठो वृत्र॒हन्त॑मः पर्षि॒ राधो॑ म॒घोना॑म्
Rk 4
अ॒भ्य॑र्ष म॒हानां॑ दे॒वानां॑ वी॒तिमन्ध॑सा अ॒भि वाज॑मु॒त श्रवः॑
Rk 5
त्वामच्छा॑ चरामसि॒ तदिदर्थं॑ दि॒वेदि॑वे इन्दो॒ त्वे न॑ आ॒शसः॑
Rk 6
पु॒नाति॑ ते परि॒स्रुतं॒ सोमं॒ सूर्य॑स्य दुहि॒ता वारे॑ण॒ शश्व॑ता॒ तना॑
Rk 7
तमी॒मण्वीः॑ सम॒र्य आ गृ॒भ्णन्ति॒ योष॑णो॒ दश॑ स्वसा॑रः॒ पार्ये॑ दि॒वि
Rk 8
तमीं॑ हिन्वन्त्य॒ग्रुवो॒ धम॑न्ति बाकु॒रं दृति॑म् त्रि॒धातु॑ वार॒णं मधु॑
Rk 9
अ॒भी॒३॒॑ममघ्न्या॑ उ॒त श्री॒णन्ति॑ धे॒नवः॒ शिशु॑म् सोम॒मिन्द्रा॑य॒ पात॑वे
Rk 10
अ॒स्येदिन्द्रो॒ मदे॒ष्वा विश्वा॑ वृ॒त्राणि॑ जिघ्नते शूरो॑ म॒घा च॑ मंहते