Sukta 83
Mandala 8 · 9 rks
9 rks · free forever
Listen to this section
Uses your saved HI voice · Narration settings
Rk 1
दे॒वाना॒मिदवो॑ म॒हत्तदा वृ॑णीमहे व॒यम् वृष्णा॑म॒स्मभ्य॑मू॒तये॑
Rk 2
ते नः॑ सन्तु॒ युजः॒ सदा॒ वरु॑णो मि॒त्रो अ॑र्य॒मा वृ॒धास॑श्च॒ प्रचे॑तसः
Rk 3
अति॑ नो विष्पि॒ता पु॒रु नौ॒भिर॒पो न प॑र्षथ यू॒यमृ॒तस्य॑ रथ्यः
Rk 4
वा॒मं नो॑ अस्त्वर्यमन्वा॒मं व॑रुण॒ शंस्य॑म् वा॒मं ह्या॑वृणी॒महे॑
Rk 5
वा॒मस्य॒ हि प्र॑चेतस॒ ईशा॑नाशो रिशादसः नेमा॑दित्या अ॒घस्य॒ यत्
Rk 6
व॒यमिद्वः॑ सुदानवः क्षि॒यन्तो॒ यान्तो॒ अध्व॒न्ना देवा॑ वृ॒धाय॑ हूमहे
Rk 7
अधि॑ न इन्द्रैषां॒ विष्णो॑ सजा॒त्या॑नाम् इ॒ता मरु॑तो॒ अश्वि॑ना
Rk 8
प्र भ्रा॑तृ॒त्वं सु॑दान॒वोऽध॑ द्वि॒ता स॑मा॒न्या मा॒तुर्गर्भे॑ भरामहे
Rk 9
यू॒यं हि ष्ठा सु॑दानव॒ इन्द्र॑ज्येष्ठा अ॒भिद्य॑वः अधा॑ चिद्व उ॒त ब्रु॑वे