Sukta 72
Mandala 8 · 18 rks
18 rks · free forever
Uses your saved HI voice · Narration settings
Rk 1
ह॒विष्कृ॑णुध्व॒मा ग॑मदध्व॒र्युर्व॑नते॒ पुनः॑ वि॒द्वाँ अ॑स्य प्र॒शास॑नम्
Rk 2
नि ति॒ग्मम॒भ्यं१॒॑शुं सीद॒द्धोता॑ म॒नावधि॑ जु॒षा॒णो अ॑स्य स॒ख्यम्
Rk 3
अ॒न्तरि॑च्छन्ति॒ तं जने॑ रु॒द्रं प॒रो म॑नी॒षया॑ गृ॒भ्णन्ति॑ जि॒ह्वया॑ स॒सम्
Rk 4
जा॒म्य॑तीतपे॒ धनु॑र्वयो॒धा अ॑रुह॒द्वन॑म् दृ॒षदं॑ जि॒ह्वयाव॑धीत्
Rk 5
चर॑न्व॒त्सो रुश॑न्नि॒ह नि॑दा॒तारं॒ न वि॑न्दते वेति॒ स्तोत॑व अ॒म्ब्य॑म्
Rk 6
उ॒तो न्व॑स्य॒ यन्म॒हदश्वा॑व॒द्योज॑नं बृ॒हद् दा॒मा रथ॑स्य॒ ददृ॑शे
Rk 7
दु॒हन्ति॑ स॒प्तैका॒मुप॒ द्वा पञ्च॑ सृजतः ती॒र्थे सिन्धो॒रधि॑ स्व॒रे
Rk 8
आ द॒शभि॑र्वि॒वस्व॑त॒ इन्द्रः॒ कोश॑मचुच्यवीत् खेद॑या त्रि॒वृता॑ दि॒वः
Rk 9
परि॑ त्रि॒धातु॑रध्व॒रं जू॒र्णिरे॑ति॒ नवी॑यसी मध्वा॒ होता॑रो अञ्जते
Rk 10
सि॒ञ्चन्ति॒ नम॑साव॒तमु॒च्चाच॑क्रं॒ परि॑ज्मानम् नी॒चीन॑बार॒मक्षि॑तम्
Rk 11
अ॒भ्यार॒मिदद्र॑यो॒ निषि॑क्तं॒ पुष्क॑रे॒ मधु॑ अ॒व॒तस्य॑ वि॒सर्ज॑ने
Rk 12
गाव॒ उपा॑वताव॒तं म॒ही य॒ज्ञस्य॑ र॒प्सुदा॑ उ॒भा कर्णा॑ हिर॒ण्यया॑
Rk 13
आ सु॒ते सि॑ञ्चत॒ श्रियं॒ रोद॑स्योरभि॒श्रिय॑म् र॒सा द॑धीत वृष॒भम्
Rk 14
ते जा॑नत॒ स्वमो॒क्यं१॒॑ सं व॒त्सासो॒ न मा॒तृभिः॑ मि॒थो न॑सन्त जा॒मिभिः॑
Rk 15
उप॒ स्रक्वे॑षु॒ बप्स॑तः कृण्व॒ते ध॒रुणं॑ दि॒वि इन्द्रे॑ अ॒ग्ना नमः॒ स्वः॑
Rk 16
अधु॑क्षत्पि॒प्युषी॒मिष॒मूर्जं॑ स॒प्तप॑दीम॒रिः सूर्य॑स्य स॒प्त र॒श्मिभिः॑
Rk 17
सोम॑स्य मित्रावरु॒णोदि॑ता॒ सूर॒ आ द॑दे तदातु॑रस्य भेष॒जम्
Rk 18
उ॒तो न्व॑स्य॒ यत्प॒दं ह॑र्य॒तस्य॑ निधा॒न्य॑म् परि॒ द्यां जि॒ह्वया॑तनत्