Sukta 45
Mandala 8 · 42 rks
42 rks · free forever
Uses your saved HI voice · Narration settings
Rk 1
आ घा॒ ये अ॒ग्निमि॑न्ध॒ते स्तृ॒णन्ति॑ ब॒र्हिरा॑नु॒षक् येषा॒मिन्द्रो॒ युवा॒ सखा॑
Rk 2
बृ॒हन्निदि॒ध्म ए॑षां॒ भूरि॑ श॒स्तं पृ॒थुः स्वरुः॑ येषा॒मिन्द्रो॒ युवा॒ सखा॑
Rk 3
अयु॑द्ध॒ इद्यु॒धा वृतं॒ शूर॒ आज॑ति॒ सत्व॑भिः येषा॒मिन्द्रो॒ युवा॒ सखा॑
Rk 4
आ बु॒न्दं वृ॑त्र॒हा द॑दे जा॒तः पृ॑च्छ॒द्वि मा॒तर॑म् क उ॒ग्राः के ह॑ शृण्विरे
Rk 5
प्रति॑ त्वा शव॒सी व॑दद्गि॒रावप्सो॒ न यो॑धिषत् यस्ते॑ शत्रु॒त्वमा॑च॒के
Rk 6
उ॒त त्वं म॑घवञ्छृणु॒ यस्ते॒ वष्टि॑ व॒वक्षि॒ तत् यद्वी॒ळया॑सि वी॒ळु तत्
Rk 7
यदा॒जिं यात्या॑जि॒कृदिन्द्रः॑ स्वश्व॒युरुप॑ र॒थीत॑मो र॒थीना॑म्
Rk 8
वि षु विश्वा॑ अभि॒युजो॒ वज्रि॒न्विष्व॒ग्यथा॑ वृह भवा॑ नः सु॒श्रव॑स्तमः
Rk 9
अ॒स्माकं॒ सु रथं॑ पु॒र इन्द्रः॑ कृणोतु सा॒तये॑ न यं धूर्व॑न्ति धू॒र्तयः॑
Rk 10
वृ॒ज्याम॑ ते॒ परि॒ द्विषोऽरं॑ ते शक्र दा॒वने॑ ग॒मेमेदि॑न्द्र॒ गोम॑तः
Rk 11
शनै॑श्चि॒द्यन्तो॑ अद्रि॒वोऽश्वा॑वन्तः शत॒ग्विनः॑ वि॒वक्ष॑णा अने॒हसः॑
Rk 12
ऊ॒र्ध्वा हि ते॑ दि॒वेदि॑वे स॒हस्रा॑ सू॒नृता॑ श॒ता ज॒रि॒तृभ्यो॑ वि॒मंह॑ते
Rk 13
वि॒द्मा हि त्वा॑ धनंज॒यमिन्द्र॑ दृ॒ळ्हा चि॑दारु॒जम् आ॒दा॒रिणं॒ यथा॒ गय॑म्
Rk 14
क॒कु॒हं चि॑त्त्वा कवे॒ मन्द॑न्तु धृष्ण॒विन्द॑वः आ त्वा॑ प॒णिं यदीम॑हे
Rk 15
यस्ते॑ रे॒वाँ अदा॑शुरिः प्रम॒मर्ष॑ म॒घत्त॑ये तस्य॑ नो॒ वेद॒ आ भ॑र
Rk 16
इ॒म उ॑ त्वा॒ वि च॑क्षते॒ सखा॑य इन्द्र सो॒मिनः॑ पु॒ष्टाव॑न्तो॒ यथा॑ प॒शुम्
Rk 17
उ॒त त्वाब॑धिरं व॒यं श्रुत्क॑र्णं॒ सन्त॑मू॒तये॑ दू॒रादि॒ह ह॑वामहे
Rk 18
यच्छु॑श्रू॒या इ॒मं हवं॑ दु॒र्मर्षं॑ चक्रिया उ॒त भवे॑रा॒पिर्नो॒ अन्त॑मः
Rk 19
यच्चि॒द्धि ते॒ अपि॒ व्यथि॑र्जग॒न्वांसो॒ अम॑न्महि गो॒दा इदि॑न्द्र बोधि नः
Rk 20
आ त्वा॑ र॒म्भं न जिव्र॑यो रर॒भ्मा श॑वसस्पते उ॒श्मसि॑ त्वा स॒धस्थ॒ आ
Rk 21
स्तो॒त्रमिन्द्रा॑य गायत पुरुनृ॒म्णाय॒ सत्व॑ने नकि॒र्यं वृ॑ण्व॒ते यु॒धि
Rk 22
अ॒भि त्वा॑ वृषभा सु॒ते सु॒तं सृ॑जामि पी॒तये॑ तृ॒म्पा व्य॑श्नुही॒ मद॑म्
Rk 23
मा त्वा॑ मू॒रा अ॑वि॒ष्यवो॒ मोप॒हस्वा॑न॒ आ द॑भन् माकीं॑ ब्रह्म॒द्विषो॑ वनः
Rk 24
इ॒ह त्वा॒ गोप॑रीणसा म॒हे म॑न्दन्तु॒ राध॑से सरो॑ गौ॒रो यथा॑ पिब
Rk 25
या वृ॑त्र॒हा प॑रा॒वति॒ सना॒ नवा॑ च चुच्यु॒वे ता सं॒सत्सु॒ प्र वो॑चत
Rk 26
अपि॑बत्क॒द्रुवः॑ सु॒तमिन्द्रः॑ स॒हस्र॑बाह्वे अत्रा॑देदिष्ट॒ पौंस्य॑म्
Rk 27
स॒त्यं तत्तु॒र्वशे॒ यदौ॒ विदा॑नो अह्नवा॒य्यम् व्या॑नट् तु॒र्वणे॒ शमि॑
Rk 28
त॒रणिं॑ वो॒ जना॑नां त्र॒दं वाज॑स्य॒ गोम॑तः स॒मा॒नमु॒ प्र शं॑सिषम्
Rk 29
ऋ॒भु॒क्षणं॒ न वर्त॑व उ॒क्थेषु॑ तुग्र्या॒वृध॑म् इन्द्रं॒ सोमे॒ सचा॑ सु॒ते
Rk 30
यः कृ॒न्तदिद्वि यो॒न्यं त्रि॒शोका॑य गि॒रिं पृ॒थुम् गोभ्यो॑ गा॒तुं निरे॑तवे
Rk 31
यद्द॑धि॒षे म॑न॒स्यसि॑ मन्दा॒नः प्रेदिय॑क्षसि मा तत्क॑रिन्द्र मृ॒ळय॑
Rk 32
द॒भ्रं चि॒द्धि त्वाव॑तः कृ॒तं शृ॒ण्वे अधि॒ क्षमि॑ जिगा॑त्विन्द्र ते॒ मनः॑
Rk 33
तवेदु॒ ताः सु॑की॒र्तयोऽस॑न्नु॒त प्रश॑स्तयः यदि॑न्द्र मृ॒ळया॑सि नः
Rk 34
मा न॒ एक॑स्मि॒न्नाग॑सि॒ मा द्वयो॑रु॒त त्रि॒षु वधी॒र्मा शू॑र॒ भूरि॑षु
Rk 35
बि॒भया॒ हि त्वाव॑त उ॒ग्राद॑भिप्रभ॒ङ्गिणः॑ द॒स्माद॒हमृ॑ती॒षहः॑
Rk 36
मा सख्युः॒ शून॒मा वि॑दे॒ मा पु॒त्रस्य॑ प्रभूवसो आ॒वृत्व॑द्भूतु ते॒ मनः॑
Rk 37
को नु म॑र्या॒ अमि॑थितः॒ सखा॒ सखा॑यमब्रवीत् ज॒हा को अ॒स्मदी॑षते
Rk 38
ए॒वारे॑ वृषभा सु॒तेऽसि॑न्व॒न्भूर्या॑वयः श्व॒घ्नीव॑ नि॒वता॒ चर॑न्
Rk 39
आ त॑ ए॒ता व॑चो॒युजा॒ हरी॑ गृभ्णे सु॒मद्र॑था यदीं॑ ब्र॒ह्मभ्य॒ इद्ददः॑
Rk 40
भि॒न्धि विश्वा॒ अप॒ द्विषः॒ परि॒ बाधो॑ ज॒ही मृधः॑ वसु॑ स्पा॒र्हं तदा भ॑र
Rk 41
यद्वी॒ळावि॑न्द्र॒ यत्स्थि॒रे यत्पर्शा॑ने॒ परा॑भृतम् वसु॑ स्पा॒र्हं तदा भ॑र
Rk 42
यस्य॑ ते वि॒श्वमा॑नुषो॒ भूरे॑र्द॒त्तस्य॒ वेद॑ति वसु॑ स्पा॒र्हं तदा भ॑र