Sukta 44
Mandala 8 · 30 rks
30 rks · free forever
Uses your saved HI voice · Narration settings
Rk 1
स॒मिधा॒ग्निं दु॑वस्यत घृ॒तैर्बो॑धय॒ताति॑थिम् आस्मि॑न्ह॒व्या जु॑होतन
Rk 2
अग्ने॒ स्तोमं॑ जुषस्व मे॒ वर्ध॑स्वा॒नेन॒ मन्म॑ना प्रति॑ सू॒क्तानि॑ हर्य नः
Rk 3
अ॒ग्निं दू॒तं पु॒रो द॑धे हव्य॒वाह॒मुप॑ ब्रुवे दे॒वाँ आ सा॑दयादि॒ह
Rk 4
उत्ते॑ बृ॒हन्तो॑ अ॒र्चयः॑ समिधा॒नस्य॑ दीदिवः अग्ने॑ शु॒क्रास॑ ईरते
Rk 5
उप॑ त्वा जु॒ह्वो॒३॒॑ मम॑ घृ॒ताची॑र्यन्तु हर्यत अग्ने॑ ह॒व्या जु॑षस्व नः
Rk 6
म॒न्द्रं होता॑रमृ॒त्विजं॑ चि॒त्रभा॑नुं वि॒भाव॑सुम् अ॒ग्निमी॑ळे॒ स उ॑ श्रवत्
Rk 7
प्र॒त्नं होता॑र॒मीड्यं॒ जुष्ट॑म॒ग्निं क॒विक्र॑तुम् अ॒ध्व॒राणा॑मभि॒श्रिय॑म्
Rk 8
जु॒षा॒णो अ॑ङ्गिरस्तमे॒मा ह॒व्यान्या॑नु॒षक् अग्ने॑ य॒ज्ञं न॑य ऋतु॒था
Rk 9
स॒मि॒धा॒न उ॑ सन्त्य॒ शुक्र॑शोच इ॒हा व॑ह चि॒कि॒त्वान्दैव्यं॒ जन॑म्
Rk 10
विप्रं॒ होता॑रम॒द्रुहं॑ धू॒मके॑तुं वि॒भाव॑सुम् य॒ज्ञानां॑ के॒तुमी॑महे
Rk 11
अग्ने॒ नि पा॑हि न॒स्त्वं प्रति॑ ष्म देव॒ रीष॑तः भि॒न्धि द्वेषः॑ सहस्कृत
Rk 12
अ॒ग्निः प्र॒त्नेन॒ मन्म॑ना॒ शुम्भा॑नस्त॒न्वं१॒॑ स्वाम् क॒विर्विप्रे॑ण वावृधे
Rk 13
ऊ॒र्जो नपा॑त॒मा हु॑वे॒ऽग्निं पा॑व॒कशो॑चिषम् अ॒स्मिन्य॒ज्ञे स्व॑ध्व॒रे
Rk 14
स नो॑ मित्रमह॒स्त्वमग्ने॑ शु॒क्रेण॑ शो॒चिषा॑ दे॒वैरा स॑त्सि ब॒र्हिषि॑
Rk 15
यो अ॒ग्निं त॒न्वो॒३॒॑ दमे॑ दे॒वं मर्तः॑ सप॒र्यति॑ तस्मा॒ इद्दी॑दय॒द्वसु॑
Rk 16
अ॒ग्निर्मू॒र्धा दि॒वः क॒कुत्पतिः॑ पृथि॒व्या अ॒यम् अ॒पां रेतां॑सि जिन्वति
Rk 17
उद॑ग्ने॒ शुच॑य॒स्तव॑ शु॒क्रा भ्राज॑न्त ईरते तव॒ ज्योतीं॑ष्य॒र्चयः॑
Rk 18
ईशि॑षे॒ वार्य॑स्य॒ हि दा॒त्रस्या॑ग्ने॒ स्व॑र्पतिः स्तो॒ता स्यां॒ तव॒ शर्म॑णि
Rk 19
त्वाम॑ग्ने मनी॒षिण॒स्त्वां हि॑न्वन्ति॒ चित्ति॑भिः त्वां व॑र्धन्तु नो॒ गिरः॑
Rk 20
अद॑ब्धस्य स्व॒धाव॑तो दू॒तस्य॒ रेभ॑तः॒ सदा॑ अ॒ग्नेः स॒ख्यं वृ॑णीमहे
Rk 21
अ॒ग्निः शुचि॑व्रततमः॒ शुचि॒र्विप्रः॒ शुचिः॑ क॒विः शुची॑ रोचत॒ आहु॑तः
Rk 22
उ॒त त्वा॑ धी॒तयो॒ मम॒ गिरो॑ वर्धन्तु वि॒श्वहा॑ अग्ने॑ स॒ख्यस्य॑ बोधि नः
Rk 23
यद॑ग्ने॒ स्याम॒हं त्वं त्वं वा॑ घा॒ स्या अ॒हम् स्युष्टे॑ स॒त्या इ॒हाशिषः॑
Rk 24
वसु॒र्वसु॑पति॒र्हि क॒मस्य॑ग्ने वि॒भाव॑सुः स्याम॑ ते सुम॒तावपि॑
Rk 25
अग्ने॑ धृ॒तव्र॑ताय ते समु॒द्राये॑व॒ सिन्ध॑वः गिरो॑ वा॒श्रास॑ ईरते
Rk 26
युवा॑नं वि॒श्पतिं॑ क॒विं वि॒श्वादं॑ पुरु॒वेप॑सम् अ॒ग्निं शु॑म्भामि॒ मन्म॑भिः
Rk 27
य॒ज्ञानां॑ र॒थ्ये॑ व॒यं ति॒ग्मज॑म्भाय वी॒ळवे॑ स्तोमै॑रिषेमा॒ग्नये॑
Rk 28
अ॒यम॑ग्ने॒ त्वे अपि॑ जरि॒ता भू॑तु सन्त्य तस्मै॑ पावक मृळय
Rk 29
धीरो॒ ह्यस्य॑द्म॒सद्विप्रो॒ न जागृ॑विः॒ सदा॑ अग्ने॑ दी॒दय॑सि॒ द्यवि॑
Rk 30
पु॒राग्ने॑ दुरि॒तेभ्यः॑ पु॒रा मृ॒ध्रेभ्यः॑ कवे प्र ण॒ आयु॑र्वसो तिर